श्रीलिङ्गमहापुराण -[पूर्वभाग] -023

 श्रीलिङ्गमहापुराणे पूर्वभागे त्रयोविंशोऽध्यायः

विविधकल्पवर्णनं
॥ सूत उवाच ॥

तस्य तद्वचनं श्रुत्वा ब्रह्मणो भगवान् भवः ।
ब्रह्मरूपी प्रबोधार्थं ब्रह्माणं प्राह सस्मितम् ॥ १ ॥
श्वेतकल्पो यदा ह्यासीदहमेव तदाभवम् ।
श्वेतोष्णीषः श्वेतमाल्यः श्वेताम्बरधरः सितः ॥ २ ॥


श्वेतास्थिः श्वेतरोमा च श्वेतासृक् श्वेतलोहितः ।
तेन नाम्ना च विख्यातः श्वेतकल्पस्तदा ह्यसौ ॥ ३ ॥
मत्प्रसूता च देवेशी श्वेताङ्गा श्वेतलोहिता ।
श्वेतवर्णा तदा ह्यासीद्गायत्री ब्रह्मसंज्ञिता ॥ ४ ॥
तस्मादहं च देवेश त्वया गुह्येन वै पुनः ।
विज्ञातः स्वेन तपसा सद्योजातत्वमागतः ॥ ५ ॥
सद्योजातेति ब्रह्मैतद्गुह्यं चैतत् प्रकीर्तितम् ।
तस्माद् गुह्यत्वमापन्नं ये वेत्स्यन्ति द्विजातयः ॥ ६ ॥
मत्समीपं गमिष्यन्ति पुनरावृत्तिदुर्लभम् ।
यदा चैव पुनस्त्वासील्लोहितो नाम नामतः ॥ ७ ॥
मत्कृतेन च वर्णेन कल्पो वै लोहितः स्मृतः ।
तदा लोहितमांसास्थि लोहितक्षीरसम्भवा ॥ ८ ॥
लोहिताक्षी स्तनवती गायत्री गौः प्रकीर्तिता ।
ततोऽस्या लोहितत्वेन वर्णस्य च विपर्ययात् ॥ ९ ॥
वामत्वाच्चैव देवस्य वामदेवत्वमागतः ।
तत्रापि च महासत्त्व त्वयाहं नियतात्मना ॥ १० ॥
विज्ञातः स्वेन योगेन तस्मिन् वर्णान्तरे स्थितः ।
ततश्च वामदेवेति ख्यातिं यातोऽस्मि भूतले ॥ ११ ॥
ये चापि वामदेव त्वां ज्ञास्यन्तीह द्विजातयः ।
रुद्रलोकं गमिष्यन्ति पुनरावृत्तिदुर्लभम् ॥ १२ ॥
यदाहं पुनरेवेह पीतवर्णो युगक्रमात् ।
मत्कृतेन च नाम्ना वै पीतकल्पोऽभवत्तदा ॥ १३ ॥
मत्प्रसूता च देवेशी पीताङ्गी पीतलोहिता ।
पीतवर्णा तदा ह्यासीद् गायत्री ब्रह्मसंज्ञिता ॥ १४ ॥
तत्रापि च महासत्त्व योगयुक्तेन चेतसा ।
यस्मादहं तैर्विज्ञातो योगतत्परमानसैः ॥ १५ ॥
तत्र तत्पुरुषत्वेन विज्ञातोऽहं त्वया पुनः ।
तस्मात्तत्पुरुषत्वं वै ममैतत्कनकाण्डज ॥ १६ ॥
ये मां रुद्रं च रुद्राणीं गायत्रीं वेदमातरम् ।
वेत्स्यन्ति तपसा युक्ता विमला ब्रह्मसङ्गताः ॥ १७ ॥
रुद्रलोकं गमिष्यन्ति पुनरावृत्तिदुर्लभम् ।
यदाहं पुनरेवासं कृष्णवर्णो भयानकः ॥ १८ ॥
मत्कृतेन च वर्णेन संकल्पः कृष्ण उच्यते ।
तत्राहं कालसङ्काशः कालो लोकप्रकालकः ॥ १९ ॥
विज्ञातोऽहं त्वया ब्रह्मन् घोरो घोरपराक्रमः ।
मत्प्रसूता च गायत्री कृष्णाङ्गी कृष्णलोहिता ॥ २० ॥
कृष्णरूपा च देवेश तदासीद्ब्रह्मसंज्ञिता ।
तस्माद्घोरत्वमापन्नं ये मां वेत्स्यन्ति भूतले ॥ २१ ॥
तेषामघोरः शान्तश्च भविष्याम्यहमव्ययः ।
पुनश्च विश्वरूपत्वं यदा ब्रह्मन् ममाभवत् ॥ २२ ॥
तदाप्यहं त्वया ज्ञातः परमेण समाधिना ।
विश्वरूपा च संवृत्ता गायत्री लोकधारिणी ॥ २३ ॥
तस्मिन् विश्वत्वमापन्नं ये मां वेत्स्यन्ति भूतले ।
तेषां शिवश्च सौम्यश्च भविष्यामि सदैव हि ॥ २४ ॥
यस्माच्च विश्वरूपो वै कल्पोऽयं समुदाहृतः ।
विश्वरूपा तथा चेयं सावित्री समुदाहृता ॥ २५ ॥
सर्वरूपा तथा चेमे संवृत्ता मम पुत्रकाः ।
चत्वारस्ते मया ख्याताः पुत्र वै लोकसम्मताः ॥ २६ ॥
यस्माच्च सर्ववर्णत्वं प्रजानां च भविष्यति ।
सर्वभक्षा च मेध्या च वर्णतश्च भविष्यति ॥ २७ ॥
मोक्षो धर्मस्तथार्थश्च कामश्चेति चतुष्टयम् ।
यस्माद्वेदाश्च वेद्यं च चतुर्धा वै भविष्यति ॥ २८ ॥
भूतग्रामाश्च चत्वार आश्रमाश्च तथैव च ।
धर्मस्य पादाश्चत्वारश्चत्वारो मम पुत्रकाः ॥ २९ ॥
तस्माच्चतुर्युगावस्थं जगद्वै सचराचरम् ।
चतुर्धावस्थितश्चैव चतुष्पादो भविष्यति ॥ ३० ॥
भूर्लोकोऽथ भुवर्लोकः स्वर्लोकश्च महस्तथा ।
जनस्तपश्च सत्यं च विष्णुलोकस्ततः परम् ॥ ३१ ॥
अष्टाक्षरस्थितो लोकः स्थाने स्थाने तदक्षरम् ।
भूर्भुवः स्वर्महश्चैव पादाश्चत्वार एव च ॥ ३२ ॥
भूर्लोकः प्रथमः पादो भुवर्लोकस्ततः परम् ।
स्वर्लोको वै तृतीयश्च चतुर्थस्तु महस्तथा ॥ ३३ ॥
पञ्चमस्तु जनस्तत्र षष्ठश्च तप उच्यते ।
सत्यं तु सप्तमो लोको ह्यपुनर्भवगामिनाम् ॥ ३४ ॥
विष्णुलोकः स्मृतं स्थानं पुनरावृत्तिदुर्लभम् ।
स्कान्दमौमं तथा स्थानं सर्वसिद्धिसमन्वितम् ॥ ३५ ॥
रुद्रलोकः स्मृतस्तस्मात्पदं तद्योगिनां शुभम् ।
निर्ममा निरहङ्काराः कामक्रोधविवर्जिताः ॥ ३६ ॥
द्रक्ष्यन्ति तद् द्विजा युक्ता ध्यानतत्परमानसाः ।
यस्माच्चतुष्पदा ह्येषा त्वया दृष्टा सरस्वती ॥ ३७ ॥
पादान्तं विष्णुलोकं वै कौमारं शान्तमुत्तमम् ।
औमं माहेश्वरं चैव तस्माद् दृष्टा चतुष्पदा ॥ ३८ ॥
तस्मात्तु पशवः सर्वे भविष्यन्ति चतुष्पदाः ।
ततश्चैषां भविष्यन्ति चत्वारस्ते पयोधराः ॥ ३९ ॥
सोमश्च मन्त्रसंयुक्तो यस्मान्मम मुखाच्च्युतः ।
जीवः प्राणभृतां ब्रह्मन् पुनः पीतस्तनाः स्मृताः ॥ ४० ॥
तस्मात् सोममयं चैव अमृतं जीवसंज्ञितम् ।
चतुष्पादा भविष्यन्ति श्वेतत्वं चास्य तेन तत् ॥ ४१ ॥
यस्माच्चैव क्रिया भूत्वा द्विपदा च महेश्वरी ।
दृष्टा पुनस्तथैवैषा सावित्री लोकभाविनी ॥ ४२ ॥
तस्माच्च द्विपदाः सर्वे द्विस्तनाश्च नराः शुभाः ।
तस्माच्चेयमजा भूत्वा सर्ववर्णा महेश्वरी ॥ ४३ ॥
या वै दृष्टा महासत्त्वा सर्वभूतधरा त्वया ।
तस्माच्च विश्वरूपत्वं प्रजानां वै भविष्यति ॥ ४४ ॥
अजश्चैव महातेजा विश्वरूपो भविष्यति ।
अमोघरेताः सर्वत्र मुखे चास्य हुताशनः ॥ ४५ ॥
तस्मात् सर्वगतो मेध्यः पशुरूपी हुताशनः ।
तपसा भावितात्मानो ये मां द्रक्ष्यन्ति वै द्विजाः ॥ ४६ ॥
ईशित्वे च वशित्वे च सर्वगं सर्वतः स्थितम् ।
रजस्तमोभ्यां निर्मुक्तास्त्यक्त्वा मानुष्यकं वपुः ॥ ४७ ॥
मत्समीपमुपेष्यन्ति पुनरावृत्तिदुर्लभम् ।
इत्येवमुक्तो भगवान् ब्रह्मा रुद्रेण वै द्विजाः ॥ ४८ ॥
प्रणम्य प्रयतो भूत्वा पुनराह पितामहः ।
य एवं भगवान् विद्वान् गायत्र्या वै महेश्वरम् ॥ ४९ ॥
विश्वात्मानं हि सर्वं त्वां गायत्र्यास्तव चेश्वर ।
तस्य देहि परं स्थानं तथास्त्विति च सोऽब्रवीत् ॥ ५० ॥
तस्माद्विद्वान् हि विश्वत्वमस्याश्चास्य महात्मनः ।
स याति ब्रह्मसायुज्यं वचनाद्ब्रह्मणः प्रभोः ॥ ५१ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे 'विविधकल्पवर्णनं ' नाम त्रयोविंशोऽध्यायः ॥ २३ ॥

   इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीलिङ्गमहापुराण -[पूर्वभाग]-अध्याय-23

कोई टिप्पणी नहीं:

123