लिङ्गपुराणम् द्वाविंशतितमोऽध्यायः
रुद्रोत्पत्तिवर्णनं
॥ सूत उवाच ॥
अत्यन्तावनतौ दृष्ट्वा मधुपिङ्गायतेक्षणः ।
प्रहृष्टवदनोऽत्यर्थमभवत्सत्यकीर्तनात् ॥ १ ॥
उमापतिर्विरूपाक्षो दक्षयज्ञविनाशनः ।
पिनाकी खण्डपरशुः सुप्रीतस्तु त्रिलोचनः ॥ २ ॥
ततः स भगवान् देवः श्रुत्वा वागमृतं तयोः ।
जानन्नपि महादेवः क्रीडापूर्वमथाब्रवीत् ॥ ३ ॥
कौ भवन्तौ महात्मानौ परस्परहितैषिणौ ।
समेतावम्बुजाभक्षावस्मिन् घोरे महाप्लवे ॥ ४ ॥
तावूचतुर्महात्मानौ सन्निरीक्ष्य परस्परम् ।
भगवान् किं तु यत्तेऽद्य न विज्ञानं त्वया विभो ॥ ५ ॥
विभो रुद्र महामाय इच्छया वां कृतौ त्वया ।
तयोस्तद्वचनं श्रुत्वा अभिनन्द्याभिमान्य च ॥ ६ ॥
उवाच भगवान् देवो मधुरं श्लक्ष्णया गिरा ।
भो भो हिरण्यगर्भ त्वां त्वां च कृष्ण ब्रवीम्यहम् ॥ ७ ॥
प्रीतोऽहमनया भक्त्या शाश्वताक्षरयुक्तया ।
भवन्तौ हृदयस्यास्य मम हृद्यतरावुभौ ॥ ८ ॥
युवाभ्यां किं ददाम्यद्य वराणां वरमीप्सितम् ।
अथोवाच महाभागो विष्णुर्भवमिदं वचः ॥ ९ ॥
सर्वं मम कृतं देव परितुष्टोऽसि मे यदि ।
त्वयि मे सुप्रतिष्ठा तु भक्तिर्भवतु शङ्करः ॥ १० ॥
एवमुक्तस्तु विज्ञाय सम्भावयत केशवम् ।
प्रददौ च महादेवो भक्तिं निजपदाम्बुजे ॥ ११ ॥
भवान् सर्वस्य लोकस्य कर्ता त्वमधिदैवतम् ।
तदेवं स्वस्ति ते वत्स गमिष्याम्यंबुजेक्षण ॥ १२ ॥
एवमुक्त्वा तु भगवान् ब्रह्माणं चापि शङ्करः ।
अनुगृह्यास्पृशद्देवो ब्रह्माणं परमेश्वरः ॥ १३ ॥
कराभ्यां सुशुभाभ्यां च प्राह हृष्टतरः स्वयम् ।
मत्समस्त्वं न सन्देहो वत्स भक्तश्च मे भवान् ॥ १४ ॥
स्वस्त्यस्तु ते गमिष्यामि संज्ञा भवतु सुव्रत ।
एवमुक्त्वा तु भगवांस्ततोऽन्तर्धानमीश्वरः ॥ १५ ॥
गतवान् गणपो देवः सर्वदेवनमस्कृतः ।
अवाप्य संज्ञां गोविन्दात् पद्मयोनिः पितामहः ॥ १६ ॥
प्रजाः स्रष्टुमनाश्चक्रे तप उग्रं पितामहः ।
तस्यैवं तप्यमानस्य न किञ्चित् समवर्तत ॥ १७ ॥
ततो दीर्घेण कालेन दुःखात्क्रोधो ह्यजायत ।
क्रोधाविष्टस्य नेत्राभ्यां प्रापतन्नश्रुबिन्दवः ॥ १८ ॥
ततस्तेभ्योऽश्रुबिन्दुभ्यो वातपित्तकफात्मकाः ।
महाभागा महासत्त्वाः स्वस्तिकैरप्यलङ्कृताः ॥ १९ ॥
प्रकीर्णकेशाः सर्पास्ते प्रादुर्भूता महाविषाः ।
सर्पांस्तानग्रजान् दृष्ट्वा ब्रह्मात्मानमनिन्दयत् ॥ २० ॥
अहो धिक् तपसो मह्यं फलमीदृशकं यदि ।
लोकवैनाशिकी जज्ञे आदावेव प्रजा मम ॥ २१ ॥
तस्य तीव्राभवन् मूर्च्छा क्रोधामर्ष समुद्भवा ।
मूर्च्छाभिपरितापेन जहौ प्राणान् प्रजापतिः ॥ २२ ॥
तस्याप्रतिमवीर्यस्य देहात्कारुण्यपूर्वकम् ।
अथैकादश ते रुद्रा रुदन्तोऽभ्यक्रमंस्तथा ॥ २३ ॥
रोदनात् खलु रुद्रत्वं तेषु वै समजायत ।
ये रुद्रास्ते खलु प्राणा ये प्राणास्ते तदात्मकाः ॥ २४ ॥
प्राणाः प्राणवतां ज्ञेयाः सर्वभूतेष्ववस्थिताः ।
अत्युग्रस्य महत्त्वस्य साधुराचरितस्य च ॥ २५ ॥
प्राणांस्तस्य ददौ भूयस्त्रिशूली नीललोहितः ।
लब्ध्वासून् भगवान् ब्रह्म देवदेवमुमापतिम् ॥ २६ ॥
प्रणम्य संस्थितोऽपश्यद् गायत्र्या विश्वमीश्वरम् ।
सर्वलोकमयं देवं दृष्ट्वा स्तुत्वा पितामहः ॥ २७ ॥
ततो विस्मयमापन्नः प्रणिपत्य मुहुर्मुहुः ।
उवाच वचनं शर्वं सद्यादित्वं कथं विभो ॥ २८ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे रुद्रोत्पत्तिवर्णनं
नाम द्वाविंशतितमोऽध्यायः ॥ २२ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें