श्रीलिङ्गमहापुराण -[पूर्वभाग] -099
॥ श्रीसाम्बसदाशिवाय नमः ॥
निन्यानबेवाँ अध्याय
भगवान् शिव के वामभाग से शिवा का प्रादुर्भाव तथा शिवा का दक्षपुत्री सती के रूप में पुनः मेना की कन्या पार्वती के रूप में प्राकट्य
श्रीलिङ्गमहापुराणे पूर्वभागे नवनवतितमोऽध्यायः
देवीसम्भव
॥ ऋषय ऊचुः ॥
सम्भवः सूचितो देव्यास्त्वया सूत महामते ।
सविस्तरं वदस्वाद्य सतीत्वे च यथातथम् ॥ १ ॥
मेनाजत्वं महादेव्या दक्षयज्ञविमर्दनम् ।
विष्णुना च कथं दत्ता देवदेवाय शम्भवे ॥ २ ॥
कल्याणं वा कथं तस्य वक्तुमर्हसि साम्प्रतम् ।
तेषां तद्वचनं श्रुत्वा सूतः पौराणिकोत्तमः ॥ ३ ॥
सम्भवं च महादेव्याः प्राह तेषां महात्मनाम् ।
॥ सूत उवाच ॥
ब्रह्मणा कथितं पूर्वं दण्डिने तत्सुविस्तरम् ॥ ४ ॥
युष्माभिर्वै कुमाराय तेन व्यासाय धीमते ।
तस्मादहमुपश्रुत्य प्रवदामि सुविस्तरम् ॥ ५ ॥
वचनाद्वो महाभागाः प्रणम्योमां तथा भवम् ।
सा भगाख्या जगद्धात्री लिङ्गमूर्तेस्त्रिवेदिका ॥ ६ ॥
लिङ्गस्तु भगवान् द्वाभ्यां जगत् सृष्टिर्द्विजोत्तमाः ।
लिङ्गमूर्तिः शिवो ज्योतिस्तमसश्चोपरि स्थितः ॥ ७ ॥
लिङ्गवेदिसमायोगादर्धनारीश्वरोऽभवत् ।
ब्रह्माणं विदधे देवमग्रे पुत्रं चतुर्मुखम् ॥ ८ ॥
प्राहिणोति स्म तस्यैव ज्ञानं ज्ञानमयो हरः ।
विश्वाधिकोऽसौ भगवानर्धनारीश्वरो विभुः ॥ ९ ॥
हिरण्यगर्भं तं देवो जायमानमपश्यत ।
सोऽपि रुद्रं महादेवं ब्रह्मापश्यत शङ्करम् ॥ १० ॥
तं दृष्ट्वा संस्थितं देवमर्धनारीश्वरं प्रभुम् ।
तुष्टाव वाग्भिरिष्टाभिर्वरदं वारिजोद्भवः ॥ ११ ॥
विभजस्वेति विश्वेशं विश्वात्मानमजो विभुः ।
ससर्ज देवीं वामाङ्गात्पत्नीं चैवात्मनः समाम् ॥ १२ ॥
श्रद्धा ह्यस्य शुभा पत्नी ततः पुंसः पुरातनी ।
सैवाज्ञया विभोर्देवी दक्षपुत्री बभूव ह ॥ १३ ॥
सतीसंज्ञा तदा सा वै रुद्रमेवाश्रिता पतिम् ।
दक्षं विनिन्द्य कालेन देवी मैना ह्यभूत्पुनः ॥ १४ ॥
नारदस्यैव दक्षोऽपि शापादेवं विनिन्द्य च ।
अवज्ञादुर्मदो दक्षो देवदेवमुमापतिम् ॥ १५ ॥
अनादृत्य कृतिं ज्ञात्वा सती दक्षेण तत्क्षणात् ।
भस्मीकृत्वात्मनो देहं योगमार्गेण सा पुनः ॥ १६ ॥
बभूव पार्वती देवी तपसा च गिरेः प्रभोः ।
ज्ञात्वैतद्भगवान् भर्गो ददाह रुषितः प्रभुः ॥ १७ ॥
दक्षस्य विपुलं यज्ञं च्यावनेर्वचनादपि ।
च्यवनस्य सुतो धीमान् दधीच इति विश्रुतः ॥ १८ ॥
विजित्य विष्णुं समरे प्रसादात् त्र्यम्बकस्य च ।
विष्णुना लोकपालांश्च शशाप च मुनीश्वरः ॥ १९ ॥
रुद्रस्य क्रोधजेनैव वह्निना हविषा सुराः ।
विनाशो वै क्षणादेव मायया शङ्करस्य वै ॥ २० ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे देवीसम्भवो नाम
नवनवतितमोऽध्यायः ॥ ९९ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें