श्रीलिङ्गमहापुराण -[पूर्वभाग] -096

श्रीलिङ्गमहापुराण -[पूर्वभाग] -096
॥ श्रीसाम्बसदाशिवाय नमः ॥
छानबेवाँ अध्याय
भगवान् महेश्वर द्वारा वीरभद्र का आवाहन और नृसिंह के तेज को शमन करने के लिये भेजना, वीरभद्र तथा नृसिंह का संवाद, भगवान् शिव का शरभावतार धारण नृसिंह तेज को शान्त करना एवं नृसिंह द्वारा शिव स्तुति
श्रीलिङ्गमहापुराणे पूर्वभागे षण्णवतितमोऽध्यायः
शरभप्रादुर्भाव

॥ ऋषय ऊचुः ॥
कथं देवो महादेवो विश्वसंहारकारकः ।
शरभाख्यं महाघोरं विकृतं रूपमास्थितः ॥ १ ॥
किं किं धैर्यं कृतं तेन ब्रूहि सर्वमशेषतः ।


॥ सूत उवाच ॥
एवमभ्यर्थितो देवैर्मतिं चक्रे कृपालयः ॥ २ ॥
यत्तेजस्तु नृसिंहाख्यं संहर्तुं परमेश्वरः ।
तदर्थं स्मृतवान् रुद्रो वीरभद्रं महाबलम् ॥ ३ ॥
आत्मनो भैरवं रूपं महाप्रलयकारकम् ।
आजगाम पुरा सद्यो गणानामग्रतो हसन् ॥ ४ ॥
साट्टहासैर्गणवरैरुत्पतद्भिरितस्ततः ।
नृसिंहरूपैरत्युग्रैः कोटिभिः परिवारितः ॥ ५ ॥
तावद्भिरभितो वीरैर्नृत्यद्भिश्च मुदान्वितैः ।
क्रीडद्भिश्च महाधीरैर्ब्रह्माद्यैः कन्दुकैरिव ॥ ६ ॥
अदृष्टपूर्वैरन्यैश्च वेष्टितो वीरवन्दितः ।
कल्पान्तज्वलनज्वालो विलसल्लोचनत्रयः ॥ ७ ॥
आत्तशस्त्रो जटाजूटे ज्वलद्बालेन्दुमण्डितः ।
बालेन्दुद्वितयाकार तीक्ष्णदंष्ट्राङ्कुरद्वयः ॥ ८ ॥
आखण्डलधनुः खण्ड सन्निभभ्रूलतायुतः ।
महाप्रचण्डहुङ्कार बधिरीकृतदिङ्मुखः ॥ ९ ॥
नीलमेघाञ्जनाकार भीषणश्मश्रुरद्भुतः ।
वादखण्डमखण्डाभ्यां भ्रामयंस्त्रिशिखं मुहुः ॥ १० ॥
वीरभद्रोऽपि भगवान् वीरशक्तिविजृम्भितः ।
स्वयं विज्ञापयामास किमत्र स्मृतिकारणम् ॥ ११ ॥
आज्ञापय जगत्स्वामिन् प्रसादः क्रियतां मयि ।
॥ श्रीभगवानुवाच ॥
अकाले भयमुत्पन्नं देवानामपि भैरव ॥ १२ ॥
ज्वलितः स नृसिंहाग्निः शमयैनं दुरासदम् ।
सान्त्वयन् बोधयादौ तं तेन किं नोपशाम्यति ॥ १३ ॥
ततो मत्परमं भावं भैरवं सम्प्रदर्शय ।
सूक्ष्मं सूक्ष्मेण संहृत्य स्थूलं स्थूलेन तेजसा ॥ १४ ॥
वक्त्रमानय कृत्तिं च वीरभद्र ममाज्ञया ।
इत्यादिष्टो गणाध्यक्षः प्रशान्तवपुरास्थितः ॥ १५ ॥
जगाम रंहसा तत्र यत्रास्ते नरकेसरी ।
ततस्तं बोधयामास वीरभद्रो हरो हरिम् ॥ १६ ॥
उवाच वाक्यमीशानः पिता पुत्रमिवौरसम् ।
॥ वीरभद्रकृतं नृसिंहस्तोत्रम् ॥
॥ श्रीवीरभद्र उवाच ॥

जगत् सुखाय भगवन्नवतीर्णोऽसि माधव ॥ १७ ॥
स्थित्यर्थेन च युक्तोऽसि परेण परमेष्ठिना ।
जन्तुचक्रं भगवता रक्षितं मत्स्यरूपिणा ॥ १८ ॥
पुच्छेनैव समाबध्य भ्रमन्नेकार्णवे पुरा ।
बिभर्षि कूर्मरूपेण वाराहेणोद्धृता मही ॥ १९ ॥
अनेन हरिरूपेण हिरण्यकशिपुर्हतः ।
वामनेन बलिर्बद्धस्त्वया विक्रमता पुनः ॥ २० ॥
त्वमेव सर्वभूतानां प्रभवः प्रभुरव्ययः ।
यदा यदा हि लोकस्य दुःखं किञ्चित् प्रजायते ॥ २१ ॥
तदा तदावतीर्णस्त्वं करिष्यसि निरामयम् ।
नाधिकस्त्वत्समोऽप्यस्ति हरे शिवपरायण ॥ २२ ॥
त्वया धर्माश्च वेदाश्च शुभे मार्गे प्रतिष्ठिताः ।
यदर्थमवतारोऽयं निहतः सोऽपि केशव ॥ २३ ॥
अत्यन्तघोरं भगवन्नरसिंह वपुस्तव ।
उपसंहर विश्वात्मंस्त्वमेव मम सन्निधौ ॥ २४ ॥
॥ सूत उवाच ॥
इत्युक्तो वीरभद्रेण नृसिंहः शान्तया गिरा ।
ततोऽधिकं महाघोरं कोपं प्रज्वालयद्धरिः ॥ २५ ॥
॥ श्रीनृसिंह उवाच ॥
आगतोऽसि यतस्तत्र गच्छ त्वं मा हितं वद ।
इदानीं संहरिष्यामि जगदेतच्चराचरम् ॥ २६ ॥
संहर्तुर्न हि संहारः स्वतो वा परतोऽपि वा ।
शासितं मम सर्वत्र शास्ता कोऽपि न विद्यते ॥ २७ ॥
मत् प्रसादेन सकलं समर्यादं प्रवर्तते ।
अहं हि सर्वशक्तीनां प्रवर्तकनिवर्तकः ॥ २८ ॥
यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा ।
तत्तद्विद्धि गणाध्यक्ष मम तेजोविजृम्भितम् ॥ २९ ॥
देवतापरमार्थज्ञा ममैव परमं विदुः ।
मदंशाः शक्तिसम्पन्ना ब्रह्मशक्रादयः सुराः ॥ ३० ॥
मन्नाभिपङ्कजाज्जातः पुरा ब्रह्मा चतुर्मुखः ।
तल्ललाटसमुत्पन्नो भगवान् वृषभध्वजः ॥ ३१ ॥
रजसाधिष्ठितः स्रष्टा रुद्रस्तामस उच्यते ।
अहं नियन्ता सर्वस्य मत्परं नास्ति दैवतम् ॥ ३२ ॥
विश्वाधिकः स्वतन्त्रश्च कर्ता हर्ताखिलेश्वरः ।
इदं तु मत्परं तेजः कः पुनः श्रोतुमिच्छति ॥ ३३ ॥
अतो मां शरणं प्राप्य गच्छ त्वं विगतज्वरः ।
अवेहि परमं भावमिदं भूतमहेश्वरः ॥ ३४ ॥
कालोऽस्म्यहं कालविनाशहेतुर्लोकान् समाहर्तुमहं प्रवृत्तः ।
मृत्योर्मृत्युं विद्धि मां वीरभद्र जीवन्त्येते मत् प्रसादेन देवाः ॥ ३५ ॥
॥ सूत उवाच ॥
साहङ्कारमिदं श्रुत्वा हरेरमितविक्रमः ।
विहस्योवाच सावज्ञं ततो विस्फुरिताधरः ॥ ३६ ॥
॥ श्रीवीरभद्र उवाच ॥
किं न जानासि विश्वेशं संहर्तारं पिनाकिनम् ।
असद्वादो विवादश्च विनाशस्त्वयि केवलः ॥ ३७ ॥
तवान्योन्यावताराणि कानि शेषाणि साम्प्रतम् ।
कृतानि येन केनापि कथाशेषो भविष्यति ॥ ३८ ॥
दोषं त्वं पश्य एतत्त्वमवस्थामीदृशीं गतः ।
तेन संहारदक्षेण क्षणात् सङ्क्षयमेष्यसि ॥ ३९ ॥
प्रकृतिस्त्वं पुमान् रुद्रस्त्वयि वीर्यं समाहितम् ।
त्वन्नाभिपङ्कजाज्जातः पञ्चवक्त्रः पितामहः ॥ ४० ॥
सृष्ट्यर्थेन जगत् पूर्वं शङ्करं नीललोहितम् ।
ललाटे चिन्तयामास तपस्युग्रे व्यवस्थितः ॥ ४१ ॥
तल्ललाटादभूच्छम्भोः सृष्ट्यर्थं तन्न दूषणम् ।
अंशोऽहं देवदेवस्य महाभैरवरूपिणः ॥ ४२ ॥
त्वत् संहारे नियुक्तोऽस्मि विनयेन बलेन च ।
एवं रक्षो विदार्यैव त्वं शक्तिकलया युतः ॥ ४३ ॥
अहङ्कारावलेपेन गर्जसि त्वमतन्द्रितः ।
उपकारो ह्यसाधूनामपकाराय केवलम् ॥ ४४ ॥
यदि सिंह महेशानं स्वपुनर्भूत मन्यसे ।
न त्वं स्रष्टा न संहर्ता न स्वतन्त्रो हि कुत्रचित् ॥ ४५ ॥
कुलालचक्रवच्छक्त्या प्रेरितोऽसि पिनाकिना ।
अद्यापि तव निक्षिप्तं कपालं कूर्मरूपिणः ॥ ४६ ॥
हरहारलतामध्ये मुग्ध कस्मान्न बुध्यसे ।
विस्मृतं किं तदंशेन दंष्ट्रोत्पातनपीडितः ॥ ४७ ॥
वाराहविग्रहस्तेऽद्य साक्रोशं तारकारिणा ।
दग्धोऽसि यस्य शूलाग्रे विष्वक्सेनच्छलाद्भवान् ॥ ४८ ॥
दक्षयज्ञे शिरश्छिन्नं मया ते यज्ञरूपिणः ।
अद्यापि तव पुत्रस्य ब्रह्मणः पञ्चमं शिरः ॥ ४९ ॥
छिन्नं तमेनाभिसन्धं तदंशं तस्य तद्बलम् ।
निर्जितस्त्वं दधीचेन सङ्ग्रामे समरुद्गणः ॥ ५० ॥
कण्डूयमाने शिरसि कथं तद्विस्मृतं त्वया ।
चक्रं विक्रमतो यस्य चक्रपाणे तव प्रियम् ॥ ५१ ॥
कुतः प्राप्तं कृतं केन त्वया तदपि विस्मृतम् ।
ते मया सकला लोका गृहीतास्त्वं पयोनिधौ ॥ ५२ ॥
निद्रापरवशः शेषे स कथं सात्त्विको भवान् ।
त्वदादिस्तम्बपर्यन्तं रुद्रशक्तिविजृम्भितम् ॥ ५३ ॥
शक्तिमानभितस्त्वं च ह्यनलस्त्वं च मोहितः ।
तत्तेजसोऽपि माहात्म्यं युवां द्रष्टुं न हि क्षमौ ॥ ५४ ॥
स्थूला ये हि प्रपश्यन्ति तद्विष्णोः परमं पदम् ।
द्यावापृथिव्या इन्द्राग्नि यमस्य वरुणस्य च ॥ ५५ ॥
ध्वान्तोदरे शशाङ्कस्य जनित्वा परमेश्वरः ।
कालोऽसि त्वं महाकालः कालकालो महेश्वरः ॥ ५६ ॥
अतस्त्वमुग्रकलया मृत्योर्मृत्युर्भविष्यसि ।
स्थिरधन्वाऽक्षयो वीरो वीरो विश्वाधिकः प्रभुः ॥ ५७ ॥
उपहस्ता ज्वरं भीमो मृगपक्षिहिरण्मयः ।
शास्ताशेषस्य जगतो न त्वं नैवचतुर्मुखः ॥ ५८ ॥
इत्थं सर्वं समालोक्य संहरात्मानमात्मना ।
नो चेदिदानीं क्रोधस्य महाभैरवरूपिणः ॥ ५९ ॥
वज्राशनिरिव स्थाणोस्त्वेवं मृत्युः पतिष्यति ।
॥ सूत उवाच ॥
इत्युक्तो वीरभद्रेण नृसिंहः क्रोधविह्वलः ॥ ६० ॥
ननाद तनुवेगेन तं गृहीतुं प्रचक्रमे ।
अत्रान्तरे महाघोरं विपक्षभयकारणम् ॥ ६१ ॥
गगनव्यापि दुर्धर्ष शैवतेजः समुद्भवम् ।
वीरभद्रस्य तद्रूपं तत्क्षणादेव दृश्यते ॥ ६२ ॥
न तद्धिरण्मयं सौम्यं न सौरं नाग्निसम्भवम् ।
न तडिच्चन्द्रसदृशमनौपम्यं महेश्वरम् ॥ ६३ ॥
तदा तेजांसि सर्वाणि तस्मिन् लीनानि शाङ्करे ।
ततो व्यक्तो महातेजा व्यक्ते सम्भवतस्ततः ॥ ६४ ॥
रुद्रसाधारणं चैव चिह्नितं विकृताकृति ।
ततः संहाररूपेण सुव्यक्तः परमेश्वरः ॥ ६५ ॥
पश्यतां सर्वदेवानां जयशब्दादिमङ्गलैः ।
सहस्रबाहुर्जटिलश्चन्द्रार्धकृतशेखरः ॥ ६६ ॥
स मृगार्धशरीरेण पक्षाभ्यां चञ्चुना द्विजाः ।
अतितीक्ष्णमहादंष्ट्रो वज्रतुल्यनखायुधः ॥ ६७ ॥
कण्ठे कालो महाबाहुश्चतुष्पाद्वह्निसम्भवः ।
युगान्तोद्यतजीमूत भीमगम्भीरनिःस्वनः ॥ ६८ ॥
समं कुपितवृत्ताग्नि व्यावृत्तनयनत्रयः ।
स्पष्टदंष्ट्रोऽधरोष्ठश्च हुङ्कारेण युतो हरः ॥ ६९ ॥
हरिस्तद्दर्शनादेव विनष्टबलविक्रमः ।
बिभ्रदौर्म्यं सहस्रांशोरधः खद्योतविभ्रमम् ॥ ७० ॥
अथ विभ्रम्य पक्षाभ्यां नाभिपादेऽभ्युदारयन् ।
पादावाबध्य पुच्छेन बाहुभ्यां बाहुमण्डलम् ॥ ७१ ॥
भिन्दन्नुरसि बाहुभ्यां निजग्राह हरो हरिम् ।
ततो जगाम गगनं देवैः सह महर्षिभिः ॥ ७२ ॥
सहसैव भयाद्विष्णुं विहगश्च यथोरगम् ।
उत्क्षिप्योत्क्षिप्य सङ्गृह्य निपात्य च निपात्य च ॥ ७३ ॥
उड्डीयोड्डीय भगवान् पक्षाघातविमोहितम् ।
हरिं हरं तं वृषभं विश्वेशानं तमीश्वरम् ॥ ७४ ॥
अनुयान्ति सुराः सर्वे नमोवाक्येन तुष्टुवुः ।
नीयमानः परवशो दीनवक्त्रः कृताञ्जलिः ॥ ७५ ॥
तुष्टाव परमेशानं हरिस्तं ललिताक्षरैः ।
॥ श्रीनृसिंह कृत शरभेश्वर अष्टोत्तरशतनाम स्तोत्र ॥
॥ श्रीनृसिंह उवाच ॥
नमो रुद्राय शर्वाय महाग्रासाय विष्णवे ॥ ७६ ॥
नम उग्राय भीमाय नमः क्रोधाय मन्यवे ।
नमो भवाय शर्वाय शङ्कराय शिवाय ते ॥ ७७ ॥
कालकालाय कालाय महाकालाय मृत्यवे ।
वीराय वीरभद्राय क्षयद्वीराय शूलिने ॥ ७८ ॥
महादेवाय महते पशूनां पतये नमः ।
एकाय नीलकण्ठाय श्रीकण्ठाय पिनाकिने ॥ ७९ ॥
नमोऽनन्ताय सूक्ष्माय नमस्ते मृत्युमन्यवे ।
पराय परमेशाय परात्परतराय ते ॥ ८० ॥
परात्पराय विश्वाय नमस्ते विश्वमूर्त्तये ।
नमो विष्णुकलत्राय विष्णुक्षेत्राय भानवे ॥ ८१ ॥
कैवर्ताय किराताय महाव्याधाय शाश्वते ।
भैरवाय शरण्याय महाभैरवरूपिणे ॥ ८२ ॥
नमो नृसिंहसंहर्त्रे कामकालपुरारये ।
महापाशौघसंहर्त्रे विष्णुमायान्तकारिणे ॥ ८३ ॥
त्र्यम्बकाय त्र्यक्षराय शिपिविष्टाय मीढुषे ।
मृत्युञ्जयाय शर्वाय सर्वज्ञाय मखारये ॥ ८४ ॥
मखेशाय वरेण्याय नमस्ते वह्निरूपिणे ।
महाघ्राणाय जिह्वाय प्राणापानप्रवर्तिने ॥ ८५ ॥
त्रिगुणाय त्रिशूलाय गुणातीताय योगिने ।
संसाराय प्रवाहाय महायन्त्रप्रवर्तिने ॥ ८६ ॥
नमश्चन्द्राग्निसूर्याय मुक्तिवैचित्र्यहेतवे ।
वरदायावताराय सर्वकारणहेतवे ॥ ८७ ॥
कपालिने करालाय पतये पुण्यकीर्त्तये ।
अमोघायाग्निनेत्राय लकुलीशाय शम्भवे ॥ ८८ ॥
भिषक्तमाय मुण्डाय दण्डिने योगरूपिणे ।
मेघवाहाय देवाय पार्वतीपतये नमः ॥ ८९ ॥
अव्यक्ताय विशोकाय स्थिराय स्थिरधन्विने ।
स्थाणवे कृत्तिवासाय नमः पञ्चार्थहेतवे ॥ ९० ॥
वरदायैकपादाय नमश्चन्द्रार्धमौलिने ।
नमस्तेऽध्वरराजाय वयसां पतये नमः ॥ ९१ ॥
योगीश्वराय नित्याय सत्याय परमेष्ठिने ।
सर्वात्मने नमस्तुभ्यं नमः सर्वेश्वराय ते ॥ ९२ ॥
एकद्वित्रिचतुःपञ्च कृत्वस्तेऽस्तु नमोनमः ।
दशकृत्वस्तु साहस्र कृत्वस्ते च नमो नमः ॥ ९३ ॥
नमोऽपरिमितं कृत्वानन्तकृत्वो नमो नमः ।
नमो नमो नमो भूयः पुनर्भूयो नमो नमः ॥ ९४ ॥
॥ सूत उवाच ॥
नाम्नामष्टशतेनैवं स्तुत्वामृतमयेन तु ।
पुनस्तु प्रार्थयामास नृसिंहः शरभेश्वरम् ॥ ९५ ॥
यदा यदा ममाज्ञानमत्यहङ्कारदूषितम् ।
तदा तदापनेतव्यं त्वयैव परमेश्वर ॥ ९६ ॥
एवं विज्ञापयन् प्रीतः शङ्करं नरकेसरी ।
नन्वशक्तो भवान् विष्णो जीवितान्तं पराजितः ॥ ९७ ॥
तद्वक्त्रशेषमात्रान्तं कृत्वा सर्वस्य विग्रहम् ।
शुक्तिशित्यं तदा मङ्गं वीरभद्रः क्षणात्ततः ॥ ९८ ॥
॥ देवा ऊचुः ॥
अथ ब्रह्मादयः सर्वे वीरभद्र त्वया दृशा ।
जीविताः स्मो वयं देवाः पर्जन्येनेव पादपाः ॥ ९९ ॥
यस्य भीषा दहत्यग्निरुदेति च रविः स्वयम् ।
वातो वाति च सोऽसि त्वं मृत्युर्धावति पञ्चमः ॥ १०० ॥
यदव्यक्तं परं व्योम कलातीतं सदाशिवम् ।
भगवंस्त्वामेव भवं वदन्ति ब्रह्मवादिनः ॥ १०१ ॥
के वयमेव धातुक्ये वेदने परमेश्वरः ।
न विद्धि परमं धाम रूपलावण्यवर्णने ॥ १०२ ॥
उपसर्गेषु सर्वेषु त्रायस्वास्मान् गणाधिप ।
एकादशात्मन् भगवान् वर्तते रूपवान् हरः ॥ १०३ ॥
ईदृशान् तेऽवताराणि दृष्ट्वा शिव बहूंस्तमः ।
कदाचित् संदिहेन्नास्मांस्त्वच्चिन्तास्तमया तथा ॥ १०४ ॥
गुञ्जागिरिवरतटामितरूपाणि सर्वशः ।
अभ्यसंहर गम्यं ते न नीतव्यं परापरा ॥ १०५ ॥
द्वे तनू तव रुद्रस्य वेदज्ञा ब्राह्मणा विदुः ।
घोराप्यन्या शिवाप्यन्या ते प्रत्येकमनेकधा ॥ १०६ ॥
इहास्मान् पाहि भगवन्नित्याहतमहाबलः ।
भवता हि जगत् सर्वं व्याप्तं स्वेनैव तेजसा ॥ १०७ ॥
ब्रह्मविष्ण्विन्द्रचन्द्रादि वयं च प्रमुखाः सुराः ।
सुरासुराः सम्प्रसूतास्त्वत्तः सर्वे महेश्वर ॥ १०८ ॥
ब्रह्मा च इन्द्रो विष्णुश्च यमाद्या न सुरासुरान् ।
ततो निगृह्य च हरिं सिंह इत्युपचेतसम् ॥ १०९ ॥
यतो बिभर्षि सकलं विभज्य तनुमष्टधा ।
अतोऽस्मान् पाहि भगवन् सुरान् दानैरभीप्सितैः ॥ ११० ॥
उवाच तान् सुरान् देवो महर्षींश्च पुरातनान् ।
यथा जले जलं क्षिप्तं क्षीरं क्षीरे घृतं घृते ॥ १११ ॥
एक एव तदा विष्णुः शिवलीनो न चान्यथा ।
एष एव नृसिंहात्मा सदर्पश्च महाबलः ॥ ११२ ॥
जगत् संहारकारेण प्रवृत्तो नरकेसरी ।
याजनीयो नमस्तस्मै मद्भक्तिसिद्धिकाङ्क्षिभिः ॥ ११३ ॥
एतावदुक्त्वा भगवान् वीरभद्रो महाबलः ।
अपश्यन् सर्वभूतानां तत्रैवान्तरधीयत ॥ ११४ ॥
नृसिंहकृत्तिवसनस्तदाप्रभृति शङ्करः ।
वक्त्रं तन्मुण्डमालायां नायकत्वेन कल्पितम् ॥ ११५ ॥
ततो देवा निरातङ्काः कीर्तयन्तः कथामिमाम् ।
विस्मयोत्फुल्लनयना जग्मुः सर्वे यथागतम् ॥ ११६ ॥
य इदं परमाख्यानं पुण्यं वेदैः समन्वितम् ।
पठित्वा शृणुते चैव सर्वदुःखविनाशनम् ॥ ११७ ॥
धन्यं यशस्यमायुष्यमारोग्यं पुष्टिवर्धनम् ।
सर्वविघ्नप्रशमनं सर्वव्याधिविनाशनम् ॥ ११८ ॥
अपमृत्युप्रशमनं महाशान्तिकरं शुभम् ।
अरिचक्रप्रशमनं सर्वाधिप्रविनाशनम् ॥ ११९ ॥
ततो दुःस्वप्नशमनं सर्वभूतनिवारणम् ।
विषग्रहक्षयकरं पुत्रपौत्रादिवर्धनम् ॥ १२० ॥
योगसिद्धिप्रदं सम्यक् शिवज्ञानप्रकाशकम् ।
शेषलोकस्य सोपानं वाञ्छितार्थैकसाधनम् ॥ १२१ ॥
विष्णुमायानिरसनं देवतापरमार्थदम् ।
वाञ्छासिद्धिप्रदं चैव ऋद्धिप्रज्ञादिसाधनम् ॥ १२२ ॥
इदं तु शरभाकारं परं रूपं पिनाकिनः ।
प्रकाशितव्यं भक्तेषु चिरेषूद्यमितेषु च ॥ १२३ ॥
तैरेव पठितव्यं च श्रोतव्यं च शिवात्मभिः ।
शिवोत्सवेषु सर्वेषु चतुर्दश्यष्टमीषु च ॥ १२४ ॥
पठेत् प्रतिष्ठाकालेषु शिवसन्निधिकारणम् ।
चोरव्याघ्राहिसिंहान्त कृतो राजभयेषु च ॥ १२५ ॥
अत्रान्योत्पातभूकम्प दावाग्निपांसुवृष्टिषु ।
उल्कापाते महावाते विना वृष्ट्यातिवृष्टिषु ॥ १२६ ॥
अतस्तत्र पठेद्विद्वाञ्छिवभक्तो दृढव्रतः ।
यः पठेच्छृणुयाद्वापि स्तवं सर्वमनुत्तमम् ॥ १२७ ॥
स रुद्रत्वं समासाद्य रुद्रस्यानुचरो भवेत् ॥ १२८ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे शरभप्रादुर्भावो नाम षण्णवतितमोऽध्यायः ॥ ९६ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीलिङ्गमहापुराण -[पूर्वभाग]-अध्याय-96

कोई टिप्पणी नहीं:

123