श्रीगणेशपुराणे उपासनाखण्डे एकोनविंशतितमोऽध्यायः

 

श्रीगणेशपुराणे उपासनाखण्डे एकोनविंशतितमोऽध्यायः
कमलापुत्र वर्णनं

॥ भृगुरुवाच ॥

श्रुत्वाख्यानमिदं व्यासः षडर्णं विधिमप्यथ ।
पुनरूचे विधातारं नातिपूर्णाशयो यथा ॥ १ ॥
॥ व्यास उवाच ॥
सिद्धक्षेत्रस्य माहात्म्यं गणनाथस्य चैव हि ।
श्रुतं पापहरं सर्वं कामपुण्यविवर्धनम् ॥ २ ॥
पुनश्च वद मे ब्रह्मन् विनायककथानकम् ।
तृप्तिं न याति परमां पिबन्नपि कथामृतम् ॥ ३ ॥


॥ ब्रह्मोवाच ॥
पाराशर्य महाख्यानं कथयामि तवाग्रतः ।
सर्वदेवाधिदेवस्य गणेशस्य विभोः शुभम् ॥ ४ ॥
विदर्भदेशे राजाऽभूद् दानशूरो महाबली ।
नाम्ना भीम इति ख्यातो दाता भीमपराक्रमः ॥ ५ ॥
कौण्डिण्यनगरे तस्य निवासोऽभून्महामते ।
सामन्ता करदा यस्य करदा इतरे नृपाः ॥ ६ ॥
वाजिनां वारणानां च पत्तीनां कोटयो दश ।
रथानामग्रतो यान्तं यान्ति तत्पृष्ठतौऽपि च ॥ ७ ॥
ब्राह्मणानां सहस्राणि यमाश्रित्य मुदं ययुः ।
तस्य भार्या महाभागा नाम्नाऽभूच्चारुहासिनी ॥ ८ ॥
विकसत्पद्मवदना मृगशावकलोचना ।
ब्रह्मण्या दैवतपरा नित्यं धर्मपरायणा ॥ ९ ॥
पतिव्रता पतिप्राणा पतिवाक्यरता सदा ।
अपुत्रा दैवयोगेन जाता सा वरवर्णिनी ॥ १० ॥
तां निरीक्ष्य तदा भीमश्चारुसर्वाङ्गशोभिनीम् ।
अवदद्दुःखितो वाक्यं पुत्रहीनो नृपोत्तमः ॥ ११ ॥
सर्वं राज्यं परित्यज्य गन्तव्यं वनमुत्तमम् ।
अपुत्रस्य गतिनैव स्वर्गो वा सुखमेव च ॥ १२ ॥
देवा हव्यं न गृह्णन्ति पितरः कव्यमेव च ।
वृथा मे जननी जन्म पिता गेहं धनं कुलम् ॥ १३ ॥
विफलं सकलं कर्म विना पुत्रेण निश्चितम् ।
स एव निश्चयं कृत्वा द्वावमात्यौ समाह्वयत् ॥ १४ ॥
मनोरञ्जननामैकः सुमन्तुर्नामकोऽपरः ।
आन्वीक्षिकीं त्रयीं वार्तां जानन्तौ षोडशीः कलाः ॥ १५ ॥
आगत्य तत्क्षणादेवनृपं तं नेमतुर्मुने ।
तावुवाच ततो भीमो राज्यं मे परिपाल्यताम् ॥ १६ ॥
मम वा मम पत्न्या वा दुरितं पूर्वजन्मजम् ।
तेन नौ नास्ति सन्तानमुभयत्र सुखावहम् ॥ १७ ॥
यद्यहं पुनरागन्ता तदा तन्मम दीयताम् ।
नो चेदुभाभ्यां मे राज्यं विभज्य परिगृह्यताम् ॥ १८ ॥
एवं निश्चित्य स नृपः स्वस्तिवाचनपूर्वकम् ।
कृत्वा दानानि बहुशो ब्राह्मणेभ्यो ययौ पुरात् ॥ १९ ॥
सपत्नीको नृपवरोऽमात्याभ्यां सह नागरैः ।
गव्यूतिमात्रं गत्वा तु विससर्जाऽखिलाँस्तदा ॥ २० ॥
अमात्यावूचतुराजन्नावां यावः सहैव ते ।
सुहृदो नागराश्चैन रुरुदुर्भृशदुःखिताः ॥ २१ ॥
तानुवाच न भीः कार्याऽमात्यौ वोऽधिपती कृतौ ।
यथाऽहं वस्तथैवैतौ पालनं सङ्करिष्यतः ॥ २२ ॥
इति तान् समनुश्वास्य तावुवाच पुनर्नृपः ।
दत्तं राज्यं भवद्भ्यां मे रक्षतं सर्वथा पुरम् ॥ २३ ॥
इति सर्वान् विसृज्यैव सपत्नीको ययौ पुरात् ।
भ्रममाणो ददर्शैकं कासारं कमलैर्युतम् ॥ २४ ॥
पुष्पितद्रुमसंशोभि नानाजलचरान्वितम् ।
ततोऽस्य निकटे रम्यमाश्रमं पश्यतः शुभम् ॥ २५ ॥
राजा च राजपत्नी च सर्वानन्दविवर्धनम् ।
यत्र वैरं न चक्रुस्ते जातिवैरा गजादयः ॥ २६ ॥
सिंहाश्च नकुलाः सर्पा बिडाला मूषकादयः ॥ २७ ॥
ददर्शतुस्तत्र मुनिं विश्वामित्रं कुशासने ।
शिष्यैः परिवृतं शान्तं वेदाध्ययनतत्परैः ॥ २८ ॥
प्रणिपत्य महात्मानं कृताञ्जलिपुटावुभौ ।
पुनः पुनर्नमस्कारान् पादौ धृत्वा प्रचक्रतुः ।
उत्थाप्य मुनिशार्दूलो विश्वामित्रस्तपोनिधिः ॥ २९ ॥
उवाच श्लक्ष्णया वाचा विज्ञातार्थो नृपं तदा ।
॥ विश्वामित्र उवाच ॥
भविता ते सुतो राजन् गुणयुक्तो महायशाः ॥ ३० ॥
कुतस्त्वमागतः किं ते नगरं नाम तद् वद ।
ततस्ते पापनाशार्थं यतिष्ये नृपसत्तम ॥ ३१ ॥
॥ भीम उवाच ॥
विदर्भ विषये स्वामिन् कौडिन्यं नगरं मम ।
भीम इत्येव नाम पत्नीयं चारुहासिनी ॥ ३२ ॥
पुत्रार्थं च कृतो यत्नस्तपोदानव्रतादिभिः ।
नागता करूणा देवे पूर्वजन्मकृतादघात् ॥ ३३ ॥
त्यक्त्वा राज्यं वने यातौ दृष्ट्वौ त्वच्चरणौ मुने ।
भ्रमन् वनानि बहुशो दैवेनेहोपसादितः ॥ ३४ ॥
साधूनां सङ्गतिः सद्यो ददाति फलमुत्तमम् ।
अतो मे भवदाशीर्भिर्जातः पुत्रो न संशयः ॥ ३५ ॥
विद्याव्रततपोदानयज्ञस्वाध्यायकारिणः ।
दयादमवतस्तेऽद्य नाशीर्व्यर्था भवेन्मुने ॥ ३६ ॥
परन्तु कलुषं मे किं पूर्वजन्मकृतं मुने ।
वद तत्र प्रतिकारं सर्वज्ञोऽसि मतो मम ॥ ३७ ॥
॥ ब्रह्मोवाच ॥
इति तस्य वचः श्रुत्वा विश्वामित्रो महामुनिः ।
तमै राज्ञै पूर्वकथां कथयामास सादरम् ॥ ३८ ॥
॥ विश्वामित्र उवाच ॥
कुलधर्मास्त्वयात्यक्ताः श्रीमन्दाधेन दुर्मते ।
वेदे शास्त्रे पुराणे च लौकिके च प्रतिष्ठिताः ॥ ३९ ॥
ते सर्वे पूर्वजा नित्यं पुपूजुर्गणनायकम् ।
तस्य क्रोधवशान्नैव सन्ततिस्तव जायते ॥ ४० ॥
येन ते कुलदेवत्वं सम्प्राप्तोऽसौ गजाननः ।
भणैतत्ते महावीर शृणु सादरमादितः ॥ ४१ ॥
सप्तमः पुरुषस्त्वत्तः पूर्वं भीमो नृपोऽभवत् ।
रूपवान् धनसम्पन्नो वल्लभो नाम सत्तमः ॥ ४२ ॥
तस्यापि बहुकालेन शिशुरेकोऽभवन्नृप ।
अथ तस्याऽभवद् देहो मूको बधिर एव च ॥ ४३ ॥
अतिदुर्गन्धवत्पूयस्राववान् कुब्ज एव च ।
तं दृष्ट्वा जननी तस्य कमला दुःखिता भृशम् ॥ ४४ ॥
अचिन्तयत् स्वान्तमध्ये लोके सम्यगपुत्रता ।
नैतादृशं पुत्रवत्वं श्लाध्यं दुःखकरं भृशम् ॥ ४५ ॥
मरणं मे विधात्रा किं नास्य वा क्रियतेऽधुना ।
कथं वा मुखद्याऽहं दर्शयिष्ये सुहृज्जनान् ॥ ४६ ॥
एवं विलपती दुःखाद् रुरोद भृशदारूणम् ।
श्रुत्वा तद् रुदितं भर्त्ता सूतिकागारमागमत् ॥ ४७ ॥
दृष्ट्वा तथाविधं बालं भृशं पत्नीं च दुःखिताम् ।
बभाण मृदुवाक्येन सान्त्वयन् कर्ममार्गवित् ॥ ४८ ॥
मा दुःखं कुरू कल्याणि कर्मणां गतिरीदृशी ।
पूर्वजन्मकृतात् पापाज्जायते दुःखभाङ्नरः ॥ ४९ ॥
दुःखवान् सुखमाप्नोति सुखवानपि तत् पुनः ।
न हि शोच्यो हि बालोऽयं समीचीनो भविष्यति ॥ ५० ॥
यथाऽस्य पूर्ववृत्तं स्यात् तथैवास्य भविष्यति ।
वयं च प्रयतिष्यामो मणिमन्त्रमहौषधैः ॥ ५१ ॥
तपोभिश्च जपैर्देवपूजायात्राविधानतः ।
सम्यक् कर्तुं शिशुं सुभ्रूः प्रस्तुतं यत्समाचर ॥ ५२ ॥
एवं प्रबोधिता साध्वी त्यक्त्वा शोकं शिशुं ततः ।
क्षालयित्वा जलैस्तं तु जहर्ष सखिभिः सह ॥ ५३ ॥
सर्व माभ्युदयं चक्रे पुत्रस्य जननोचितम् ।
पूजयामास विप्रान् स सा तत् पत्न्यो ह्यनेकशः ॥ ५४ ॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे कमलापुत्र वर्णनं नामैकोनविंशतितमोऽध्यायः ॥ १९ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-उपासना-खण्ड-अध्याय-19

कोई टिप्पणी नहीं:

123

------------------------------
------------------------------ Related Posts Plugin for WordPress, Blogger...