श्रीगणेशपुराणे उपासनाखण्डे सप्तचत्वारिंशत्तमोऽध्यायः

 

श्रीगणेशपुराणे उपासनाखण्डे सप्तचत्वारिंशत्तमोऽध्यायः
शिवविजयः

॥ व्यास उवाच ॥

नाम्नां सहस्रे सम्प्राप्ते प्रसन्ने च गजानने ।
ततः किमकरोत् ब्रह्मन् हरस्तत् कथयस्व मे ॥ १ ॥


॥ ब्रह्मोवाच ॥
गणेशवरदानेन नाम्नां चैवोपदेशतः ।
प्रहृष्टः शङ्करोऽनृत्यद् जगर्ज च महास्वनः ॥ २ ॥
आहूय स्वगणान् देवान् युद्धावसरमादिशत् ।
ते च हर्षेण महता ययुर्देवाः शिवान्तिकम् ॥ ३ ॥
ब्रह्मा कुबेरोऽथ पुरन्दरोऽग्निर्वायुश्च सोमोवरुणोऽर्यमा च ।
गन्धर्वयक्षा ग्रहकिन्नराश्च सर्वे नमस्कृत्य शिवं स्तुवन्तः ॥ ४ ॥
॥ देवा ऊचुः ॥
महादेव जगन्नाथ जगदानन्ददायक ।
त्वया हन्त महादैत्यं कदा द्रक्ष्यामहे वयम् ॥ ५ ॥
स्थानभ्रष्टा वयं तेन कृता विश्वविघातिना ।
॥ ब्रह्मोवाच ॥
एवं देववचः श्रुत्वा पिनाकी निर्ययौ मुदा ॥ ६ ॥
गणेशं मनसा ध्यायन् युद्धाय कृतनिश्चयः ।
वेगेन भवनं प्राप्य देवगन्धर्व संयुतः ॥ ७ ॥
तावच्च दैत्यं चारैस्तु वृत्तान्तः सन्निरूपितः ।
आगतः सुरसैन्येन युद्धाय गिरिजा पतिः ॥ ८ ॥
तस्य सैन्यान्यनह्यन्त शस्त्रैरस्त्रैश्च कञ्चुकैः ।
स च दैत्यो महानादो युद्धभूषणभूषितः ॥ ९ ॥
वीरानानन्दयामास वासः स्रग्भूषणैर्घनैः ।
अनेकयानसंस्थेषु योद्धृषु त्रिपुरं स्वयम् ॥ १० ॥
आरुरोह महादैत्यो नादयन् विदिशो दिशः ।
ततो युद्धं समभवत् सेनयोरुभयोर्महत् ॥ ११ ॥
शस्त्रैर्नानाविधैर्बाणैः मर्मभेदिभिरायसैः ।
असृङ्नदीप्रवाहोऽभून् मार्गरोधनकारकः ॥ १२ ॥
शस्त्राहता बभुर्योधाः पुष्पिताः किंशुका इव ।
केचिच्च दृढवैरेण जीवग्राहममारयन् ॥ १३ ॥
केचित् कचेषु धृत्वैव शिरांसि चिच्छिदुर्बलात् ।
धावतां रथिवीराणामश्वानां करिणामपि ॥ १४ ॥
अङ्घ्रिपातभवो रेणुर्व्यानशे रोदसी क्षणात् ।
अन्धकारे घोरतरे न प्राज्ञायत किञ्चन ॥ १५ ॥
चक्रुरेवं तदा युद्धं वीरा नानाविधा भृशम् ।
जीविताशां परित्यज्य मर्तव्ये कृत निश्चयाः ॥ १६ ॥
अदृश्यन्त मृता देवा गते रजसि वायुना ।
विद्रुते सुरसैन्ये च दैत्यसैन्ये च हर्षिते ॥ १७ ॥
आययौ समरश्लाघी वज्रहस्तः पुरन्दरः ।
शतकोटिं निरीक्ष्यैव दुद्रुवुर्दैत्यदानवाः ॥ १८ ॥
स वज्रपातैरसुरांश्चूर्णयामास वज्रभृत ।
तत्त्यजुर्जीवितं ते तु चण्डवज्रप्रहारतः ॥ १९ ॥
केचिच्च भग्नचरणाः केचिद् भग्नशिरोधराः ।
केचिद्विदीर्ण जठराश्छिन्नस्कन्धभुजाः परे ॥ २० ॥
छिन्नाश्वानां च वीराणां वाजिनां रथिनां तथा ।
केषाञ्चिदुरवो भिन्ना जङ्घासु च हताः परे ॥ २१ ॥
छिन्नगुल्फाः परेपेतुर्मिषात् पेतुरथापरे ।
निहतानामसृक्पातैर्जज्ञिरे निम्नगा बहु ॥ २२ ॥
उत्साहवर्धनास्तेषां वीराणां जयकाङ्क्षिणाम् ।
ततः शनैर्गर्जमानो ददर्श त्रिपुरासुरः ॥ २३ ॥
निहतं बहुधा सैन्यं शक्रं योद्धुमथाययौ ।
बभाण शक्रं दृष्ट्वैव किमर्थं मर्त्तुमिच्छसि ॥ २४ ॥
अपैहि युद्धाज्जीवंस्त्वं न पृष्ठं हन्मि वासव ।
का ते शक्तिर्मया युद्धं कर्तुं तव शचीपते ॥ २५ ॥
अजः सिंहेन किं युद्धं करिष्यति वदस्व मे ।
एहि युद्धस्व शक्तिश्चेन्नो चेद् गच्छ यथासुखम् ॥ २६ ॥
एवमुक्ते स्थिते शक्रे ववर्षे सायकान् बहून् ।
सज्यङ्कृत्वा धनुर्दैत्यो देवसेनामताडयत् ॥ २७ ॥
एकस्मान् मन्त्रिताद् बाणादसङ्ख्याता ययुः शराः ।
मृद्नन्तो देवगन्धर्वान् रोदसी समपूरयन् ॥ २८ ॥ (मृद्गन्तो)
अन्धकारं पुनरभूत् बाणजालैर्निरन्तरम् ।
तद्बाणैरपि ते देवा व्यङ्गाः पेतुर्धरातले ॥ २९ ॥
बलहा न्यपतत् भूमौ प्रहारवरपीडितः ।
सर्वेषु देववर्येषु मूर्च्छितेषु महेश्वरः ॥ ३० ॥
श्लाघन्तं बहुगर्जन्तं युध्यन्तं नाऽभ्यरोचयत् ।
मनसाऽपूजयच्छम्भुस्तस्य दैत्यस्य पौरुषम् ॥ ३१ ॥
एतस्मिन्नन्तरे तत्र नारदो द्रष्टुमाययौ ।
पूजितः प्रावदच्छम्भुं शृणुष्व नीललोहित ॥ ३२ ॥
॥ नारद उवाच ॥
त्वया चिन्ता न कर्तव्या त्रिपुरस्य वधं प्रति ।
वक्ष्ये तस्य वधोपायं तं कुरष्व महेश्वर ॥ ३३ ॥
तेन पूर्वं तपोऽकारि दुष्करं ब्रह्मणोऽपि हि ।
आराधितो गणपतिः स तस्मै सर्ववाञ्छितम् ॥ ३४ ॥
यद्यत्तेन वृतं देवो दत्तवानविचारितम् ।
पुरत्रयं कामगममेकबाणाश्रितं महत् ॥ ३५ ॥
मरुद्गतिविहीनं तदभेद्यं सर्वनिर्जरैः ।
स एवमुक्तवान् गुह्यं शरणैकेन यस्तव ॥ ३६ ॥
पुरत्रयं भेत्स्यते ते तस्मान्मृत्युमवाप्स्यति ।
एवमुक्त्वा गते तस्मिन्नारदे मुनिसत्तमे ॥ ३७ ॥
मूर्च्छितान् विबुधान् शर्वः सावधानमथाकरोत् ।
संस्मारेभमुखं वाक्यं स्मारितो नारदेन तु ॥ ३८ ॥
महाप्रयत्नमारेभे दैत्यराजवधाय सः ।
तेजसा सर्वनाशाय शक्तो देवो निजेच्छया ॥ ३९ ॥
रथं कुरूपं शशिसूर्यचक्रं यं तारमिन्दीवरजं चकार ।
धनुर्गिरीन्द्रं शरमच्युतं स धुर्याश्विनेयावयुजद् गिरीशः ॥ ४० ॥
आचम्य देवं मनसा विचिन्त्य तेनोपदिष्टं च जजाप नाम्नाम् ।
सहस्रमेकाक्षरमन्त्रयुक्तममन्त्रयत् तेन पिनाकमुग्रम् ॥ ४१ ॥
अमन्त्रयन् महाबाणं विष्णुरूपं यदा शिवः ।
चकम्पे धरणी शेषो वनानि गिरयोऽपि च ॥ ४२ ॥
बभ्रमुः खगणाः सर्वे चुकूजुश्च महारवान् ।
शब्देना जगवस्यापि विभ्रान्ताः सुरमानुषाः ॥ ४३ ॥
अमुञ्चत्तं यदा बाणं तदा दग्धं नभस्तलम् ।
भूमण्डलं सपातालं ज्वालामालाभिरञ्जसा ॥ ४४ ॥
दृष्ट्वा पपाल दैत्येन्द्रः ससैन्यः पुरसंश्रयः ।
जवेनागाच्छरः सोऽप्य दहद्दैत्यं पुरत्रयम् ॥ ४५ ॥
दैत्यदेहगतं तेजो भर्गदेहे लयं ययौ ।
पश्यतां सर्व सैन्यानां दैत्यदानवरक्षसाम् ॥ ४६ ॥
ततोऽन्तरिक्षे वागासीन् मुक्तो दैत्यः शिवाहतः ।
ततस्ते तुष्टुवुर्देवा मुनयोऽपि त्रिलोचनम् ॥ ४७ ॥
जगुर्गन्धर्वनिचयाश्चारणाः श्रुतितत्पराः ।
नतृतुश्चाप्सरः सङ्घाः किन्नरा वाद्यवादकाः ॥ ४८ ॥
मुमुचुः पुष्पवर्षाणि नारदाद्याः सुरर्षयः ।
ययुः शिवाज्ञया देवाः स्वं स्वं स्थान निराधयः ॥ ४९ ॥
नमस्कृत्य महेशानं त्रिपुरासुरघातिनम् ।
मुनयोऽपि निरुद्वेगाः स्वस्वानुष्ठानतत्पराः ॥ ५० ॥
आसंस्तस्मिन् हते दैत्ये वेदवेदाङ्गशालिनः ।
अग्निहोत्राणि यज्ञांश्च दानानि च व्रतानि च ॥ ५१ ॥
चक्रुः सर्वजना भूमौ पुनरुत्साहसंयुताः ।
शैलादिगणपस्कन्द्रैः सर्वैः पारिषदैरपि ॥ ५२ ॥
कृतावनामस्त्र्यक्ष्योऽपि विभज्य तं महारथम् ।
जयशब्दैस्तूर्यशब्दैर्देवदुन्दुभिनिस्वनैः ॥ ५३ ॥
अलङ्कृतं शैलराजं कैलासं मुदितो ययौ ।
त्रिपुरारिरिति स्पष्टं ततो नामास्य पप्रथे ॥ ५४ ॥
एवं महागणपतेर्मन्त्र सामर्थ्यमीरितम् ।
सहस्रनाम्नामपि च प्रभावोऽयं निरूपितः ॥ ५५ ॥
॥ ब्रह्मोवाच ॥
न विज्ञातो मदन्येन कस्यापि न निवेदितः ।
पठनाच्छ्रवणादस्य सर्वकाम फलं लभेत् ॥ ५६ ॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे शिवविजयोनाम सप्तचत्वारिंशत्तमोऽध्यायः ॥ ४७ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-उपासना-खण्ड-अध्याय-47

कोई टिप्पणी नहीं:

123

------------------------------
------------------------------ Related Posts Plugin for WordPress, Blogger...