श्रीगणेशपुराणे उपासनाखण्डे षोडशोऽध्यायः

 

श्रीगणेशपुराणे उपासनाखण्डे षोडशोऽध्यायः

देवीप्रार्थनं
॥ राजोवाच ॥

श्रुत्वा कथां गणेशस्य हर्षश्चेतसि जायते ।
पुनश्च वद विप्रर्षे न तृप्यामि कथामृतम् ॥ १ ॥
अन्तर्हिते भगवति गणेशे परमात्मनि ।
कथं विनिर्ममे सृष्टिं ब्रह्मा तद् वर्णय प्रभो ॥ २ ॥
यच्चाग्रे कथयामास व्यासायाख्यान कं विधिः ।
तदहं विस्तरेणैव श्रोतुमिच्छामि सन्मुने ॥ ३ ॥


॥ भृगुरुवाच ॥
सिद्धक्षेत्रस्य माहात्म्यं व्यासायाऽकथयत् प्रभुः ।
आनुपूर्व्येण तत् तेऽहं कथयिष्येऽसृजच्च यत् ॥ ४ ॥
स ब्रह्मा निर्ममे पूर्वं मनसा सप्त पुत्रकान् ।
आहतान्सृष्टिसाहाय्यं सृजध्वं स्वस्वबुद्धितः ॥ ५ ॥
ते तु तद्वचनं श्रुत्वा तपसे कृत निश्चयाः ।
तपस्तप्त्वाऽऽसु विपुलं परं ब्रह्म समागताः ॥ ६ ॥
ततोऽन्यान् कल्पयामास सप्त पुत्रान् प्रजापतिः ।
तेऽत्यन्त ज्ञानसम्पन्ना न चक्रुः सृष्टिमुत्तमाम् ॥ ७ ॥
ततः स्वयं समारेभे सनकादीन् विलोक्य तान् ।
मुखतो ब्रह्मणानग्निमसृजत् कमलासनः ॥ ८ ॥
बाहुरुपादतोऽन्याँस्त्रीन् वर्णां श्चन्द्रमसं हृदः ।
चक्षुर्भ्याञ्च रविं श्रोत्रान्मारुतं प्राणमेव च ॥ ९ ॥
अन्तरिक्षं तथा नाभेः शिरसो दिवमेव च ।
भूमिं पद्भ्यां दिशः श्रोत्रादन्याँल्लोकानकल्पयत् ॥ १० ॥
अन्यदुच्चावचं विश्वं स्थावरं जङ्गमं च यत् ।
समुद्रान् सरितः शैलाँस्तृणगुल्ममहीरुहान् ॥ ११ ॥
ततः कतिपयाहःसु गतेषु मुनिसत्तमाः ।
निद्रितस्य महाविष्णोः श्रोताज्जातो महासुरौ ॥ १२ ॥
मधुकैटभनामानौ विख्यातौ भुवनत्रये ।
द्रँष्ट्राकरालवदनौ पिङ्गाक्षौ दीर्घनासिकौ ॥ १३ ॥
महाकायौ महारावावत्युच्चौ पर्वताविव ।
वर्षामुदिरशब्दौ तौ गर्जन्तौ भृशगर्वितौ ॥ १४ ॥
वचोभिर्बहुभिर्दुष्टौ धिक्कारं तस्य चक्रतुः ।
विप्रान् देवान् ऋषीन् साधून् शास्त्राणिच निनिन्दतुः ॥ १५ ॥
तयोः शब्देन धरणी चकम्पे शेष एव च ।
उद्विग्नमासीत् सकलं ब्रह्माण्डं स्वनतस्तयौः ॥ १६ ॥
ततस्तौ क्रोधरक्ताक्षौ कं तं खादितुमुद्यतौ ।
ततोऽसौ वरदां देवीं विष्णुमोहनकारिणीम् ॥ १७ ॥
विष्णुनेत्रगतां निद्रां तुष्टाव कमलासनः ।
मधुकैटभनाशाय प्रबोधाय हरेरपि ॥ १८ ॥
गजानन प्रसादेन विष्णुहस्तात् तयोर्वधम् ।
ज्ञात्वा सम्यग्विचार्यैव चिन्ताहर्षसमन्वितः ॥ १९ ॥
॥ ब्रह्मोवाच ॥
स्वाहास्वधारूपधरा सुधा त्वं मात्रार्धमायास्वररूपिणी च ।
कर्त्री च हर्त्री जननी जनस्य सतोऽसतः शक्तिरसि त्वमेव ॥ २० ॥
श्रुतिः स्वरा कालरात्रिरनादिनिधनाऽक्षपा ।
जगन्माता जगद्धात्री सृष्टिस्थित्यन्तकारिणी ॥ २१ ॥
सावित्री च तथा सन्ध्या महामाया तृषा क्षुधा ।
सर्वेषां वस्तुजातानां शक्तिस्त्वमसि पार्वति ॥ २२ ॥
त्रैलोक्यकर्त्ता त्वन्नाथो दैत्यदानवसूदनः ।
निद्रया व्याप्तचित्तोऽसौ ज्ञानविज्ञानवान् हरिः ॥ २३ ॥
जगदुत्पाद्यते येन पाल्यते ह्रियतेऽपि च ।
सोऽपि त्वयावताराणां सङ्कटे विनियोज्यते ॥ २४ ॥
दुष्टात्मानौ मोहयैतौ त्वं दैत्यौ मधुकैटभौ ।
हन्तुमेतौ दुराधर्षौ ज्ञानमस्य प्रदीयताम् ॥ २५ ॥
अहमाराधितश्चाभ्यां पूर्वजन्मन्यतन्द्रितम् ।
वरान् बहुविधान प्रादामवध्यौ मम तावुभौ ॥ २६ ॥
तयोरुच्चावचान् शब्दानतोऽहमसहं बहु ।
मामेव हन्तुकामौ तौ स्तुतौ नानाविधैः स्तवैः ॥ २७ ॥
तथापि मद्वधातौ न निवृत्तौ दुष्टभावतः ।
अतस्त्वां प्रार्थये देवि विष्णुबोधनहेतवे ॥ २८ ॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे देवीप्रार्थनं नाम षोडशोऽध्यायः ॥ १६ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-उपासना-खण्ड-अध्याय-16

कोई टिप्पणी नहीं:

123

------------------------------
------------------------------ Related Posts Plugin for WordPress, Blogger...