श्रीलिङ्गमहापुराण -[पूर्वभाग] -097
॥ श्रीसाम्बसदाशिवाय नमः ॥
सत्तानबेवाँ अध्याय
जलन्धर-वध की कथा
श्रीलिङ्गमहापुराणे पूर्वभागे सप्तनवतितमोऽध्यायः
जलन्धरवध
॥ ऋषय ऊचुः ॥
जलन्धरं जटामौलिः पुरा जम्भारिविक्रमम् ।
कथं जघान भगवान् भगनेत्रहरो हरः ॥ १ ॥
वक्तुमर्हसि चास्माकं रोमहर्षण सुव्रत ।
॥ सूत उवाच ॥
जलन्धर इति ख्यातो जलमण्डलसम्भवः ॥ २ ॥
तेन देवाः सगन्धर्वाः सयक्षोरगराक्षसाः ॥ ३ ॥
निर्जिताः समरे सर्वे ब्रह्मा च भगवानजः ।
जित्वैव देवसङ्घातं ब्रह्माणं वै जलन्धरः ॥ ४ ॥
जगाम देवदेवेशं विष्णुं विश्वहरं गुरुम् ।
तयोः समभवद्युद्धं दिवारात्रमविश्रमम् ॥ ५ ॥
जलन्धरेशयोस्तेन निर्जितो मधुसूदनः ।
जलन्धरोऽपि तं जित्वा देवदेवं जनार्दनम् ॥ ६ ॥
प्रोवाचेदं दितेः पुत्रान् न्यायधीर्जेतुमीश्वरम् ।
सर्वे जिता मया युद्धे शङ्करो ह्यजितो रणे ॥ ७ ॥
तं जित्वा सर्वमीशानं गणपैर्नन्दिना क्षणात् ।
अहमेव भवत्वं च ब्रह्मत्वं वैष्णवं तथा ॥ ८ ॥
वासवत्वं च युष्माकं दास्ये दानवपुङ्गवाः ।
जलन्धरवचः श्रुत्वा सर्वे ते दानवाधमाः ॥ ९ ॥
जगर्जुरुच्चैः पापिष्ठा मृत्युदर्शनतत्पराः ।
दैत्यैरेतैस्तथान्यैश्च रथनागतुरङ्गमैः ॥ १० ॥
सन्नद्धैः सह सन्नह्य शर्वं प्रति ययौ बली ।
भवोऽपि दृष्ट्वा दैत्येन्द्रं मेरुकूटमिव स्थितम् ॥ ११ ॥
अवध्यत्वमपि श्रुत्वा तथान्यैर्भगनेत्रहा ।
ब्रह्मणो वचनं रक्षन् रक्षको जगतां प्रभुः ॥ १२ ॥
साम्बः सनन्दी सगणः प्रोवाच प्रहसन्निव ।
किं कृत्यमसुरेशान युद्धेनानेन साम्प्रतम् ॥ १३ ॥
मद्बाणैर्भिन्नसर्वाङ्गो मर्तुमभ्युद्यते मुदा ।
जलन्धरोऽपि तद्वाक्यं श्रुत्वा श्रोत्रविदारणम् ॥ १४ ॥
सुरेश्वरमुवाचेदं सुरेतरबलेश्वरः ।
वाक्येनालं महाबाहो देवदेव वृषध्वज ॥ १५ ॥
चन्द्रांशुसन्निभैः शस्त्रैर्हर योद्धुमिहागतः ।
निशम्यास्य वचः शूली पादाङ्गुष्ठेन लीलया ।
महाम्भसि चकाराशु रथाङ्गं रौद्रमायुधम् ॥ १६ ॥
कृत्वार्णवाम्भसि सितं भगवान् रथाङ्गं स्मृत्वा जगत्त्रयमनेन हताः सुराश्च ।
दक्षान्धकान्तकपुरत्रययज्ञहर्ता लोकत्रयान्तककरः प्रहसन्तदाह ॥ १७ ॥
पादेन निर्मितं दैत्य जलन्धर महार्णवे ।
बलवान् यदि चोद्धर्तुं तिष्ठ योद्धुं न चान्यथा ॥ १८ ॥
तस्य तद्वचनं श्रुत्वा क्रोधेनादीप्तलोचनः ।
प्रदहन्निव नेत्राभ्यां प्राहालोक्य जगत्त्रयम् ॥ १९ ॥
॥ जलन्धर उवाच ॥
गदामुद्धृत्य हत्वा च नन्दिनं त्वां च शङ्कर ।
हत्वा लोकान् सुरैः सार्धं डुण्डुभान् गरुडो यथा ॥ २० ॥
हन्तुं चराचरं सर्वं समर्थोऽहं सवासवम् ।
को महेश्वर मद्बाणैरच्छेद्यो भुवनत्रये ॥ २१ ॥
बालभावे च भगवान् तपसैव विनिर्जितः ।
ब्रह्मा बली यौवने वै मुनयः सुरपुङ्गवैः ॥ २२ ॥
दग्धं क्षणेन सकलं त्रैलोक्यं सचराचरम् ।
तपसा किं त्वया रुद्र निर्जितो भगवानपि ॥ २३ ॥
इन्द्राग्नियमवित्तेश वायुवारीश्वरादयः ।
न सेहिरे यथा नागा गन्धं पक्षिपतेरिव ॥ २४ ॥
न लब्ध्वा दिवि भूमौ च बाहवो मम शङ्कर ।
समस्तान् पर्वतान् प्राप्य घर्षिताश्च गणेश्वर ॥ २५ ॥
गिरीन्द्रो मन्दरः श्रीमान् नीलो मेरुः सुशोभनः ।
घर्षितो बाहुदण्डेन कण्डूनोदार्थमापतत् ॥ २६ ॥
गङ्गा निरुद्धा बाहुभ्यां लीलार्थं हिमवद्गिरौ ।
नारीणां मम भृत्यैश्च वज्रो बद्धो दिवौकसाम् ॥ २७ ॥
वडवाया मुखं भग्नं गृहीत्वा वै करेण तु ।
तत्क्षणादेव सकलं चैकार्णवमभूदिदम् ॥ २८ ॥
ऐरावतादयो नागाः क्षिप्ताः सिन्धुजलोपरि ।
सरथो भगवानिन्द्रः क्षिप्तश्च शतयोजनम् ॥ २९ ॥
गरुडोऽपि मया बद्धो नागपाशेन विष्णुना ।
उर्वश्याद्या मया नीता नार्यः कारागृहान्तरम् ॥ ३० ॥
कथञ्चिल्लब्धवान् शक्रः शचीमेकां प्रणम्य माम् ।
मां न जानासि दैत्येन्द्रं जलन्धरमुमापते ॥ ३१ ॥
॥ सूत उवाच ॥
एवमुक्तो महादेवः प्रादहद्वै रथं तदा ।
तस्य नेत्राग्निभागैक कलार्धार्धेन चाकुलम् ॥ ३२ ॥
दैत्यानामतुलबलैर्हयैश्च नागैर्दैत्येन्द्रास्त्रिपुररिपोर्निरीक्षणेन ।
नागाद्वैशसमनुसंवृतश्च नागैर्देवेशं वचनमुवाच चाल्पबुद्धिः ॥ ३३ ॥
किं कार्यं मम युधि देवदैत्यसङ्घैर्हन्तुं यत्सकलमिदं क्षणात् समर्थः ।
यत्तस्माद्भयमिह नास्ति योद्धुमीश वाञ्छैषा विपुलतरा न संशयोऽत्र ॥ ३४ ॥
तस्मात्त्वं मम मदनारिदक्षशत्रो यज्ञारे त्रिपुररिपो ममैव वीरैः ।
भूतेन्द्रैर्हरिवदनेन देवसङ्घैर्योद्धुं ते बलमिह चास्ति चेद्धि तिष्ठ ॥ ३५ ॥
इत्युक्त्वाथ महादेवं महादेवारिनन्दनः ।
न चचाल न सस्मार निहतान् बान्धवान् युधि ॥ ३६ ॥
दुर्मदेनाविनीतात्मा दोर्भ्यामास्फोट्य दोर्बलात् ।
सुदर्शनाख्यं यच्चक्रं तेन हन्तुं समुद्यतः ॥ ३७ ॥
दुर्धरेण रथाङ्गेन कृच्छ्रेणापि द्विजोत्तमाः ।
स्थापयामास वै स्कन्धे द्विधाभूतश्च तेन वै ॥ ३८ ॥
कुलिशेन यथा छिन्नो द्विधा गिरिवरो द्विजाः ।
पपात दैत्यो बलवानञ्जनाद्रिरिवापरः ॥ ३९ ॥
तस्य रक्तेन रौद्रेण सम्पूर्णमभवत्क्षणात् ।
तद्रक्तमखिलं रुद्र नियोगान्मांसमेव च ॥ ४० ॥
महारौरवमासाद्य रक्तकुण्डमभूदहो ।
जलन्धरं हतं दृष्ट्वा देवगन्धर्वपार्षदाः ॥ ४१ ॥
सिंहनादं महत्कृत्वा साधु देवेति चाब्रुवन् ।
यः पठेच्छृणुयाद्वापि जलन्धरविमर्दनम् ॥ ४२ ॥
श्रावयेद्वा यथान्यायं गाणपत्यमवाप्नुयात् ॥ ४३ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे जलन्धरवधो नाम
सप्तनवतितमोऽध्यायः ॥ ९७ ॥
See Also:-

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें