श्रीलिङ्गमहापुराण -[पूर्वभाग] -025

 श्रीलिङ्गमहापुराण -[पूर्वभाग] -025

॥ श्रीसाम्बसदाशिवाय नमः ॥
पचीसवाँ अध्याय
लिङ्गार्चन विधि के अन्तर्गत शरीर एवं मन की शुद्धि के लिये अन्तः एवं बाह्य स्नान की प्रक्रिया और विविध मन्त्रों से आत्माभिषेचन
श्रीलिङ्गमहापुराणे पूर्वभागे पञ्चविंशोऽध्यायः
स्नानविधि

॥ ऋषय ऊचुः ॥
कथं पूज्यो महादेवो लिङ्गमूर्तिर्महेश्वरः ।
वक्तुमर्हसि चास्माकं रोमहर्षण साम्प्रतम् ॥ १ ॥
॥ सूत उवाच ॥
देव्या पृष्टो महादेवः कैलासे तां नगात्मजाम् ।
अङ्कस्थामाह देवेशो लिङ्गार्चनविधिं क्रमात् ॥ २ ॥


तदा पार्श्वे स्थितो नन्दी शालङ्कायनकात्मजः ।
श्रुत्वाखिलं पुरा प्राह ब्रह्मपुत्राय सुव्रताः ॥ ३ ॥
सनत्कुमाराय शुभं लिङ्गार्चनविधिं परम् ।
तस्माद् व्यासो महातेजाः श्रुतवाञ्छ्रुतिसम्मितम् ॥ ४ ॥
स्नानयोगोपचारं च यथा शैलादिनो मुखात् ।
श्रुतवान् तत्प्रवक्ष्यामि स्नानाद्यं चार्चनाविधिम् ॥ ५ ॥
॥ शैलादिरुवाच ॥
अथ स्नानविधिं वक्ष्ये ब्राह्मणानां हिताय च ।
सर्वपापहरं साक्षाच्छिवेन कथितं पुरा ॥ ६ ॥
अनेन विधिना स्नात्वा सकृत्पूज्य च शङ्करम् ।
ब्रह्मकूर्चं च पीत्वा तु सर्वपापैः प्रमुच्यते ॥ ७ ॥
त्रिविधं स्नानमाख्यातं देवदेवेन शम्भुना ।
हिताय ब्राह्मणाद्यानां चतुर्मुखसुतोत्तम ॥ ८ ॥
वारुणं पुरतः कृत्वा ततश्चाग्नेयमुत्तमम् ।
मन्त्रस्नानं ततः कृत्वा पूजयेत् परमेश्वरम् ॥ ९ ॥
भावदुष्टोऽम्भसि स्नात्वा भस्मना च न शुध्यति ।
भावशुद्धश्चरेच्छौचमन्यथा न समाचरेत् ॥ १० ॥
सरित् सरस्तडागेषु सर्वेष्वा प्रलयं नरः ।
स्नात्वापि भावदुष्टश्चेन्न शुध्यति न संशयः ॥ ११ ॥
नृणां हि चित्तकमलं प्रबुद्धमभवद्यदा ।
प्रसुप्तं तमसा ज्ञान भानोर्भासा तदा शुचिः ॥ १२ ॥
मृच्छकृत्तिलपुष्पं च स्नानार्थं भसितं तथा ।
आदाय तीरे निःक्षिप्य स्नानतीर्थे कुशानि च ॥ १३ ॥
प्रक्षाल्याचम्य पादौ च मलं देहाद्विशोध्य च ।
द्रव्यैस्तु तीरदेशस्थैस्ततः स्नानं समाचरेत् ॥ १४ ॥
उद्धृतासीति मन्त्रेण पुनर्देहं विशोधयेत् ।
मृदादाय ततश्चान्यद्वस्त्रं स्नात्वा ह्यनुल्बणम् ॥ १५ ॥
गन्धद्वारां दुराधर्षामिति मन्त्रेण मन्त्रवित् ।
कपिलागोमयेनैव खस्थेनैव तु लेपयेत् ॥ १६ ॥
पुनः स्नात्वा परित्यज्य तद्वस्त्रं मलिनं ततः ।
शुक्लवस्त्रपरीधानो भूत्वा स्नानं समाचरेत् ॥ १७ ॥
सर्वपापविशुद्ध्यर्थमावाह्य वरुणं तथा ।
सम्पूज्य मनसा देवं ध्यानयज्ञेन वै भवम् ॥ १८ ॥
आचम्य त्रिस्तदा तीर्थे ह्यवगाह्य भवं स्मरन् ।
पुनराचम्य विधिवदभिमन्त्र्य महाजलम् ॥ १९ ॥
अवगाह्य पुनस्तस्मिन् जपेद्वै चाघमर्षणम् ।
तत्तोये भानुसोमाग्नि मण्डलं च स्मरेद्वशी ॥ २० ॥
आचम्य च पुनस्तस्माज्जलादुत्तीर्य मन्त्रवित् ।
प्रविश्य तीर्थमध्ये तु पुनः पुण्यविवृद्धये ॥ २१ ॥
शृङ्गेण पर्णपुटकैः पालाशैः क्षालितैस्तथा ।
सकुशेन सपुष्पेण जलेनैवाभिषेचयेत् ॥ २२ ॥
रुद्रेण पवमानेन त्वरिताख्येन मन्त्रवित् ।
तरत्समन्दीवर्गाद्यैस्तथा शान्तिद्वयेन च ॥ २३ ॥
शान्तिधर्मेण चैकेन पञ्चब्रह्मपवित्रकैः ।
तत्तन्मन्त्राधिदेवानां स्वरूपं च ऋषीन् स्मरन् ॥ २४ ॥
एवं हि चाभिषिच्याथ स्वमूर्ध्नि पयसा द्विजाः ।
ध्यायेच्च त्र्यम्बकं देवं हृदि पञ्चास्यमीश्वरम् ॥ २५ ॥
आचम्याचमनं कुर्यात्स्वसूत्रोक्तं समीक्ष्य च ।
पवित्रहस्तः स्वासीनः शुचौ देशे यथाविधि ॥ २६ ॥
अभ्युक्ष्य सकुशं चापि दक्षिणेन करेण तु ।
पिबेत्प्रक्षिप्य त्रिस्तोयं चक्री भूत्वा ह्यतन्द्रितः ॥ २७ ॥
प्रदक्षिणं ततः कुर्याद्धिंसापापप्रशान्तये ।
एवं सङ्क्षेपतः प्रोक्तं स्नानाचमनमुत्तमम् ॥ २८ ॥
सर्वेषां ब्राह्मणानां तु हितार्थे द्विजसत्तमाः ॥ २९ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे स्नानविधिर्नाम पञ्चविंशोऽध्यायः ॥

 इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीलिङ्गमहापुराण -[पूर्वभाग]-अध्याय-25

कोई टिप्पणी नहीं:

123