श्रीगणेशपुराणे उपासनाखण्डे सप्ततितमोऽध्यायः

श्रीगणेशपुराणे उपासनाखण्डे सप्ततितमोऽध्यायः
चतुर्थी व्रतोपाख्यानं कृतवीर्य

॥ राजोवाच ॥

व्रतं पुरा कृतं केन भुवि केन प्रकाशितम् ।
किं पुण्यं किं फलं चास्य करुणाद् वद मे प्रभो ॥ १ ॥
॥ ब्रह्मोवाच ॥
पुरा स्कन्दे गते चैव पार्वत्यैव कृतं व्रतम् ।
चतुर्ष्वपि च मासेषु शिववाक्येन पार्थिव ॥ २ ॥

श्रीगणेशपुराणे उपासनाखण्डे एकोनसप्ततितमोऽध्यायः

श्रीगणेशपुराणे उपासनाखण्डे एकोनसप्ततितमोऽध्यायः
सङ्कष्टचतुर्थीव्रतस्य साङ्गोपाङ्गमहिमा

॥ शूरसेन उवाच ॥

ब्रह्मणा कथमादिष्टं कृतवीर्याय सिद्धिदम् ।
तन्ममाचक्ष्व सङ्कष्ट चतुर्थी व्रतमुत्तमम् ॥ १ ॥
॥ इन्द्र उवाच ॥
सत्यलोके सुखासीनं सर्वज्ञं चतुराननम् ।
कृतवीर्यपिता गत्वा पप्रच्छ प्रणतो नृपः ॥ २ ॥

श्रीगणेशपुराणे उपासनाखण्डे अष्टषष्टितमोऽध्यायः

श्रीगणेशपुराणे उपासनाखण्डे अष्टषष्टितमोऽध्यायः
व्रतनिरूपणं

॥ शूरसेन उवाच ॥

अन्यां कथय शक्र त्वं गणनाथकथां पुनः ।
कृतवीर्यस्य जनकः किं चकार ततः परम् ॥ १ ॥
॥ इन्द्र उवाच ॥
श्रुत्वाऽख्यानं तु सङ्कष्टचतुर्थ्यां राजसत्तमः ।
दूर्वाख्यानं तु संश्रुत्वा चिन्ताविष्टो नृपोऽभवत् ॥ २ ॥

श्रीगणेशपुराणे उपासनाखण्डे सप्तषष्टितमोऽध्यायः

श्रीगणेशपुराणे उपासनाखण्डे सप्तषष्टितमोऽध्यायः
एकस्यापि दूर्वाङ्कुरस्य कौण्डिन्यपत्न्यै आश्रयप्रदाने सामर्थ्यम्

॥ गणा ऊचुः ॥
आज्ञप्ता तेन मुनिना स्वाभिप्रेतार्थसिद्धये ।
एक दूर्वाङ्कुरं गृह्य शक्रसन्निधिमाययौ ॥ १ ॥
तमुवाचाऽऽश्रया शक्र ! देहि मे काञ्चनं शुभम् ।
याचितुं त्वां समायाता भर्तृवाक्यात् सुरेश्वर ॥ २ ॥

श्रीगणेशपुराणे उपासनाखण्डे षट्षष्टितमोऽध्यायः

श्रीगणेशपुराणे उपासनाखण्डे षट्षष्टितमोऽध्यायः
विरोचना त्रिशिराभ्यां प्रदत्तयार्वया गजाननस्य तृप्तिः

॥ कौण्डिन्य उवाच ॥

धरामात्रासनौ तौ तु नभः प्रावारसंयुतैः ।
दिगम्बरो सर्वधातुसंस्पर्शवर्जितावुभौ ॥ १ ॥
अयाचितभुजौ नित्यं जलेनैवाखिलाः क्रियाः ।
द्विजरूपधरोऽपश्यत् कुर्वाणौ सत्त्वशुद्धये ॥ २ ॥

श्रीगणेशपुराणे उपासनाखण्डे पञ्चषष्टितमोऽध्यायः

श्रीगणेशपुराणे उपासनाखण्डे पञ्चषष्टितमोऽध्यायः
राजा जनकस्य सत्वहरणम्

॥ कौण्डिन्य उवाच ॥

कस्मिंश्चित्समये देवि सुखासिनं गजाननम् ।
नारदो मुनिरभ्यागाद् द्रष्टुं तं बहुवासरैः ॥ १ ॥
साष्टाङ्गं प्रणिपत्यैनं प्राहनः सार्थकं जनुः ।
यत् पुण्यनिचयैर्जातं दर्शनं ते गजानन ॥ २ ॥

श्रीगणेशपुराणे उपासनाखण्डे चतुःषष्टितमोऽध्यायः

श्रीगणेशपुराणे उपासनाखण्डे चतुःषष्टितमोऽध्यायः
दूर्वामाहात्म्य वर्णनं

॥ आश्रयोवाच ॥

देवर्षिषु प्रयातेषु बाले चाचलवत् स्थिते ।
किमासीत् कौतुकं तत्र बाल कालानलोद्भवम् ॥ १ ॥
तत्सर्वं विस्तरान्मह्यं कथयाशु महामुने ।
॥ नारद उवाच ॥
एवं तया कृतः प्रश्नः कौण्डिन्यो मुनिसत्तमः ॥ २ ॥
यदब्रवीच्छचीभर्तस्तत्त्वं शृणुमयोदितम् ।

श्रीगणेशपुराणे उपासनाखण्डे त्रिषष्टितमोऽध्यायः

 श्रीगणेशपुराणे उपासनाखण्डे त्रिषष्टितमोऽध्यायः

दुर्वामाहात्म्ये
॥ गणा ऊचुः ॥

श‍ृणुध्वं योगिनः सर्वे स्थिरीकृत्य मनश्चलम् ।
यन्न शेषो भवेद् वक्तुं समर्थश्चतुराननः ॥ १ ॥
तद् वक्तुं कः समर्थः स्याद् यथाशक्ति वदाम च ।
कुर्वन्ति स्तवनं यस्य सर्वदाऽजशिवादयः ॥ २ ॥

श्रीगणेशपुराणे उपासनाखण्डे द्विषष्टितमोऽध्यायः

श्रीगणेशपुराणे उपासनाखण्डे द्विषष्टितमोऽध्यायः
दूर्वोपाख्यानं

॥ कृतवीर्यपिता उवाच ॥

चतुर्थ्यां कृष्णपक्षे तु भुक्तिश्चन्द्रोदये यतः ।
क्रियते तन्निमित्तं यत्पृष्टं तन्मे निरूपितम् ॥ १ ॥
दुर्वाङ्कुरार्पणस्यापि श्रोतुमिच्छामि कारणम् ।
किमर्थं गणानाथस्य प्रिया दूर्वाङ्कुरा वद ॥ २ ॥

श्रीगणेशपुराणे उपासनाखण्डे एकषष्ठितमोऽध्यायः

श्रीगणेशपुराणे उपासनाखण्डे एकषष्ठितमोऽध्यायः
चन्द्रशापानुग्रहवर्णनं

॥ ब्रह्मोवाच ॥

एकदाऽहं गतो राजन् कैलासं गिरिशालयम् ।
उपविष्टः सभामध्येऽपश्यन्नारदमागतम् ॥ १ ॥
तनाऽपूर्वं फलं चैक शङ्कराय निवेदितम् ।
ययाचे गणपस्तत्तु कुमारोऽपि च शम्भवे ॥ २ ॥

श्रीगणेशपुराणे उपासनाखण्डे षष्टितमोऽध्यायः

श्रीगणेशपुराणे उपासनाखण्डे षष्टितमोऽध्यायः

अङ्गारक चतुर्थी व्रतोपाख्यान
॥ ब्रह्मोवाच ॥

अङ्गारकचतुर्थ्यास्तु महिमानं महीपते ।
शृणुष्वावहितो भूत्वा कथयामि समासतः ॥ १ ॥
अवन्तीनगरे राजन् भारद्वाजो महामुनि ।
वेदवेदाङ्गवित् प्राज्ञः सर्वशास्त्रविशारदः ॥ २ ॥

श्रीगणेशपुराणे उपासनाखण्डे एकोनषष्टितमोऽध्यायः

श्रीगणेशपुराणे उपासनाखण्डे एकोनषष्टितमोऽध्यायः
चतुर्थीव्रतकथनं

॥ राजोवाच ॥

कुम्भीपाकाद् विनिःसृत्य तेषु यातेषु वै दिवम् ।
कमुपायं स कृतवान् कृतवीर्यपिता तदा ॥ १ ॥

श्रीगणेशपुराणे उपासनाखण्डे अष्टपञ्चाशत्तमोऽध्यायः

श्रीगणेशपुराणे उपासनाखण्डे अष्टपञ्चाशत्तमोऽध्यायः
सङ्कष्ट चतुर्थी व्रत कथनं

॥ ब्रह्मोवाच ॥

एवं श्रुत्वा शूरसेनो मरुत्वद्वाक्यमुत्तमम् ।
पुनः पप्रच्छ तं व्यास प्रीतः श्रुत्वा कथामृतम् ॥ १ ॥
॥ शूरसेन उवाच ॥
केनोपायेन देवेशं यानं ते गगनं व्रजेत् ।
तमुपायं कुरु विभो वद वा किं करोमि ते ॥ २ ॥

श्रीगणेशपुराणे उपासनाखण्डे सप्तपञ्चाशत्तमोऽध्यायः

श्रीगणेशपुराणे उपासनाखण्डे सप्तपञ्चाशत्तमोऽध्यायः
भ्रुशुण्ड्युपाख्यानं

॥ शक्र उवाच ॥

हन्त ते कथयिष्यामि कथामेकां पुरातनीम् ।
यथा तेनाऽऽपि सादृश्यं गणनाथस्य भक्तितः ॥ १ ॥
दण्डकारण्य देशेषु नगरे नन्दुराभिधे ।
एकः कैवर्तको दुष्टो नाम्ना नामैव विश्रुतः ॥ २ ॥

श्रीगणेशपुराणे उपासनाखण्डे षट्पञ्चाशत्तमोऽध्यायः

श्रीगणेशपुराणे उपासनाखण्डे षट्पञ्चाशत्तमोऽध्यायः
इन्द्रविमानपतनं

॥ भृगुरुवाच ॥

एवं ते कथितं राजन् माहात्म्यं सकलं मया ।
पुनश्च शृणु व्यासेन यच्छ्रुतं ब्रह्मणो मुखात् ॥ १ ॥
॥ सोमकान्त उवाच ॥
कथं श्रुतं ब्रह्ममुखाद्व्यासेनामितबुद्धिना ।
न तृप्तिमधिगच्छामि तन्मे वद महामुने ॥ २ ॥

श्रीगणेशपुराणे उपासनाखण्डे पञ्चपञ्चाशत्तमोऽध्यायः

श्रीगणेशपुराणे उपासनाखण्डे पञ्चपञ्चाशत्तमोऽध्यायः
शिवपार्वती संयोग

॥ हिमवानुवाच ॥

समाप्ते तु व्रते तस्या गणेशस्य प्रसादतः ।
पाताले नागकन्यानामन्यथाऽभून्मतिस्तदा ॥ १ ॥
मोचयामास राजानं पुपूजश्च यथाविधि ।
वस्त्रैराभरणैश्चैव नानारत्नमहाधनैः ॥ २ ॥

श्रीगणेशपुराणे उपासनाखण्डे चतुःपञ्चाशत्तमोऽध्यायः

श्रीगणेशपुराणे उपासनाखण्डे चतुःपञ्चाशत्तमोऽध्यायः
इन्दुमती नारद संवादं

॥ पार्वत्युवाच ॥

तस्यां तु मूर्च्छितायां तु किमकुर्वन् जनास्तदा ।
तन्मे विस्तरतो ब्रूहि हृदयानन्दनं पितः ॥ १ ॥
॥ हिमवानुवाच ॥
तदा सर्वे नागरिका नानावाक्यविशारदाः ।
प्रमृज्य स्वानि चाश्रूणि समादध्युर्नृपस्त्रियम् ॥ २ ॥

श्रीगणेशपुराणे उपासनाखण्डे त्रिपञ्चाशत्तमोऽध्यायः

श्रीगणेशपुराणे उपासनाखण्डे त्रिपञ्चाशत्तमोऽध्यायः
चन्द्राङ्गदोपाख्याने

॥ हिमवानुवाच ॥

इदानीं कथयिष्यामि राज्ञा चन्द्राङ्गदेन च ।
तत्त्पत्न्या च कृतं ह्येतदिन्दुमत्या शुभानने ॥ १ ॥
मालवे विषये ख्यातं नगरं कर्णनामकम् ।
तत्र चन्द्राङ्गदो राजा बभूवातिपराक्रमी ॥ २ ॥

श्रीगणेशपुराणे उपासनाखण्डे द्विपञ्चाशत्तमोऽध्यायः

श्रीगणेशपुराणे उपासनाखण्डे द्विपञ्चाशत्तमोऽध्यायः
नलव्रत निरुपणं

॥ पार्वत्युवाच ॥
नलेनेदं कृतं कस्मात् को नलो वद मे पितः ।
मनोविश्रान्तिमायाति शृण्वन्त्या मे कथानकम् ॥ १ ॥

श्रीगणेशपुराणे उपासनाखण्डे एकपञ्चाशत्तमोऽध्यायः

श्रीगणेशपुराणे उपासनाखण्डे एकपञ्चाशत्तमोऽध्यायः
हिमवत् पार्वती संवाद

॥ पार्वत्युवाच ॥

तव वाक्यामृतेनाऽहं पितः प्रीताऽस्मि साम्प्रतम् ।
परन्तु संशयो मेऽस्ति तं नुदस्व हिमालय ॥ १ ॥
केन केन कृतं पूर्वं व्रतमेतन् महीधरः ।
आख्यातं केन वा कस्मै कः कां सिद्धिमितोऽगमत् ॥ २ ॥

श्रीगणेशपुराणे उपासनाखण्डे एकोनपञ्चाशत्तमोऽध्यायः

 

श्रीगणेशपुराणे उपासनाखण्डे एकोनपञ्चाशत्तमोऽध्यायः
गणेश पार्थिवपूजा निरूपणं

॥ पार्वत्युवाच ॥

दयानिधे गिरीन्द्र त्वं पितर्मे वद सत्वरम् ।
उपासनां गणेशस्य सर्वेशस्य जगद्गुरोः ॥ १ ॥
यया शिवं समभ्येत्य शिवं प्राप्स्यामि शाश्वतम् ।
मर्त्यलोकेऽपि लोकानामुपकारो भविष्यति ॥ २ ॥

श्रीगणेशपुराणे उपासनाखण्डे पञ्चाशत्तमोऽध्यायः

 

श्रीगणेशपुराणे उपासनाखण्डे पञ्चाशत्तमोऽध्यायः
हिमवद्गिरिजा संवादे चतुर्थीव्रत कथनं

॥ पार्वत्युवाच ॥

अहं मन्त्रे न जानामि गिरीन्द्र मे वद स्वयम् ।
अनुग्रहं गणेशस्य यामि यामि शिवं शिवम् ॥ १ ॥
॥ हिमावानुवाच ॥
मन्त्रा नानाविधा देवि नानासिद्धि प्रदायकाः ।
असङ्ख्याता गणेशस्य कांश्चित् तेषु वदामि ते ॥ २ ॥

श्रीगणेशपुराणे उपासनाखण्डे अष्टचत्वारिंशत्तमोऽध्यायः

 श्रीगणेशपुराणे उपासनाखण्डे अष्टचत्वारिंशत्तमोऽध्यायः

अम्बाविर्भावः
॥ व्यास उवाच ॥

श्रुतं मया महाख्यानं त्रिपुरस्य वधाश्रयम् ।
तथापि श्रोतुमिच्छामि क्व स्थिता जगदम्बिका ॥ १ ॥
कथमाविर्बभूवैषा तिथौ दग्धः क्व दैत्यराट् ।
एतत्सर्वं सविस्तारं कथयस्व पितामह ॥ २ ॥

श्रीगणेशपुराणे उपासनाखण्डे सप्तचत्वारिंशत्तमोऽध्यायः

 

श्रीगणेशपुराणे उपासनाखण्डे सप्तचत्वारिंशत्तमोऽध्यायः
शिवविजयः

॥ व्यास उवाच ॥

नाम्नां सहस्रे सम्प्राप्ते प्रसन्ने च गजानने ।
ततः किमकरोत् ब्रह्मन् हरस्तत् कथयस्व मे ॥ १ ॥

श्रीगणेशपुराणे उपासनाखण्डे षट्चत्वारिंशोऽध्यायः

 श्रीगणेशपुराणे उपासनाखण्डे षट्चत्वारिंशोऽध्यायः

 श्रीमद्गणेशदिव्यसहस्रनामामृतस्तोत्रकथनन्नाम
 ॥ व्यास उवाच ॥
 कथं नाम्नां सहस्रं तद् गणेश उपदिष्टवान् ।
 शिवायैतन्ममाचक्ष्व लोकानुग्रह तत्पर ॥ १ ॥
 ॥ ब्रह्मोवाच ॥
 देवः एवं पुरारातिः पुरत्रयजयोद्यमे ।
 अनर्चनाद्गणेशस्य जातो विघ्नाकुलः किल ॥ २ ॥

श्रीगणेशपुराणे उपासनाखण्डे पञ्चचत्वारिंशोऽध्यायः

 

श्रीगणेशपुराणे उपासनाखण्डे पञ्चचत्वारिंशोऽध्यायः
शिवस्य वरदानं

॥ मुनिरुवाच ॥

ततः प्रसन्ने विघ्नेशे देवेशे विघ्नहारिणि ।
वरान् दित्सति शर्वाय किं किं वव्रे सदाशिवः ॥ १ ॥
॥ ब्रह्मोवाच ॥
गणेशवचनं श्रुत्वा शिवोवाक्यमथाऽब्रवीत् ।
स्मृत्वा गजाननं तं तु स्वस्वरूपं वरप्रदम् ॥ २ ॥

श्रीगणेशपुराणे उपासनाखण्डे चतुश्चत्वारिंशोऽध्यायः

 

श्रीगणेशपुराणे उपासनाखण्डे चतुश्चत्वारिंशोऽध्यायः
शङ्करेण तपः, गजाननेन दर्शनम्, शङ्करेण वरप्राप्तिः

॥ व्यास उवाच ॥

ततः किमकरोच्छम्भुः त्रिपुरेण पराजितः ।
कथं तमजयद्दैत्यं त्रिपुरं जयशालिनम् ॥ १ ॥
॥ ब्रह्मोवाच ॥
ततः शम्भुः परां चिन्तामापेदे मनसा स कृत् ।
स्वाहास्वधाविहीनं तु भूतलं परिचिन्तयन् ॥ २ ॥

श्रीगणेशपुराणे उपासनाखण्डे त्रिचत्वारिंशत्तमोऽध्यायः

 

श्रीगणेशपुराणे उपासनाखण्डे त्रिचत्वारिंशत्तमोऽध्यायः
शङ्करस्य पराजय, पार्वत्याश्च हिमालयसमीप गमनं

॥ ब्रह्मोवाच ॥

अयुध्येतां द्वन्द्वशोऽथ गिरिशासुर नायकौ ।
षण्मुखेन प्रचण्डश्च नन्दिना चण्ड एव च ॥ १ ॥
युयुधे पुष्पदन्तोऽपि भीमकायेन वीर्यवान् ।
भृशुण्डी कालकूटेन विषवत्प्राणहारिणा ॥ २ ॥
अयुध्येतां वीरभद्र वज्रदंष्ट्रौ महाबलौ ।
इन्द्रोऽपि युयुधे तत्र दैत्यामात्येन वीर्यवान् ॥ ३ ॥

श्रीगणेशपुराणे उपासनाखण्डे द्विचत्वारिंशत्तमोऽध्यायः

 

श्रीगणेशपुराणे उपासनाखण्डे द्विचत्वारिंशत्तमोऽध्यायः
शङ्करत्रिपुरयोर्युद्धम्

॥ व्यास उवाच ॥

कृतवान् किमु दैत्यः स गते तास्मिन् कलाधरे ।
कथमानीय दत्ताऽस्मै मूर्तिश्चिन्तामणेः शुभा ॥ १ ॥
एतत्कथय मे सर्वं विस्तार्य चतुरानन ।
लीला गजाननीः शृण्वन् न तृप्यामि समासतः ॥ २ ॥

श्रीगणेशपुराणे उपासनाखण्डे एकचत्वारिंशत्तमोऽध्यायः

 

श्रीगणेशपुराणे उपासनाखण्डे एकचत्वारिंशत्तमोऽध्यायः
गजाननेन ब्राह्मणरूपेण त्रिपुरं पुरतः समर्पणम्

॥ व्यास उवाच ॥

वरदेन गणेशेन प्रभुणा सर्वकारिणा ।
किं कृतं तन्ममाचक्ष्व पृच्छते चतुरानन ॥ १ ॥
॥ ब्रह्मोवाच ॥
ततो गजाननो विप्ररूपेण त्रिपुरं ययौ ।
महार्हासनसंविष्टं ददर्श द्विजसत्तमः ॥ २ ॥

श्रीगणेशपुराणे उपासनाखण्डे चत्वारिंशोऽध्यायः

 

श्रीगणेशपुराणे उपासनाखण्डे चत्वारिंशोऽध्यायः
स्तोत्र निरूपणं

॥ ब्रह्मोवाच ॥

आक्रम्य देवधिष्ण्यानि दैत्योऽगाद् ब्रह्मणः पदम् ।
पराक्रमं दैत्यकृतं श्रुत्वा देव मुखात् पुरा ॥ १ ॥
ब्रह्मा ययौ नाभिपद्मं विष्णुः क्षीरनिधिं ययौ ।
दैत्यस्य मानसौ पुत्रौ प्रचण्डश्चण्ड एव च ॥ २ ॥
प्रचण्डं स्थापयामास ब्रह्मलोकेऽधिनायकम् ।
ततश्चण्डं च वैकुण्ठे चकार स्वामिनं स्वयम् ॥ ३ ॥

श्रीगणेशपुराणे उपासनाखण्डे एकोनचत्वारिंशोऽध्यायः

 

श्रीगणेशपुराणे उपासनाखण्डे एकोनचत्वारिंशोऽध्यायः
इन्द्रपराजयः

॥ व्यास उवाच ॥

ततः किमकरोद् ब्रह्मं त्रिपुरो वरदर्पितः ।
तत्सर्वं कौतुकं मह्यं वक्तुमर्हस्यशेषतः ॥ १ ॥
॥ ब्रह्मोवाच ॥
ततः काश्मीरपाषाणभवां मूर्तिं गजाननीम् ।
स्थापयामास विधिवद् ब्रह्मणैर्मन्त्रकौविदैः ॥ २ ॥

श्रीगणेशपुराणे उपासनाखण्डे अष्टत्रिंशत्तमोऽध्यायः

 

श्रीगणेशपुराणे उपासनाखण्डे अष्टत्रिंशत्तमोऽध्यायः
वरप्रदानं

॥ व्यास उवाच ॥

ततो गृत्समदस्यासीत् कथं वृत्तिः सुरेश्वर ।
तन्ममाचक्ष्व यत्नेन श्रद्दधानस्य पद्मज ॥ १ ॥
॥ ब्रहोवाच ॥
ततः सर्वे मुनिगणा मानयामासुरादरात् ।
ब्रह्मन् मुनिवरश्रेष्ठं नेमुर्गृत्समदं च तम् ॥ २ ॥

श्रीगणेशपुराणे उपासनाखण्डे सप्तत्रिंशत्तमोऽध्यायः

 

श्रीगणेशपुराणे उपासनाखण्डे सप्तत्रिंशत्तमोऽध्यायः
वरदाख्यानं

॥ ब्रह्मोवाचः ॥

भ्रमन्मुनिर्ददर्शाग्रे वनं पुष्पकसंज्ञितम् ।
नानाद्रुमलताकीर्णं पुष्पप्रकारशोभितम् ॥ १ ॥
शोभितं निर्झरजलैर्निर्जरैर्मुनिसत्तमैः ।
ननाम तान् गृत्समदो न्यवसच्च तदाज्ञया ॥ २ ॥
तत्र स्नात्वा जपं चक्रे पादाङ्गुष्ठाग्रनिर्भरः(धिष्ठितः) ।
स्थिरेण मनसा ध्यायन् देवं विघ्नेश्वरं विभुम् ॥ ३ ॥

श्रीगणेशपुराणे उपासनाखण्डे षट्त्रिंशत्तमोऽध्यायः

 

श्रीगणेशपुराणे उपासनाखण्डे षट्त्रिंशत्तमोऽध्यायः
गृत्समदोपाख्यानं

॥ व्यास उवाच ॥
श्रुतं गणेशतीर्थस्य माहात्म्य कमलासन ।
रूक्माङ्गदस्य चरितं कौण्डिन्य पुरवासिनाम् ॥ १ ॥
तथापि ब्रूहि मे ब्रह्मन् मुकुन्दाचरितं शुभम् ।

श्रीगणेशपुराणे उपासनाखण्डे पञ्चत्रिशत्तमोऽध्यायः

 

श्रीगणेशपुराणे उपासनाखण्डे पञ्चत्रिशत्तमोऽध्यायः
कादम्बपुर गत वर्णनं

॥ व्यास उवाच ॥

देवर्षौ तु गते तस्मिन्नृपः किमकरोत् तदा ।
रूक्माङ्गदो मे कथय कथामेतां मनोरमाम् ॥ १ ॥

श्रीगणेशपुराणे उपासनाखण्डे चतुस्त्रिंशोऽध्यायः

 

श्रीगणेशपुराणे उपासनाखण्डे चतुस्त्रिंशोऽध्यायः
चिन्तामणितीर्थ वर्णनं

॥ नारद उवाच ॥

कदम्बवृक्षस्य तले निधाय नासाग्रदृष्टिं परमासने सः ।
मनो निरूध्याऽथ जजाप मन्त्रं षडक्षरं जम्भरिपुर्नरेन्द्र ॥ १ ॥
सहस्रवर्षाणि गतानि तस्य मरूत्पतेर्मारुतभक्षणस्य ।
वल्मीकगुल्मानि शरीरदेशे जातानि वै भूधरवत् स्थिरस्य ॥ २ ॥
ततः प्रसन्नो भगवान् गणेशो यः सर्वगः सर्वविदुग्रतेजाः ।
स्वतेजसा वह्निशशीनतेजांस्याच्छादयन् सर्व विलोचनानि ॥ ३ ॥

श्रीगणेशपुराणे उपासनाखण्डे त्रयस्त्रिशतितमोऽध्यायः

 

श्रीगणेशपुराणे उपासनाखण्डे त्रयस्त्रिशतितमोऽध्यायः
षडक्षरमन्त्र प्रभावात् इन्द्रस्य दिव्यदेहधारणमं

॥ नारद उवाच ॥

ऊचुर्देवा वृत्रहणं बहिर्याहि शतक्रतो ।
वयं हि सहितास्तत्र नारदेन सुरर्षिणा ॥ १ ॥
तं गत्वा गौतममुनिं प्रसाद्य त्वामिहागताः ।
उपायस्तेन कथितो वरोदत्तस्तवापि च ॥ २ ॥
दोषे जाते स्वयं सन्तः ख्यापयन्ति जनेषु तम् ।
तत्र प्रतिविधिं सम्यक् कुर्वन्ति तन्निरर्थकम् ॥ ३ ॥

श्रीगणेशपुराणे उपासनाखण्डे द्वात्रिंशोऽध्यायः

 

श्रीगणेशपुराणे उपासनाखण्डे द्वात्रिंशोऽध्यायः

मन्त्रकथनं
॥ नारद उवाच ॥
शक्रे तु नलिनीं याते तत्पुरं त्वहमागतः ।
बृहस्पति पुरोगांस्तांस्तत्रापश्यं स्थितान् सुरान् ॥ १ ॥
तेभ्यो ह्यकथयं सर्वमुभयोः शापकारणम् ।
अहल्याया महेन्द्रस्य संयोगं च विरूपताम् ॥ २ ॥
सहस्रभगतां यातः शक्रो गौतमशापतः ।
अहल्याधर्षणाद् देवास्तत्सङ्गात् सा शिलाऽभवत् ॥ ३ ॥

श्रीगणेशपुराणे उपासनाखण्डे एकत्रिंशतितमोऽध्यायः

 

श्रीगणेशपुराणे उपासनाखण्डे एकत्रिंशतितमोऽध्यायः

शक्रशापवर्णनं
॥ रुक्माङ्गद उवाच ॥
आगते गौतमे को वा वृत्तान्तोऽभून्महामुने ।
वद मे सकलं तं तु जिज्ञासा महती मम ॥ १ ॥
॥ नारद उवाच ॥
नित्यकर्म समाप्यैव स्वाश्रमं गौतमो ययौ ।
आकार्य निजपत्नीं तां देहि पादोदकं मम ॥ २ ॥
किमर्थ नागताऽद्य त्वं सम्मुखं मम पूर्ववत् ।
नानीतमासनं कस्मात्कथं चारु न भाषसे ॥ ३ ॥

123

------------------------------
------------------------------ Related Posts Plugin for WordPress, Blogger...