श्रीगणेशपुराणे क्रीडाखण्डे द्विचत्वारिंशोऽध्यायः

श्रीगणेशपुराणे क्रीडाखण्डे द्विचत्वारिंशोऽध्यायः
बालचरिते काशीस्थ षटपञ्चाशत् विनायकाः

॥ गृत्समद उवाच ॥

ज्ञात्वा पराक्रमं तस्य वक्रतुण्डस्य दैत्यराट् ।
आययौ धैर्यमालम्ब्य योद्धुमस्त्रैर्गजाननम् ॥ १ ॥
शिवं स्मृत्वा च मन्त्रं च वह्निदैवतमादरात् ।
अभिमन्त्र्य शरं तेन तत्याज स विनायके ॥ २ ॥


अग्निज्वालाभयाद्देवा देवपृष्ठमथागमन् ।
ततो विनायकोऽमुञ्चत् पर्जन्यास्त्रं हि सर्ववित् ॥ ३ ॥
करिशुण्डामिता धाराः प्रादुरासँस्ततः क्षणात् ।
शान्तोऽभूत् तत्क्षणाद्वह्निस्ततो दैत्यो रुषान्वितः ॥ ४ ॥
मारुतास्त्रं शीघ्रजवं वृष्टिवारणमासृजत् ।
च कम्पे धरणी वृक्षा गिरयः पतिता भुवि ॥ ५ ॥
तदस्त्रेण महामेघाः क्षयं नीताः क्षणार्द्धतः ।
पर्वतास्त्रं ततो देव आविश्चक्रे मनोर्बलात् ॥ ६ ॥
सर्वत्र पर्वता जाताः कुण्ठतामगमच्च तत् ।
विलीने मारुतास्त्रे तु रौद्रमस्त्रं ततोऽसृजत् ॥ ७ ॥
तस्मिन्विमुच्यमाने तु वक्रतुण्डोऽप्यवासृजत् ।
ब्रह्मास्त्रं तन्निवृत्त्यर्थमगात्सैन्यं हि भस्मसात् ॥ ८ ॥
परस्परमयुद्ध्येतामस्त्रे ते बहुवासरम् ।
तयोः सङ्घट्टनाद् वह्निर्न्यपतद् धरणीतले ॥ ९ ॥
तेन दग्धान्जनान् ज्ञात्वा केशाभ्यां वारिते शुभे ।
अमात्यानब्रवीदैत्यो ज्ञात्वोत्कृष्टं विनायकम् ॥ १० ॥
तेनाभियुध्यतां सर्वैर्भुक्त्वा यामि पुना रणम् ।
ततोऽमात्याः सर्वसैन्यैर्विनायकमयोधयन् ॥ ११ ॥
विनायको गतश्चिन्तामेकाकित्वात् ततः क्षणात् ।
षट्पञ्चाशन्मिता मूर्तीश्चकारासौ स्वतेजसा ॥ १२ ॥
नानालङ्कारसंयुक्ता नानामालाविभूषिताः ।
सर्वे दिव्याङ्गदाङ्गास्ते सर्वे शशिविभूषणाः ॥ १३ ॥
केचिच्चतुर्भुजाः केचित्षड्भुजा दशहस्तकाः ।
सिंहारूढा बर्हिगताः केचिन्मूषकवाहनाः ॥ १४ ॥
सर्वे च युयुधुस्तत्र दारयन्तोऽरिसैनिकान् ।
केषाञ्चित्त्रोटिताः पादाः केषाञ्चिन्मस्तका अपि ॥ १५ ॥
केषाञ्चिद् बाहवो भिन्ना जानुजङ्घोदराणि च ।
हुङ्कारेणैव गर्जन्तः केचिच्च शरणं ययुः ॥ १६ ॥
केचित् पलायनपरा ययुर्जीवनहेतवे ।
केचित्प्रहारं कुर्वन्तो मम्रुः सम्मुखमेव च ॥ १७ ॥
ते तु स्वर्गं गता भेजुर्भोगानप्सरसोऽपि च ।
वाजिनश्च रथा नागा वाम्य उष्ट्रान्यनेकशः ॥ १८ ॥
नानाशस्त्राहताः पेतु खण्डदेहा गतासवः ।
असृङ्नद्यः प्रादुरासन् केशशैवलशोभिताः ॥ १९ ॥
आच्छूरिकासिमत्स्येभनक्रैः खेटककच्छपैः ।
रुण्डाब्जैश्च वसाफेनैर्मेदकर्दमसञ्चयैः ॥ २० ॥
चापशस्त्रैरस्थिबकैश्चर्मपेशीसुदर्दुरैः ।
भल्लकाद्यैः शुशुभिरे मनस्विहृदयप्रियाः ॥ २ ॥
भुक्त्वागत्य ददर्शाथ सर्वं तद्रणमण्डलम् ।
सर्वस्मिन्निहते सैन्ये ततो दैत्योऽतिदुःखितः ॥ २२ ॥
संस्मार मनसा वाक्यं यदुक्तं शूलपाणिना ।
वरदानस्य समये जयस्ते शक्तिसम्भवात् ॥ २३ ॥
अयमेव भवेत् किं नु बालकः शक्तिसम्भवः ।
यदुत्कटं बलं दृष्टमस्मिन् त्रैलोक्यसारभृत् ॥ २४ ॥
कालोऽपि नैवं विजयेत् तत्र चान्यस्य का कथा ।
एवं मनसि कृत्वा स एकाकित्वात् पपाल च ॥ २५ ॥
वक्रतुण्डो गतश्चिन्तां न हन्तव्यो रिपुः पलन् ।
देवेभ्यो न मृतिश्चास्य यथाऽयं शङ्करोऽब्रवीत् ॥ २६ ॥
तस्माद्योगात्समास्थास्ये वैराटं रूपमुत्तमम् ।
ततो वैराटरूपेण स दधार करेण तम् ॥ २७ ॥
एकपादेन तस्थौ स काशीं तां रक्षितुं बलात् ।
एकं पादं तु दैत्यस्य दधार मस्तके ततः ॥ २८ ॥
उवाच दैत्यं रे दैत्य वराच्छैवान्न ते मृतिः ।
अतोऽस्मिन्नगरे तिष्ठ पर्वतेव सुनिश्चलः ॥ २९ ॥
द्वारभूतः पुरस्यास्य यतः पूर्वं दृशिस्तव ।
दुष्टानां पीडको नित्यं नित्यं मे सन्निधिस्तव ॥ ३० ॥
दैत्योऽपि परया भक्त्या तमेव वरमर्थयत् ।
॥ दैत्य उवाच ॥
एवमेव सदा तिष्ठ स्थाप्य पादं मयिस्थिरम् ॥ ३१ ॥
॥ मुनिरुवाच ॥
तथेति तमुवाचाथ स्थितः काश्यां विनायकः ।
एवं दुरासदं जित्वा चकार पृथिवीं शिवाम् ॥ ३२ ॥
तस्मिन्कृत्वा पुष्पवृष्टिं प्रणम्य सम्प्रपूज्य च ।
स्वस्वस्थानं गता देवा मुनयः स्वाश्रमानपि ॥ ३३ ॥
अन्ये ये ये तमर्चन्ति पूर्णकामा भवन्ति ते ।
एवं विनायकस्याथ काश्यां षट्पञ्चमूर्तयः ॥ ३४ ॥
तुण्डनाख्ये पुरे चापि एकपादविनायकः ।
संहृत्य च विराट् रूपं सर्वकामप्रदः स्थितः ॥ ३५ ॥
य इदं वरमाख्यानं शृणुयाद् भक्तिमान्नरः ।
सर्वान् कामानवाप्नोति गाणेशं पदमेति च ।
सर्वत्र जयमाप्नोति पुष्टिमारोग्यमेव च ॥ ३६ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते दुरासदजयो नाम द्विचत्वारिंशोऽध्यायः ॥ ४२ ॥

 इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-क्रीडाखण्डे-खण्ड-अध्याय-42

कोई टिप्पणी नहीं:

123