श्रीलिङ्गमहापुराण -[पूर्वभाग] -100
॥ श्रीसाम्बसदाशिवाय नमः ॥
सौवाँ अध्याय
वीरभद्र द्वारा दक्षयज्ञभंग तथा भगवान् महेश्वर का दक्ष प्रजापति पर अनुग्रह
श्रीलिङ्गमहापुराणे पूर्वभागे शततमोऽध्यायः
शिवकृद्दक्षयज्ञविध्वंसन
॥ ऋषय ऊचुः ॥
विजित्य विष्णुना सार्धं भगवान् परमेश्वरः ।
सर्वान् दधीचवचनात्कथं भेजे महेश्वरः ॥ १ ॥
॥ सूत उवाच ॥
दक्षयज्ञे सुविपुले देवान् विष्णुपुरोगमान् ।
ददाह भगवान् रुद्रः सर्वान् मुनिगणानपि ॥ २ ॥
भद्रो नाम गणस्तेन प्रेषितः परमेष्ठिना ।
विप्रयोगेन देव्या वै दुःसहेनैव सुव्रताः ॥ ३ ॥
सोऽसृजद्वीरभद्रश्च गणेशान् रोमजाञ्छुभान् ।
गणेश्वरैः समारुह्य रथं भद्रः प्रतापवान् ॥ ४ ॥
गन्तुं चक्रे मतिं यस्य सारथिर्भगवानजः ।
गणेश्वराश्च ते सर्वे विविधायुधपाणयः ॥ ५ ॥
विमानैर्विश्वतो भद्रैस्तमन्वयुरथो सुराः ।
हिमवच्छिखरे रम्ये हेमशृङ्गे सुशोभने ॥ ६ ॥
यज्ञवाटस्तथा तस्य गङ्गाद्वारसमीपतः ।
तद्देशे चैव विख्यातं शुभं कनखलं द्विजाः ॥ ७ ॥
दग्धुं वै प्रेषितश्चासौ भगवान् परमेष्ठिना ।
तदोत्पातो बभूवाथ लोकानां भयशंसनः ॥ ८ ॥
पर्वताश्च व्यशीर्यन्त प्रचकम्पे वसुन्धरा ।
मरुतश्चाप्यघूर्णन्त चुक्षुभे मकरालयः ॥ ९ ॥
अग्नयो नैव दीप्यन्ति न च दीप्यति भास्करः ।
ग्रहाश्च न प्रकाश्यन्ते न देवा न च दानवाः ॥ १० ॥
ततः क्षणात् प्रविश्यैव यज्ञवाटं महात्मनः ।
रोमजैः सहितो भद्रः कालाग्निरिव चापरः ॥ ११ ॥
उवाच भद्रो भगवान् दक्षं चामिततेजसम् ।
सम्पर्कादेव दक्षाद्य मुनीन् देवान् पिनाकिना ॥ १२ ॥
दग्धुं सम्प्रेषितश्चाहं भवन्तं समुनीश्वरैः ।
इत्युक्त्वा यज्ञशालां तां ददाह गणपुङ्गवः ॥ १३ ॥
गणेश्वराश्च सङ्क्रुद्धा यूपानुत्पाट्य चिक्षिपुः ।
प्रस्तोत्रा सह होत्रा च दग्धं चैव गणेश्वरैः ॥ १४ ॥
गृहीत्वा गणपाः सर्वान् गङ्गास्रोतसि चिक्षिपुः ।
वीरभद्रो महातेजाः शक्रस्योद्यच्छतः करम् ॥ १५ ॥
व्यष्टम्भयददीनात्मा तथान्येषां दिवौकसाम् ।
भगस्य नेत्रे चोत्पाट्य करजाग्रेण लीलया ॥ १६ ॥
निहत्य मुष्टिना दन्तान् पूष्णश्चैवं न्यपातयत् ।
तथा चन्द्रमसं देवं पादाङ्गुष्ठेन लीलया ॥ १७ ॥
घर्षयामास भगवान् वीरभद्रः प्रतापवान् ।
चिछेद च शिरस्तस्य शक्रस्य भगवान् प्रभोः ॥ १८ ॥
वह्नेर्हस्तद्वयं छित्त्वा जिह्वामुत्पाट्य लीलया ।
जघान मूर्ध्नि पादेन वीरभद्रो महाबलः ॥ १९ ॥
यमस्य दण्डं भगवान् प्रचिच्छेद स्वयं प्रभुः ।
जघान देवमीशानं त्रिशूलेन महाबलम् ॥ २० ॥
त्रयस्त्रिंशत्सुरानेवं विनिहत्याप्रयत्नतः ।
त्रयश्च त्रिशतं तेषां त्रिसाहस्रं च लीलया ॥ २१ ॥
त्रयं चैव सुरेन्द्राणां जघान च मुनीश्वरान् ।
अन्यांश्च देवान् देवोऽसौ सर्वान्युद्धाय संस्थितान् ॥ २२ ॥
जघान भगवान् रुद्रः खड्गमुष्ट्यादिसायकैः ।
अथ विष्णुर्महातेजाश्चक्रमुद्यम्य मूर्च्छितः ॥ २३ ॥
युयोध भगवांस्तेन रुद्रेण सह माधवः ।
तयोः समभवद्युद्धं सुघोरं रोमहर्षणम् ॥ २४ ॥
विष्णोर्योगबलात्तस्य दिव्यदेहाः सुदारुणाः ॥ २५ ॥
शङ्खचक्रगदाहस्ता असंख्याताश्च जज्ञिरे ।
तान् सर्वानपि देवोऽसौ नारायणसमप्रभान् ॥ २६ ॥
निहत्य गदया विष्णुं ताडयामास मूर्धनि ।
ततश्चोरसि तं देवं लीलयैव रणाजिरे ॥ २७ ॥
पपात च तदा भूमौ विसंज्ञः पुरुषोत्तमः ।
पुनरुत्थाय तं हन्तुं चक्रमुद्यम्य स प्रभुः ॥ २८ ॥
क्रोधरक्तेक्षणः श्रीमानतिष्ठत्पुरुषर्षभः ।
तस्य चक्रं च यद्रौद्रं कालादित्य समप्रभम् ॥ २९ ॥
व्यष्टम्भयददीनात्मा करस्थं न चचाल सः ।
अतिष्ठत्स्तम्भितस्तेन शृङ्गवानिव निश्चलः ॥ ३० ॥
त्रिभिश्च धर्षितं शार्ङ्गं त्रिधाभूतं प्रभोस्तदा ।
शार्ङ्गकोटिप्रसङ्गाद्वै चिच्छेद च शिरः प्रभोः ॥ ३१ ॥
छिन्नं च निपपातासु शिरस्तस्य रसातले ।
वायुना प्रेरितं चैव प्राणजेन पिनाकिना ॥ ३२ ॥
प्रविवेश तदा चैव तदीयाहवनीयकम् ।
तत् प्रतिध्वस्तकलशं भग्नयूपं सतोरणम् ॥ ३३ ॥
प्रदीपितमहाशालं दृष्ट्वा यज्ञोऽपि दुद्रुवे ।
तं तदा मृगरूपेण धावन्तं गगनं प्रति ॥ ३४ ॥
वीरभद्रः समाधाय विशिरस्कमथाकरोत् ।
ततः प्रजापतिं धर्मं कश्यपं च जगद्गुरुम् ॥ ३५ ॥
अरिष्टनेमिनं वीरो बहुपुत्रं मुनीश्वरम् ।
मुनिमङ्गिरसं चैव कृष्णाश्वं च महाबलः ॥ ३६ ॥
जघान मूर्ध्नि पादेन दक्षं चैव यशस्विनम् ।
चिच्छेद च शिरस्तस्य ददाहाग्नौ द्विजोत्तमाः ॥ ३७ ॥
सरस्वत्याश्च नासाग्रं देवमातुस्तथैव च ।
निकृत्य करजाग्रेण वीरभद्रः प्रतापवान् ॥ ३८ ॥
तस्थौ श्रिया वृतो मध्ये प्रेतस्थाने यथा भवः ।
एतस्मिन्नेव काले तु भगवान् पद्मसम्भवः ॥ ३९ ॥
भद्रमाह महातेजाः प्रार्थयन् प्रणतः प्रभुः ।
अलं क्रोधेन वै भद्र नष्टाश्चैव दिवौकसः ॥ ४० ॥
प्रसीद क्षम्यतां सर्वं रोमजैः सह सुव्रत ।
सोऽपि भद्रः प्रभावेण ब्रह्मणः परमेष्ठिनः ॥ ४१ ॥
शमं जगाम शनकैः शान्तस्तस्थौ तदाज्ञया ।
देवोऽपि तत्र भगवानन्तरिक्षे वृषध्वजः ॥ ४२ ॥
सगणः सर्वदः शर्वः सर्वलोकमहेश्वरः ।
प्रार्थितश्चैव देवेन ब्रह्मणा भगवान् भवः ॥ ४३ ॥
हतानां च तदा तेषां प्रददौ पूर्ववत्तनुम् ।
इन्द्रस्य च शिरस्तस्य विष्णोश्चैव महात्मनः ॥ ४४ ॥
दक्षस्य च मुनीन्द्रस्य तथान्येषां महेश्वरः ।
वागीश्याश्चैव नासाग्रं देवमातुस्तथैव च ॥ ४५ ॥
नष्टानां जीवितं चैव वराणि विविधानि च ।
दक्षस्य ध्वस्तवक्त्रस्य शिरसा भगवान् प्रभुः ॥ ४६ ॥
कल्पयामास वै वक्त्रं लीलया च महान् भवः ।
दक्षोऽपि लब्धसञ्ज्ञश्च समुत्थाय कृताञ्जलिः ॥ ४७ ॥
तुष्टाव देवदेवेशं शङ्करं वृषभध्वजम् ।
स्तुतस्तेन महातेजाः प्रदाय विविधान् वरान् ॥ ४८ ॥
गाणपत्यं ददौ तस्मै दक्षायाक्लिष्टकर्मणे ।
देवाश्च सर्वे देवेशं तुष्टुवुः परमेश्वरम् ॥ ४९ ॥
नारायणश्च भगवान् तुष्टाव च कृताञ्जलिः ।
ब्रह्मा च मुनयः सर्वे पृथक् पृथगजोद्भवम् ॥ ५० ॥
तुष्टुवुर्देवदेवेशं नीलकण्ठं वृषध्वजम् ।
तान् देवाननुगृह्यैव भवोऽप्यन्तरधीयत ॥ ५१ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे
शिवकृद्दक्षयज्ञविध्वंसनो नाम शततमोऽध्यायः ॥ १०० ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें