श्रीगणेशपुराणे उपासनाखण्डे अष्टादशोऽध्यायः

 

श्रीगणेशपुराणे उपासनाखण्डे अष्टादशोऽध्यायः
सिद्धक्षेत्रोत्पत्ति कथनं

॥ सोमकान्त उवाच ॥

कथ जजाप हरिः कुत्र वा मन्त्रमुत्तमम् ।
सिद्धिं चावाप स कथं वद मे तत् सविस्तरम् ॥ १ ॥
॥ भृगुरुवाच ॥
सिद्धिक्षेत्रमितिख्यातं भुवि सिद्धिकरं परम् ।
तत्र गत्वा महाविष्णुस्तताप परमं तपः ॥ २ ॥
ध्यायन् विनायकं देवं षडक्षरविधानतः ।
आराधयामास तदा जित्वा खानि प्रयत्नतः ॥ ३ ॥


बाणास्त्रेण तु कृत्वैव पूर्व दिग्बन्धमादृतः ।
भूतशुद्धिं विधायैव प्राणानां स्थापनं तथा ॥ ४ ॥
कृत्वाऽन्तर्मातृकान्यासमाधारादिक्रमेण तु ।
बहिश्च मातृकान्यासं मस्तकादिक्रमेण च ॥ ५ ॥
प्राणानायम्य मूलेन ध्यात्वा देवं गजाननम् ।
आवाहन्यादिमुद्राभिः पूजयित्वा मनोमयैः ॥ ६ ॥
द्रव्यैर्नानाविधैश्चैव षोडशैश्चौपचारकैः ।
जजाप परमं मन्त्रं विष्णुर्योगेश्वरेश्वरः ॥ ७ ॥
गते वर्षशते काले परमात्मा गणाधिपः ।
प्रत्यक्षतां ययौ तस्य कोटि सूर्याग्निसन्निभः ॥ ८ ॥
अतिप्रसन्नहृदयो बभाषे गरुडध्वजम् ।
याचस्व त्वं वरान् मत्तो यांस्त्वं कामयसे हरे ॥ ९ ॥
ददामि तानहं सर्वांस्तपसाऽनेन तोषितः ।
पूर्वमेवार्चितः स्यां चेद् विजयस्ते ध्रुवं भवेत् ॥ १० ॥
॥ हरिरुवाच ॥
ब्रह्मेशानाविन्द्रमुख्याश्च देवां यं त्वां द्रष्टुं नैव शक्तास्तपोभिः ।
तं त्वां नानारूपमेकस्करूपं पश्ये व्यक्ताऽव्यक्तरूपं गणेशम् ॥ ११ ॥
त्वं योऽणुभ्योऽणुस्वरूपो महद्भ्यो व्योमादिभ्यस्त्वं महान् सत्त्वरूपः ।
सृष्टिं चान्तं पालनं त्वं करोषि वारं वारं प्राणिनां दैवयोगात् ॥ १२ ॥
सर्वस्यात्मा सर्वगः सर्वशक्तिः सर्वव्यापी सर्वकर्ता परेशः ।
सर्वद्रष्टा सर्वसंहारकर्त्ता पाता धाता विश्वनेता पिताऽपि ॥ १३ ॥



एतादृशस्य ते देव दर्शनान्मम सिद्धयः ।
सम्भविष्यन्ति सर्वत्र तथाऽप्येकं वदामि ते ॥ १४ ॥
ममैव योगनिद्रान्ते श्रुतेर्मलसमुद्भवौ ।
मधुकैटभौ महासत्त्वौ कं तौ खादितुमुद्यतौ ॥ १५ ॥
ताभ्यामहं ततो युद्धं कृतवान् बहुवत्सरम् ।
ततःक्षीणबलस्त्वाऽहं शरणं समुपागतः ।
अतो यथा तयोर्मत्तो वधः स्यात्तद् विचार्यताम् ॥ १६ ॥
अन्येषामपि दैत्यानां जयेन यश उत्तमम् ।
देहि मे परमेशान भक्तिं ते ह्यनपायिनीम् ॥ १७ ॥
यया मे कीर्तिरतुला त्रैलोक्यं पावयिष्यति ।
॥ श्रीगणेश उवाच ॥
यद्यते प्राथितं विष्णो तत् तत् ते भविता ध्रुवम् ॥ १८ ॥
यशो बलं परा किर्तिरविघ्नश्च भविष्यति ।
॥ मुनिरुवाच ॥
एवमुक्त्वा महाविष्णुं तत्रैवाऽन्तर्दधे विभुः ॥ १९ ॥
तत आनन्दपूर्णोऽसौ मेने तावसुरौ जितौ ।
प्रासादं निर्ममे तत्र स्फाटिकं भूरिरत्नकम् ॥ २० ॥
लसत्काञ्चनशिखरं चतुर्द्वार सुशोभनम् ।
प्रतिमां स्थापयामास गण्डकीयोपलैः कृताम् ॥ २१ ॥
देवाश्च मुनयः सिद्धिविनायक इति प्रथाम् ।
चक्रुरत्र यतः सिद्धिः प्राप्तेयं हरिणा शुभा ॥ २२ ॥
सिद्धं क्षेत्रं ततस्तत्तु पप्रथे भुवि सर्वशः ।
ततो जगाम स हरिर्यत्र तौ मधुकैटभौ ॥ २३ ॥
दृष्ट्वा तौ हरिमायान्तं जहसतुर्निनिन्दतुः ।
मेघश्यामं मुखं तेऽद्य दर्शितं नौ कुतः पुनः ॥ २४ ॥
आवान्तु ते महामुक्तिं दास्यावोऽतः पुनः किल ।
लघुताञ्च प्रयातोऽसि किमर्थं रणमागतः ॥ २५ ॥
॥ हरिरुवाच ॥
सहसा दहते सर्वं लघुरेव हुताशनः ।
लघुदीपो महद्रात्रौ यथा संहरते तमः ॥ २६ ॥
तथा वा महमद्यैव शक्तो नाशाय दुर्मदौ ।
॥ मुनिरुवाच ॥
इति तस्य वचः श्रुत्वाऽति क्रुद्धौ मधुकैटभौ ॥ २७ ॥
सहसा जघ्नतुर्विष्णुं मुष्टिभ्यां हृदये भृशम् ।
ततः पुनर्मल्लयुद्धं तयोस्तस्य व्यवर्द्धत ॥ २८ ॥
युद्ध्वा बहुदिनं ताभ्यां वरं दातुं सुमुत्सुकः ।
उवाचश्लक्ष्णया वाचा हरिस्तौ मधुकैटभौ ॥ २९ ॥
मम प्रहारान्हि युवां सहाथे बहुलाः समाः ।
युवयोः पुरुषार्थेन प्रीतोऽहं दैत्यपुङ्गवौ ॥ ३० ॥
युवयोः सदृशौ नैव सम्भूतो न भविष्यतः ।
॥ तावूचतुः ॥
अस्मत्तस्त्वं वरान् ब्रूहि दास्यवस्तान् हरे बहून् ॥ ३१ ॥
आवां हि तव युद्धेन सन्तुष्टौ च भृशं त्वयि ।
॥ मुनिरुवाच ॥
तयोर्वचनमाकर्ण्य मायामोहितर्योहरिः ॥ ३२ ॥
श्रुत्वा बभाण दैत्यौ मे वरान् दातुं समुद्यतौ ।
तदा मे वध्यतां यातं वर एष वृतो मया ॥ ३३ ॥
तदा सर्वं जलमयं दृष्ट्वा तौ मधुकैटभौ ।
ऊचतुः परमप्रीतौ तव हस्तान् मृतिः शुभा ॥ ३४ ॥
अन्ते त्वच्चिन्तनात् सद्यो मुक्तिं यान्ति सनातनीम् ।
यत्र नोर्वी जलमयी तत्र नौ जहि माधव ॥ ३५ ॥
सर्वं त्यजावो नो सत्यं सत्ये सर्वं प्रतिष्ठितम् ।
॥ मुनिरुवाच ॥
तयोरित्थं वचः श्रुत्वा जघने तौ दधार ह ॥ ३६ ॥
चक्रेण क्षुरधारेण चिच्छेद शिरसी तयोः ।
ततो देवा मुमुदिरे ववर्षुः कुसुमानि च ॥ ३७ ॥
गन्धर्वा ननृतुः सर्वे जगुरप्सरसाङ्गणाः ।
ततस्तु विष्णुरभ्येत्य ब्रह्माणं परमेष्ठिनम् ॥ ३८ ॥
कथयामास वृत्तात्तं सर्वं हर्षविनिर्भरः ।
॥ हरिरुवाच ॥
यदाऽशक्तो विजेतुं तौ तदाहं गिरिशं गतः ॥ ३९ ॥
शङ्करेणोपदिष्टोऽहं षडर्णं मन्त्रमुत्तमम् ।
आराधयमहं तेन देवं विघ्नेश्वरं विभुम् ॥ ४० ॥
तेन दत्ता वरा मह्यं नानाकामफलप्रदाः ।
तत्प्रभावान् मया दुष्टौ निहतौ मधुकैटभौ ॥ १४ ॥
स्तुतः सम्पूजितः सोऽथ तदैवाऽन्तर्दधे विभुः ।
विज्ञातो महिमा तस्य गणेशस्य महात्मनः ॥ ४२ ॥
शङ्करस्य प्रसादेन हनिष्ये दैत्यदानवान् ।
देवाश्च मुनयः सर्वे स्तुत्वा देवं गजाननम् ॥ ४३ ॥
ब्रह्माणं शङ्करं मां च ययुः स्वं स्वं निकेतनम् ।
य इदं श‍ृणुयान्नित्यं माहात्म्यं पापनाशनम् ॥ ४४ ॥
कस्मादपि भयं नस्याल्लभते सार्वकामिकम् ॥ ४५ ॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे सिद्धक्षेत्रोत्पत्तिकथनं नामाष्टादशोऽध्यायः ॥ १८ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-उपासना-खण्ड-अध्याय-18

कोई टिप्पणी नहीं:

123

------------------------------
------------------------------ Related Posts Plugin for WordPress, Blogger...