श्रीगणेशपुराणे उपासनाखण्डे अष्टचत्वारिंशत्तमोऽध्यायः
अम्बाविर्भावः
॥ व्यास उवाच ॥
श्रुतं मया महाख्यानं त्रिपुरस्य वधाश्रयम् ।
तथापि श्रोतुमिच्छामि क्व स्थिता जगदम्बिका ॥ १ ॥
कथमाविर्बभूवैषा तिथौ दग्धः क्व दैत्यराट् ।
एतत्सर्वं सविस्तारं कथयस्व पितामह ॥ २ ॥
॥ ब्रह्मोवाच ॥
बाहुले पौर्णमास्यां स सायं दग्धो महासुरः ।
दिवायुद्धं महाघोरं प्रागेव वर्णितं हि तत् ॥ ३ ॥
यतोऽर्चितः सुरैः सर्वैर्जयशाली सुरारिहा ।
अतस्तस्यां दीपदानं कुर्वन्ति भुवि मानवाः ॥ ४ ॥
तस्यां स्नानं च दानं च जपहोमादिकं च यत् ।
बहुलं जायते यस्मात् तस्मात् सा बाहुली स्मृता ॥ ५ ॥
तस्यां ये तु न कुर्वन्ति त्रिपुरारिमहोत्सवम् ।
न लभन्ते जयं क्वापि दग्धपुण्या भवन्ति ते ॥ ६ ॥
अतस्तस्यां पौर्णमास्यां प्रातरर्चन्ति ये शिवम् ।
निशि यत् तैः कृतं पापं विलयं प्रतिपद्यते ॥ ७ ॥
आजन्मतः कृतं पापं मध्याह्नार्चनतस्तथा ।
सप्तजन्मार्जितं पापं प्रदोषार्चनतो मुने ॥ ८ ॥
आविर्भावं शिवायास्त्वं कथ्यमानं मया शृणु ।
तस्य मृत्युं शिवाज्ज्ञात्वा भयादन्तर्हिता शिवा ॥ ९ ॥
आविरासीज्जगन्माता हिमाचलगुहामुखात् ।
ददर्श पर्वतं घोरं सिंहव्याघ्रमृगाकुलम् ॥ १० ॥
अपश्यन्ती शिवं सा तु विरहाकुलमानसा ।
विललाप भृशं भीता हा तात हा शिवेति च ॥ ११ ॥
कथं मां न विजानीषे सर्वज्ञः सन् सदाशिव ।
वन एकाकिनीं घोरे क्रन्दन्ती कुररीमिव ॥ १२ ॥
कदा मे दर्शनं ते स्यात् किं मां विस्मृतवानसि ।
शक्ता न जीवितं धर्तुं सोढुं वा विरहं हर ॥ १३ ॥
तात त्त्वमपि कुत्रासि न मे शोकं श्रुणोषि किम् ।
त्वां विना शरणं कं वा यामि किं वा करोम्यहम् ॥ १४ ॥
योजयस्व पुनर्मां त्वं शिवेन च शिवेन च ।
इदानीं पुनरुत्पन्नां जानीहि जठरात् तव ॥ १५ ॥
वरं तमेव शीघ्रं मे गवेषय सदाशिवम् ।
नो चेद् देहपरित्यागं भृगोरस्मात् करोम्यहम् ॥ १६ ॥
॥ ब्रह्मोवाच ॥
एवं रुदन्त्यास्तस्यास्तु श्रुत्वा तां गिरमुत्तमाम् ।
न्यवेदयद्धिमवते कश्चिदागत्य धीवरः ॥ १७ ॥
॥ धीवर उवाच ॥
काचिन्नितम्म्बिनी बाला सर्वाभरणभूषिता ।
ताटके बिभ्रती श्रुत्योर्मण्डले इव भास्वतः ॥ १८ ॥
नानारत्नलसद्दीप्ति मुकुटं मस्तके भृशम् ।
ललाटे तु चतुष्कोणं मुक्ताषोडशशोभितम् ॥ १९ ॥
पुष्पं काञ्चनरत्नाढ्यं मुक्तादाम विलम्बितम् ।
सीमन्तान्तर्गतं चारु नासिके स्वर्णमौक्तिकम् ॥ २० ॥
अङ्गदे चारुणी बाह्वोर्हस्तयोर्वलयानि च ।
लसत्काञ्चनरत्नाढ्यं प्रत्येकमङ्गुलीयकम् ॥ २१ ॥
मुक्ताफलमयीं मालां लसत्कञ्चुकसंश्रिताम् ।
हेमरत्नमयीं काञ्चीं कटौ क्षौमावृते शुभाम् ॥ २२ ॥
गुल्फयोः शृङ्खले हैमे सिञ्जच्चारूसुनूपरे ।
पादाङ्गुलीष्वपि पृथक् तत्तद्भूषणमुत्तमम् ॥ २३ ॥
एवं सर्वानवद्याङ्गी रूदती विह्वला भृशम् ।
दृष्टा पृष्ठा न मां वक्ति गृह्णाति सा तवाभिधाम् ॥ २४ ॥
॥ ब्रह्मोवाच ॥
इत्थं निशम्य हिमवांस्त्वरितस्तां सुतां ययौ ।
सान्त्वयन् हेतुगर्भाभिर्वाग्भिस्तामवदत्सुधीः ॥ २५ ॥
॥ हिमवानुवाच ॥
किमर्थं शोचसे सुभ्रु सृष्टिस्थित्यन्तहेतुके ।
सर्वलक्षणसम्पूर्णे सर्वशक्तियुतेऽनघे ॥ २६ ॥
अकर्तुमन्यथाकर्तुं कर्तुमीशे महेश्वरि ।
अवाप्तसर्वकामे च सर्वप्राण्यन्तरं गते ॥ २७ ॥
न वियुक्ता शिवेन त्वं सर्वान्तर्यामिणी शुभे ।
अथापि योजयिष्ये त्वां शिवेन शिवकारिणा ॥ २८ ॥
उत्तिष्ठेति गृहीत्वा तामाययौ निजमन्दिरम् ।
ननन्द पार्वती तत्र दृष्ट्वा मेनां सुतान्विताम् ॥ २९ ॥
निश्वासपरमाऽप्यासीच्छिवं द्रष्टुं समुत्सुका ।
उवाच पितरं नत्वा साधूपायं वदस्व मे ॥ ३० ॥
व्रतं दानं तपो वापि दुष्करं शिवलब्धये ।
करिष्ये तमहं तात पूर्ववत्तप उत्तमम् ॥ ३१ ॥
॥ ब्रह्मोवाच ॥
अवदज्जनकस्तां तु विचार्य मनसा सकृत् ।
कार्यसिद्धिकरं शीघ्रमुपायं शृणु तं मुने ॥ ३२ ॥
॥ हिमवानुवाच ॥
शृणु पार्वति वक्ष्यामि साधूपायं शिवाप्तये ।
उपास्तिं विघ्नराजस्य धर्मार्थकाममोक्षदाम् ॥ ३३ ॥
अनुष्ठितां महेन्द्राद्यैः देवैश्च नारदादिभिः ।
प्राप्ताश्च सिद्धयस्तास्ताः शक्रादिपदलक्षणाः ॥ ३४ ॥
ब्रह्मणः सृष्टिसामर्थ्यं दत्तं तेन महात्मना ।
विष्णोश्चावनसामर्थ्यं दत्तं सर्वेश्वेरण ह ॥ ३५ ॥
शिवस्यापि च तेनैव सामर्थ्यं संहृतौ दृढम् ।
शेषस्यापि च तेनैव सर्वविघ्नहरेण च ॥ ३६ ॥
धराधरणसामर्थ्यं दत्तं सर्वेश्वरेण ह ।
यस्य स्वरूपं न विदुर्ब्रह्माद्या मुनयोऽपि च ॥ ३७ ॥
वाचामगोचरो योऽसौ मनसोऽथाप्यगोचरः ।
गजाननस्वरूपेण परिदृष्योऽयमीश्वरः ॥ ३८ ॥
अतस्तेनैव रूपेण सर्वारम्भेषु पूज्यते ।
तमुपासस्व सर्वेशं मया प्रोक्तेन वर्त्मना ॥ ३९ ॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे अम्बाविर्भावोनाम
अष्टचत्वारिंशत्तमोऽध्यायः ॥ ४८ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें