श्रीलिङ्गमहापुराण -[पूर्वभाग] -024

 श्रीलिङ्गमहापुराणे पूर्वभाग चतुर्विंशोऽध्यायः

विविधव्यासावतारवर्णनं
॥ सूत उवाच ॥

श्रुत्वैवमखिलं ब्रह्मा रुद्रेण परिभाषितम् ।
पुनः प्रणम्य देवेशं रुद्रमाह प्रजापतिः ॥ १ ॥
भगवन् देवदेवेश विश्वरूपं महेश्वर ।
उमाधव महादेव नमो लोकाभिवन्दित ॥ २ ॥


विश्वरूप महाभाग कस्मिन् काले महेश्वर ।
या इमास्ते महादेव तनवो लोकवन्दिताः ॥ ३ ॥
कस्यां वा युगसम्भूत्यां द्रक्ष्यन्तीह द्विजातयः ।
केन वा तपसा देव ध्यानयोगेन केन वा ॥ ४ ॥
नमस्ते वै महादेव शक्यो द्रष्टुं द्विजातिभिः ।
तस्य तद्वचनं श्रुत्वा शर्वः सम्प्रेक्ष्य तं पुरः ॥ ५ ॥
स्मयन् प्राह महादेव ऋग्यजुःसामसम्भवः ।
॥ श्रीभगवानुवाच ॥
तपसा नैव वृत्तेन दानधर्मफलेन च ॥ ६ ॥
न तीर्थफलयोगेन क्रतुभिर्वाप्तदक्षिणैः ।
न वेदाध्ययनैर्वापि न वित्तेन न वेदनैः ॥ ७ ॥
न शक्यं मानवैर्द्रष्टुमृते ध्यानादहं त्विह ।
सप्तमे चैव वाराहे ततस्तस्मिन् पितामह ॥ ८ ॥
कल्पेश्वरोऽथ भगवान् सर्वलोकप्रकाशनः ।
मनुर्वैवस्वतश्चैव तव पौत्रो भविष्यति ॥ ९ ॥
तदा चतुर्युगावस्थे तस्मिन् कल्पे युगान्तिके ।
अनुग्रहार्थं लोकानां ब्राह्मणानां हिताय च ॥ १० ॥
उत्पत्स्यामि तदा ब्रह्मन् पुनरस्मिन् युगान्तिके ।
युगप्रवृत्त्या च तदा तस्मिंश्च प्रथमे युगे ॥ ११ ॥
द्वापरे प्रथमे ब्रह्मन् यदा व्यासः स्वयं प्रभुः ।
तदाहं ब्राह्मणार्थाय कलौ तस्मिन् युगान्तिके ॥ १२ ॥
भविष्यामि शिखायुक्तः श्वेतो नाम महामुनिः ।
हिमवच्छिखरे रम्ये छागले पर्वतोत्तमे ॥ १३ ॥
तत्र शिष्याः शिखायुक्ता भविष्यन्ति तदा मम ।
श्वेतः श्वेतशिखश्चैव श्वेतास्यः श्वेतलोहितः ॥ १४ ॥
चत्वारस्तु महात्मानो ब्राह्मणा वेदपारगाः ।
ततस्ते ब्रह्मभूयिष्ठा दृष्ट्वा ब्रह्मगतिं पराम् ॥ १५ ॥
मत्समीपं गमिष्यन्ति ध्यानयोगपरायणाः ।
ततः पुनर्यदा ब्रह्मन् द्वितीये द्वापरे प्रभुः ॥ १६ ॥
प्रजापतिर्यदा व्यासः सद्यो नाम भविष्यति ।
तदा लोकहितार्थाय सुतारो नाम नामतः ॥ १७ ॥
भविष्यामि कलौ तस्मिन् शिष्यानुग्रहकाम्यया ।
तत्रापि मम ते शिष्या नामतः परिकीर्तिताः ॥ १८ ॥
दुन्दुभिः शतरूपश्च ऋचीकः केतुमांस्तदा ।
प्राप्य योगं तथा ध्यानं स्थाप्य ब्रह्म च भूतले ॥ १९ ॥
रुद्रलोकं गमिष्यन्ति सहचारित्वमेव च ।
तृतीये द्वापरे चैव यदा व्यासस्तु भार्गवः ॥ २० ॥
तदाप्यहं भविष्यामि दमनस्तु युगान्तिके ।
तत्रापि च भविष्यन्ति चत्वारो मम पुत्रकाः ॥ २१ ॥
विकोशश्च विकेशश्च विपाशः शापनाशनः ।
तेऽपि तेनैव मार्गेण योगोक्तेन महौजसः ॥ २२ ॥
रुद्रलोकं गमिष्यन्ति पुनरावृत्तिदुर्लभम् ।
चतुर्थे द्वापरे चैव यदा व्यासोऽङ्गिराः स्मृतः ॥ २३ ॥
तदाप्यहं भविष्यामि सुहोत्रो नाम नामतः ।
तत्रापि मम ते पुत्राश्चत्वारोऽपि तपोधनाः ॥ २४ ॥
द्विजश्रेष्ठा भविष्यन्ति योगात्मानो दृढव्रताः ।
सुमुखो दुर्मुखश्चैव दुर्दरो दुरतिक्रमः ॥ २५ ॥
प्राप्य योगगतिं सूक्ष्मां विमला दग्धकिल्बिषाः ।
तेऽपि तेनैव मार्गेण योगयुक्ता महौजसः ॥ २६ ॥
रुद्रलोकं गमिष्यन्ति पुनरावृत्तिदुर्लभम् ।
पञ्चमे द्वापरे चैव व्यासस्तु सविता यदा ॥ २७ ॥
तदा चापि भविष्यामि कङ्को नाम महातपाः ।
अनुग्रहार्थं लोकानां योगात्मैककलागतिः ॥ २८ ॥
चत्वारस्तु महाभागा विमलाः शुद्धयोनयः ।
शिष्या मम भविष्यन्ति योगात्मानो दृढव्रताः ॥ २९ ॥
सनकः सनन्दनश्चैव प्रभुर्यश्च सनातनः ।
विभुः सनत्कुमारश्च निर्ममा निरहङ्कृताः ॥ ३० ॥
मत्समीपमुपेष्यन्ति पुनरावृत्तिदुर्लभम् ।
परीवर्ते पुनः षष्ठे मृत्युर्व्यासो यदा विभुः ॥ ३१ ॥
तदाप्यहं भविष्यामि लोगाक्षीर्नाम नामतः ।
तत्रापि मम ते शिष्या योगात्मानो दृढव्रताः ॥ ३२ ॥
भविष्यन्ति महाभागाश्चत्वारो लोकसम्मताः ।
सुधामा विरजाश्चैव शङ्खपाद्रज एव च ॥ ३३ ॥
योगात्मानो महात्मानः सर्वे वै दग्धकिल्बिषाः ।
तेऽपि तेनैव मार्गेण ध्यानयोगसमन्विताः ॥ ३४ ॥
मत्समीपं गमिष्यन्ति पुनरावृत्तिदुर्लभम् ।
सप्तमे परिवर्ते तु यदा व्यासः शतक्रतुः ॥ ३५ ॥
विभुनामा महातेजाः प्रथितः पूर्वजन्मनि ।
तदाप्यहं भविष्यामि कलौ तस्मिन् युगान्तिके ॥ ३६ ॥
जैगीषव्यो विभुः ख्यातः सर्वेषां योगिनां वरः ।
तत्रापि मम ते पुत्रा भविष्यन्ति युगे तथा ॥ ३७ ॥
सारस्वतश्च मेघश्च मेघवाहः सुवाहनः ।
तेपि तेनैव मार्गेण ध्यानयोगपरायणाः ॥ ३८ ॥
गमिष्यन्ति महात्मानो रुद्रलोकं निरामयम् ।
वसिष्ठश्चाष्टमे व्यासः परिवर्ते भविष्यति ॥ ३९ ॥
यदा तदा भविष्यामि नाम्नाहं दधिवाहनः ।
तत्रापि मम ते पुत्रा योगात्मानो दृढव्रताः ॥ ४० ॥
भविष्यन्ति महायोगा येषां नास्ति समो भुवि ।
कपिलश्चासुरिश्चैव तथा पञ्चशिखो मुनिः ॥ ४१ ॥
बाष्कलश्च महायोगी धर्मात्मानो महौजसः ।
प्राप्य माहेश्वरं योगं ज्ञानिनो दग्धकिल्बिषाः ॥ ४२ ॥
मत्समीपं गमिष्यंति पुनरावृत्ति दुर्लभम् ।
परिवर्ते तु नवमे व्यासः सारस्वतो यदा ॥ ४३ ॥
तदाप्यहं भविष्यामि ऋषभो नाम नामतः ।
तत्रापि मम ते पुत्रा भविष्यन्ति महौजसः ॥ ४४ ॥
पराशरश्च गर्गश्च भार्गवाङ्गिरसौ तदा ।
भविष्यन्ति महात्मानो ब्राह्मणा वेदपारगाः ॥ ४५ ॥
ध्यानमार्गं समासाद्य गमिष्यन्ति तथैव ते ।
सर्वे तपोबलोत्कृष्टाः शापानुग्रहकोविदाः ॥ ४६ ॥
तेपि तेनैव मार्गेण योगोक्तेन तपस्विनः ।
रुद्रलोकं गमिष्यन्ति पुनरावृत्तिदुर्लभम् ॥ ४७ ॥
दशमे द्वापरे व्यासः त्रिपाद्वै नाम नामतः ।
यदा भविष्यते विप्रस्तदाहं भविता मुनिः ॥ ४८ ॥
हिमवच्छिखरे रम्ये भृगुतुङ्गे नगोत्तमे ।
नाम्ना भृगोस्तु शिखरं प्रथितं देवपूजितम् ॥ ४९ ॥
तत्रापि मम ते पुत्रा भविष्यन्ति दृढव्रताः ।
बलबन्धुर्निरामित्रः केतुश्रृङ्गस्तपोधनः ॥ ५० ॥
योगात्मानो महात्मानस्तपोयोगसमन्विताः ।
रुद्रलोकं गमिष्यन्ति तपसा दग्धकिल्बिषाः ॥ ५१ ॥
एकादशे द्वापरे तु व्यासस्तु त्रिव्रतो यदा ।
तदाप्यहं भविष्यामि गङ्गाद्वारे कलौ तथा ॥ ५२ ॥
उग्रो नाम महातेजाः सर्वलोकेषु विश्रुतः ।
तत्रापि मम ते पुत्रा भविष्यन्ति महौजसः ॥ ५३ ॥
लम्बोदरश्च लम्बाक्षो लम्बकेशः प्रलम्बकः ।
प्राप्य माहेश्वरं योगं रुद्रलोकं गता हि ते ॥ ५४ ॥
द्वादशे परिवर्ते तु शततेजा यदा मुनिः ।
भविष्यति महातेजा व्यासस्तु कविसत्तमः ॥ ५५ ॥
तदाप्यहं भविष्यामि कलाविह युगान्तिके ।
हैतुकं वनमासाद्य अत्रिर्नाम्ना परिश्रुतः ॥ ५६ ॥
तत्रापि मम ते पुत्रा भस्मस्नानानुलेपनाः ।
भविष्यन्ति महायोगा रुद्रलोकपरायणाः ॥ ५७ ॥
सर्वज्ञः समबुद्धिश्च साध्यः सर्वस्तथैव च ।
प्राप्य माहेश्वरं योगं रुद्रलोकं गता हि ते ॥ ५८ ॥
त्रयोदशे पुनः प्राप्ते परिवर्ते क्रमेण तु ।
धर्मो नारायणो नाम व्यासस्तु भविता यदा ॥ ५९ ॥
तदाप्यहं भविष्यामि वालिर्नाम महामुनिः ।
वालखिल्याश्रमे पुण्ये पर्वते गन्धमादने ॥ ६० ॥
तत्रापि मम ते पुत्रा भविष्यन्ति तपोधनाः ।
सुधामा काश्यपश्चैव वासिष्ठो विरजास्तथा ॥ ६१ ॥
महायोगबलोपेता विमला ऊर्ध्वरेतसः ।
प्राप्य माहेश्वरं योगं रुद्रलोकं गता हि ते ॥ ६२ ॥
यदा व्यासस्तरक्षुस्तु पर्याये तु चतुर्दशे ।
तत्रापि पुनरेवाहं भविष्यामि युगान्तिके ॥ ६३ ॥
वंशे त्वङ्गिरसां श्रेष्ठे गौतमो नाम नामतः ।
भविष्यति महापुण्यं गौतमं नाम तद्वनम् ॥ ६४ ॥
तत्रापि मम ते पुत्रा भविष्यन्ति कलौ तदा ।
अत्रिर्देवसदश्चैव श्रवणोऽथ श्रविष्ठकः ॥ ६५ ॥
योगात्मानो महात्मानः सर्वे योगसमन्विताः ।
प्राप्य माहेश्वरं योगं रुद्रलोकाय ते गताः ॥ ६६ ॥
ततः पञ्चदशे प्राप्ते परिवर्ते क्रमागते ।
त्रैय्यारुणिर्यदा व्यासो द्वापरे समपद्यत ॥ ६७ ॥
तदाप्यहं भविष्यामि नाम्ना वेदशिरा द्विजः ।
तत्र वेदशिरो नाम अस्त्रं तत्पारमेश्वरम् ॥ ६८ ॥
भविष्यति महावीर्यं वेदशीर्षश्च पर्वतः ।
हिमवत्पृष्ठमासाद्य सरस्वत्यां नगोत्तमे ॥ ६९ ॥
तत्रापि मम ते पुत्रा भविष्यन्ति तपोधनाः ।
कुणिश्च कुणिबाहुश्च कुशरीरः कुनेत्रकः ॥ ७० ॥
योगात्मानो महात्मानः सर्वे ते ह्यूर्ध्वरेतसः ।
प्राप्य माहेश्वरं योगं रुद्रलोकाय ते गताः ॥ ७१ ॥
व्यासो युगे षोडशे तु यदा देवो भविष्यति ।
तत्र योगप्रदानाय भक्तानां च यतात्मनाम् ॥ ७२ ॥
तदाप्यहं भविष्यामि गोकर्णो नाम नामतः ।
भविष्यति सुपुण्यं च गोकर्णं नाम तद्वनम् ॥ ७३ ॥
तत्रापि मम ते पुत्रा भविष्यन्ति च योगिनः ।
काश्यपो ह्युशनाश्चैव च्यवनोऽथ बृहस्पतिः ॥ ७४ ॥
तेऽपि तेनैव मार्गेण ध्यानयोगसमन्विताः ।
प्राप्य माहेश्वरं योगं गन्तारो रुद्रमेव हि ॥ ७५ ॥
ततः सप्तदशे चैव परिवर्ते क्रमागते ।
यदा भविष्यति व्यासो नाम्ना देवकृतञ्जयः ॥ ७६ ॥
तदाप्यहं भविष्यामि गुहावासीति नामतः ।
हिमवच्छिखरे रम्ये महोत्तुङ्गे महालये ॥ ७७ ॥
सिद्धक्षेत्रं महापुण्यं भविष्यति महालयम् ।
तत्रापि मम ते पुत्रा योगज्ञा ब्रह्मवादिनः ॥ ७८ ॥
भविष्यन्ति महात्मानो निर्ममा निरहङ्कृताः ।
उतथ्यो वामदेवश्च महायोगो महाबलः ॥ ७९ ॥
तेषां शतसहस्रं तु शिष्याणां ध्यानयोगिनाम् ।
भविष्यन्ति तदा काले सर्वे ते ध्यानयुञ्जकाः ॥ ८० ॥
योगाभ्यासरताश्चैव हृदि कृत्वा महेश्वरम् ।
महालये पदं न्यस्तं दृष्ट्वा यान्ति शिवं पदम् ॥ ८१ ॥
ये चान्येऽपि महात्मानः कलौ तस्मिन् युगान्तिके ।
ध्याने मनः समाधाय विमलाः शुद्धबुद्धयः ॥ ८२ ॥
मम प्रसादाद्यास्यन्ति रुद्रलोकं गतज्वराः ।
गत्वा महालयं पुण्यं दृष्ट्वा माहेश्वरं पदम् ॥ ८३ ॥
तीर्णस्तारयते जन्तुर्दश पूर्वान् दशोत्तरान् ।
आत्मानमेकविंशं तु तारयित्वा महालये ॥ ८४ ॥
मम प्रसादाद्यास्यन्ति रुद्रलोकं गतज्वराः ।
ततोऽष्टादशमे चैव परिवर्ते यदा विभो ॥ ८५ ॥
तदा ऋतञ्जयो नाम व्यासस्तु भविता मुनिः ।
तदाप्यहं भविष्यामि शिखण्डी नाम नामतः ॥ ८६ ॥
सिद्धक्षेत्रे महापुण्ये देवदानवपूजिते ।
हिमवच्छिखरे रम्ये शिखण्डी नाम पर्वतः ॥ ८७ ॥
शिखण्डिनो वनं चापि यत्र सिद्धनिषेवितम् ।
तत्रापि मम ते पुत्रा भविष्यन्ति तपोधनाः ॥ ८८ ॥
वाचश्रवा ऋचीकश्च श्यावाश्वश्च यतीश्वरः ।
योगात्मानो महात्मानः सर्वे ते वेदपारगाः ॥ ८९ ॥
प्राप्य माहेश्वरं योगं रुद्रलोकाय संवृताः ।
अथ एकोनविंशे तु परिवर्ते क्रमागते ॥ ९० ॥
व्यासस्तु भविता नाम्ना भरद्वाजो महामुनिः ।
तदाप्यहं भविष्यामि जटामाली च नामतः ॥ ९१ ॥
हिमवच्छिखरे रम्ये जटायुर्यत्र पर्वतः ।
तत्रापि मम ते पुत्रा भविष्यन्ति महौजसः ॥ ९२ ॥
हिरण्यनाभः कौशल्यो लोकाक्षी कुथुमिस्तथा ।
ईश्वरा योगधर्माणः सर्वे ते ह्यूर्ध्वरेतसः ॥ ९३ ॥
प्राप्य माहेश्वरं योगं रुद्रलोकाय संस्थिताः ।
ततो विंशतिमश्चैव परिवर्तो यदा तदा ॥ ९४ ॥
गौतमस्तु तदा व्यासो भविष्यति महामुनिः ।
तदाप्यहं भविष्यामि अट्टहासस्तु नामतः ॥ ९५ ॥
अट्टहासप्रियाश्चैव भविष्यन्ति तदा नराः ।
तत्रैव हिमवत्पृष्ठे अट्टहासो महागिरिः ॥ ९६ ॥
देवदानवयक्षेन्द्र सिद्धचारणसेवितः ।
तत्रापि मम ते पुत्रा भविष्यन्ति महौजसः ॥ ९७ ॥
योगात्मानो महात्मानो ध्यायिनो नियतव्रताः ।
सुमन्तुर्बर्बरी विद्वान् कबन्धः कुशिकन्धरः ॥ ९८ ॥
प्राप्य माहेश्वरं योगं रुद्रलोकाय ते गताः ।
एकविंशे पुनः प्राप्ते परिवर्ते क्रमागते ॥ ९९ ॥
वाचश्रवाः स्मृतो व्यासो यदा स ऋषिसत्तमः ।
तदाप्यहं भविष्यामि दारुको नाम नामतः ॥ १०० ॥
तस्माद्भविष्यते पुण्यं देवदारुवनं शुभम् ।
तत्रापि मम ते पुत्रा भविष्यन्ति महौजसः ॥ १०१ ॥
प्लक्षो दार्भायणिश्चैव केतुमान् गौतमस्तथा ।
योगात्मानो महात्मानो नियता ऊर्ध्वरेतसः ॥ १०२ ॥
नैष्ठिकं व्रतमास्थाय रुद्रलोकाय ते गताः ।
द्वाविंशे परिवर्ते तु व्यासः शुष्मायणो यदा ॥ १०३ ॥
तदाप्यहं भविष्यामि वाराणस्यां महामुनिः ।
नाम्ना वै लाङ्गली भीमो यत्र देवाः सवासवाः ॥ १०४ ॥
द्रक्ष्यन्ति मां कलौ तस्मिन् भवं चैव हलायुधम् ।
तत्रापि मम ते पुत्रा भविष्यन्ति सुधार्मिकाः ॥ १०५ ॥
भल्लवी मधुपिङ्गश्च श्वेतकेतुः कुशस्तथा ।
प्राप्य माहेश्वरं योगं तेऽपि ध्यानपरायणाः ॥ १०६ ॥
विमला ब्रह्मभूयिष्ठा रुद्रलोकाय संस्थिताः ।
परिवर्ते त्रयोविंशे तृणबिन्दुर्यदा मुनिः ॥ १०७ ॥
व्यासो हि भविता ब्रह्मंस्तदाहं भविता पुनः ।
श्वेतो नाम महाकायो मुनिपुत्रस्तु धार्मिकः ॥ १०८ ॥
तत्र कालं जरिष्यामि तदा गिरिवरोत्तमे ।
तेन कालञ्जरो नाम भविष्यति स पर्वतः ॥ १०९ ॥
तत्रापि मम ते शिष्या भविष्यन्ति तपस्विनः ।
उशिको बृहदश्वश्च देवलः कविरेव च ॥ ११० ॥
प्राप्य माहेश्वरं योगं रुद्रलोकाय ते गतः ।
परिवर्ते चतुर्विंशे व्यास ऋक्षो यदा विभो ॥ १११ ॥
तदाप्यहं भविष्यामि कलौ तस्मिन् युगान्तिके ।
शूली नाम महायोगी नैमिषे देववन्दिते ॥ ११२ ॥
तत्रापि मम ते शिष्या भविष्यन्ति तपोधनाः ।
शालिहोत्रोऽग्निवेशश्च युवनाश्वः शरद्वसुः ॥ ११३ ॥
तेऽपि तेनैव मार्गेण रुद्रलोकाय संस्थिताः ।
पञ्चविंशे पुनः प्राप्ते परिवर्ते क्रमागते ॥ ११४ ॥
वासिष्ठस्तु यदा व्यासः शक्तिर्नाम्ना भविष्यति ।
तदाप्यहं भविष्यामि दण्डी मुण्डीश्वरः प्रभुः ॥ ११५ ॥
तत्रापि मम ते पुत्रा भविष्यन्ति तपोधनाः ।
छगलः कुण्डकर्णश्च कुभाण्डश्च प्रवाहकः ॥ ११६ ॥
प्राप्य माहेश्वरं योगममृतत्वाय ते गताः ।
षड्विंशे परिवर्ते तु यदा व्यासः पराशरः ॥ ११७ ॥
तदाप्यहं भविष्यामि सहिष्णुर्नाम नामतः ।
पुरं भद्रवटं प्राप्य कलौ तस्मिन् युगान्तिके ॥ ११८ ॥
तत्रापि मम ते पुत्रा भविष्यन्ति सुधार्मिकाः ।
उलूको विद्युतश्चैव शम्बूको ह्याश्वलायनः ॥ ११९ ॥
प्राप्य माहेश्वरं योगं रुद्रलोकाय ते गताः ।
सप्तविंशे पुनः प्राप्ते परिवर्ते क्रमागते ॥ १२० ॥
जातूकर्ण्यो यदा व्यासो भविष्यति तपोधनः ।
तदाप्यहं भविष्यामि सोमशर्मा द्विजोत्तमः ॥ १२१ ॥
प्रभासतीर्थमासाद्य योगात्मा योगविश्रुतः ।
तत्रापि मम ते शिष्या भविष्यन्ति तपोधनाः ॥ १२२ ॥
अक्षपादः कुमारश्च उलूको वत्स एव च ।
योगात्मानो महात्मानो विमलाः शुद्धबुद्धयः ॥ १२३ ॥
प्राप्य माहेश्वरं योगं रुद्रलोकं ततो गताः ।
अष्टाविंशे पुनः प्राप्ते परिवर्ते क्रमागते ॥ १२४ ॥
पराशरसुतः श्रीमान् विष्णुर्लोकपितामहः ।
यदा भविष्यति व्यासो नाम्ना द्वैपायनः प्रभुः ॥ १२५ ॥
तदा षष्ठेन चांशेन कृष्णः पुरुषसत्तमः ।
वसुदेवाद्यदुश्रेष्ठो वासुदेवो भविष्यति ॥ १२६ ॥
तदाप्यहं भविष्यामि योगात्मा योगमायया ।
लोकविस्मयनार्थाय ब्रह्मचारिशरीरकः ॥ १२७ ॥
श्मशाने मृतमुत्सृष्टं दृष्ट्वा कायमनाथकम् ।
ब्राह्मणानां हितार्थाय प्रविष्टो योगमायया ॥ १२८ ॥
दिव्यां मेरुगुहां पुण्यां त्वया सार्धं च विष्णुना ।
भविष्यामि तदा ब्रह्मन् लकुली नाम नामतः ॥ १२९ ॥
कायावतार इत्येवं सिद्धक्षेत्रं च वै तदा ।
भविष्यति सुविख्यातं यावद्भूमिर्धरिष्यति ॥ १३० ॥
तत्रापि मम ते पुत्रा भविष्यन्ति तपस्विनः ।
कुशिकश्चैव गर्गश्च मित्रः कौरुष्य एव च ॥ १३१ ॥
योगात्मानो महात्मानो ब्राह्मणा वेदपारगाः ।
प्राप्य माहेश्वरं योगं विमला ह्यूर्ध्वरेतसः ॥ १३२ ॥
रुद्रलोकं गमिष्यन्ति पुनरावृत्तिदुर्लभम् ।
एते पाशुपताः सिद्धा भस्मोद्धूलितविग्रहाः ॥ १३३ ॥
लिङ्गार्चनरता नित्यं बाह्याभ्यन्तरतः स्थिताः ।
भक्त्या मयि च योगेन ध्याननिष्ठा जितेन्द्रियाः ॥ १३४ ॥
संसारबन्धच्छेदार्थं ज्ञानमार्गप्रकाशकम् ।
स्वरूपज्ञानसिद्ध्यर्थं योगं पाशुपतं महत् ॥ १३५ ॥
योगमार्गा अनेकाश्च ज्ञानमार्गास्त्वनेकशः ।
न निवृत्तिमुपायान्ति विना पञ्चाक्षरीं क्वचित् ॥ १३६ ॥
यदाचरेत्तपश्चायं सर्वद्वन्द्वविवर्जितम् ।
तदा स मुक्तो मन्तव्यः पक्वं फलमिव स्थितः ॥ १३७ ॥
एकाहं यः पुमान् सम्यक् चरेत् पाशुपतव्रतम् ।
न सांख्ये पञ्चरात्रे वा न प्राप्नोति गतिं कदा ॥ १३८ ॥
इत्येतद्वै मया प्रोक्तमवतारेषु लक्षणम् ।
मन्वादिकृष्णपर्यन्तमष्टाविंशद्युगक्रमात् ॥ १३९ ॥
तत्र श्रुतिसमूहानां विभागो धर्मलक्षणः ।
भविष्यति तदा कल्पे कृष्णद्वैपायनो यदा ॥ १४० ॥
॥ सूत उवाच ॥
निशम्यैवं महातेजा महादेवेन कीर्तितम् ।
रुद्रावतारं भगवान् प्रणिपत्य महेश्वरम् ॥ १४१ ॥
तुष्टाव वाग्भिरिष्टाभिः पुनः प्राह च शङ्करम् ।
॥ पितामह उवाच ॥
सर्वे विष्णुमया देवाः सर्वे विष्णुमया गणाः ॥ १४२ ॥
न हि विष्णुसमा काचिद् गतिरन्या विधीयते ।
इत्येवं सततं वेदा गायन्ति नात्र संशयः ॥ १४३ ॥
स देवदेवो भगवांस्तव लिङ्गार्चने रतः ।
तव प्रणामपरमः कथं देवो ह्यभूत् प्रभुः ॥ १४४ ॥
॥ सूत उवाच ॥
निशम्य वचनं तस्य ब्रह्मणः परमेष्ठिनः ।
प्रपिबन्निव चक्षुर्भ्यां प्रीतस्तत्प्रश्नगौरवात् ॥ १४५ ॥
पूजाप्रकरणं तस्मै तमालोक्याह शङ्करः ।
भवान् नारायणश्चैव शक्रः साक्षात् सुरोत्तमः ॥ १४६ ॥
मुनयश्च सदा लिङ्गं सम्पूज्य विधिपूर्वकम् ।
स्वं स्वं पदं विभो प्राप्तास्तस्मात् सम्पूजयन्ति ते ॥ १४७ ॥
लिङ्गार्चनं विना निष्ठा नास्ति तस्माज्जनार्दनः ।
आत्मनो यजते नित्यं श्रद्धया भगवान् प्रभुः ॥ १४८ ॥
इत्येवमुक्त्वा ब्रह्माणमनुगृह्य महेश्वरः ।
पुनः सम्प्रेक्ष्य देवेशं तत्रैवान्तरधीयत ॥ १४९ ॥
तमुद्दिश्य तदा ब्रह्मा नमस्कृत्य कृताञ्जलिः ।
स्रष्टुं त्वशेषं भगवान् लब्ध संज्ञस्तु शङ्करात् ॥ १५० ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे 'विविधव्यासावतारवर्णनं ' नाम चतुर्विंशोऽध्यायः ॥ २४ ॥

 इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीलिङ्गमहापुराण -[पूर्वभाग]-अध्याय-24

कोई टिप्पणी नहीं:

123