श्रीगणेशपुराणे उपासनाखण्डे सप्तदशोऽध्यायः

 

श्रीगणेशपुराणे उपासनाखण्डे सप्तदशोऽध्यायः
मन्त्रोपदेश

॥ मुनिरुवाच ॥

यावदुत्तिष्ठते विष्णुस्तावत्ताभ्यां त्रिविष्टपम् ।
आक्रान्तमिन्द्रसदनं याम्यं कौबेरमेव च ॥ १ ॥
तौ दृष्ट्वा सर्वतो देवाः पलायनपरा बभुः ।
निपेतुर्बभ्रमुः केचिन्मुमूर्च्छुश्चस्खलुः परे ॥ २ ॥
ततो देव्या विनिर्मुक्तो निद्रया हरिरीश्वरः ।
आश्वास्य सर्व देवाँस्ताँस्ताम्भ्यां युद्धं चकार ह ॥ ३ ॥


आक्रमं सर्वदेवानां कृतं ताभ्यां निवारितुम् ।
शेषादिसर्वनागानां मुनीनां यक्षरक्षसाम् ॥ ४ ॥
शुशुभे स हरिस्तत्र शङ्खचक्रगदाधरः ।
किरीटकुण्डलधरो नीलमेघघनच्छविः ॥ ५ ॥
ततः स भगवान् शङ्खं प्रदध्मौ भृशवेगवान् ।
तेन शब्देन महता क्षोभयामास रोदसी ॥ ६ ॥
पाञ्चजन्यस्वनं श्रुत्वा बिभिदे हृदयं तयोः ।
ततस्तौ भयसंविग्नौ परस्परमथोचतुः ॥ ७ ॥
भूमण्डलं च पातालं स्वर्गाणामेकविंशतिः ।
आक्रान्ताः सम्यगावाभ्यां तदाऽयं न श्रुतः स्वनः ॥ ८ ॥
वज्रसारमयं येन चकम्पे हृदयं द्वयोः ।
तस्मादनेन योद्धव्यं पुरुषेण बलीयसा ॥ ९ ॥
रणकण्डूतिशान्त्यर्थं विजयायेतराय वा ।
रिपुमेनं हनिष्यावो गच्छावो वा पुनर्भवम् ॥ १० ॥
एवं तौ निश्चयं कृत्वा युयुत्सुं हरिमूचतुः ।
रणकण्डूतिशान्त्यर्थं दृष्टोऽसि पुरूषोत्तम ॥ ११ ॥
कथमुत्तमतां यासि ह्यावयोर्दृष्टिगोचरः ।
॥ मुनिरुवाच ॥
इति वाक्यं तयोः श्रुत्वा जगाद विष्टरश्रवाः ॥ १२ ॥
॥ हरिरुवाच ॥
सम्यगुक्तं महादैत्यौ यथेष्टं युध्यतं मया ।
न हि कामयते कश्चिन्मरणं स्वयमात्मनः ॥ १३ ॥
॥ तावूचतुः ॥
चतुर्भुजोऽसि देवेश बाहुयुद्धं ददस्व नौ ।
॥ मुनिरुवाच ॥
एवमुक्तो हरिस्ताभ्यां तथेत्याह मुदान्वितः ॥ १४ ॥
त्यक्त्वाऽऽयुधानि युयुधे द्वाभ्यामेकश्चतुर्भुजः ।
जघ्नतुस्तौ शिरो मूर्ध्ना जङ्घाभिरथ जङ्घयोः ।
कूर्परौ कूर्परैः स्वीयैर्बाहु बाहुभिरेव च ॥ १५ ॥
गुल्फौ गुल्फैः कटिं ताभ्यां नासिकाभ्यां च नासिकाम् ।
मुष्टिभ्यां मुष्टिदेशं च पृष्ठाभ्यां पृष्ठमेव च ॥ १६ ॥
आस्फोटनविकर्षाभ्यां बाहुभिर्मण्डलैरपि ।
एवं परस्परं युद्धं प्रावर्त्तत चिरं तदा ॥ १७ ॥
सहस्रं पञ्चगुणितमतिक्रान्तं महामुने ।
वर्षाणां न तु तौ जेतुं शशाङ्क हरिरीश्वरः ।
ततो दधाररूपं स गान्धर्वं गीतकोविदम् ॥ १८ ॥
गत्वा वनान्तरं चारू वीणागानं चकारः सः ।
हरिणाश्वापदा लोका देवगन्धर्वराक्षसाः ॥ १९ ॥
स्वस्वव्यापाररहिताः सर्वे तत्परतां ययुः ।
आलापं तस्य गिरिशः कैलासे श्रुतवान् मुहुः ॥ २० ॥
निकुम्भं पुष्पदन्तं च जगाद भगनेत्रहा ।
एतमानयतं शीघ्रं योऽसौ गायति कानने ॥ २१ ॥
तौ गत्वा दर्शनं तस्य गृहीत्वा वै तमूचतुः ।
तव गीतस्वनं श्रुत्वा शङ्करो हर्षनिर्भरः ॥ २२ ॥
त्वां समाह्वयते देवो गानं श्रोतुं तवानघ ।
आवाभ्यां सह याहि त्वं शीघ्रं याम तदन्तिकम् ॥ २३ ॥
तयोर्वाक्यमिति श्रुत्वा गन्धर्वो हरिभक्तिमान् ।
ताभ्यां सह ययौ तत्र यत्र देवो महेश्वरः ॥ २४ ॥
ददर्श पार्वतीकान्तं चन्द्रार्धकृतशेखरम् ।
गजचर्मपरीधानं रुण्डमाला विभूषितम् ॥ २५ ॥
राजत्पिङ्गटजटाभारं सर्पयज्ञोपवीतिनन् ।
ननाम भुवि विश्वेशं प्रणतार्तिविनाशनम् ॥ २६ ॥
उत्थाप्य गिरिशः स्वेन पाणिना तमधोक्षजम् ।
आसनञ्च ददौ तस्मै पूजयामास शङ्करः ॥ २७ ॥
ततो जगाद स हरिरद्य मे सफलं जनुः ।
यतोऽद्य दर्शनं तेऽभूद् धर्मकामार्थमोक्षदम् ॥ २८ ॥
तोषयामास तं देवोगन्धर्वो गानतत्परः ।
वीणारवैः कलपदैरालापैर्विविधैरपि ॥ २९ ॥
स्कन्दं गणेश्वरं देवीं पार्वतीं च सुरानृषीन् ।
ततो महेश्वरः प्रीत्याऽऽलिलिङ्ग प्रकटं हरिम् ॥ ३० ॥
शङ्खचक्रगदापद्मपीताम्बरधरं शुभम् ।
उवाच च हरे ! मत्तो वृणु कामानशेषतः ॥ ३१ ॥
दास्यामि तव गानेन परांमुदमुपागतः ।
॥ भृगुरुवाच ॥
तत ऊचे स्वभूस्तन्तु वृत्तान्तं दैत्ययोः परम् ॥ ३२ ॥
॥ हरिरुवाच ॥
मयि क्षीराब्धिशयने निद्रिते मधुकैटभौ ।
उत्पन्नौ कर्णमलतो ब्रह्माणं भक्षितुं गतौ ॥ ३३ ॥
तेन निद्रा स्तुता भर्ग तयाऽहं प्रतिबोधितः ।
युद्धं च कृतवाँस्ताभ्यां मल्ललीलामुपागतः ॥ ३४ ॥
नास्मि शक्तो विजेतुं तौ तत एतत् कृतं मया ।
इदानीं तद्वधोपायं वद मे करुणानिधे ॥ ३५ ॥
॥ भर्ग उवाच ॥
विनायकमनर्च्यैव गतोऽसि रणभूमिकाम् ।
शक्तिहीनश्व तेनाऽसि सुभृशं क्लेशवानपि ॥ ३६ ॥
गणेशं पूजयित्वैव व्रज युद्धाय मारिष ।
स च तौ माययाऽऽमोह्य वशतां प्रापयिष्यति ॥ ३७ ॥
मत्प्रसादेन दुष्टौ तौ वधिष्यसि न संशयः ।
॥ हरिरुवाच ॥
कथं विनायकं देवमुपासे भर्ग तद्वद ॥ ३८ ॥
॥ ईश्वर उवाच ॥
उक्ता गणेश्वरस्यैव मन्त्राणां सप्तकोटयः ।
तत्रापि च महामन्त्रास्तेष्वप्येकाक्षरो महान् ॥ ३९ ॥
षडक्षरश्च भगवन्स्तयोरेकं वदामि ते ।
तत एकाक्षरं त्यक्त्वा सिद्धारिचक्रयोगतः ॥ ४० ॥
ऋणं धनं शोधयित्वा तं जगाद षडक्षरः ।
महामन्त्रं गणेशस्य सर्वंसिद्धिप्रदं शुभम् ॥ ४१ ॥
अस्यानुष्ठानमात्रेण कार्यं ते सिद्धिमेष्यति ।
ततो जगाम स हरिरनुष्ठानाय सत्वरः ॥ ४२ ॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे मन्त्रोपदेशो नाम सप्तदशोऽध्यायः ॥ १७ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-उपासना-खण्ड-अध्याय-17

कोई टिप्पणी नहीं:

123

------------------------------
------------------------------ Related Posts Plugin for WordPress, Blogger...