श्रीगणेशपुराणम् उपासनाखण्डम् प्रथमोऽध्यायः
सोमकान्त वर्णननाम
ॐ नमस्तस्मै गणेशाय
ब्रह्मविद्याप्रदायिने ।
यस्यागस्त्यायते नाम विघ्नसागरशोषणे ॥
॥ ऋषय ऊचुः ॥
सूत सूत महाप्राज्ञ ! वेदशास्त्रविशारद ! ।
सर्वविद्यानिधे त्वत्तो वक्ताऽन्यो नोपलभ्यते ॥ १ ॥
जन्मजन्मान्तरीयं नः स्थितं पुण्यं महत्तरम् ।
तेन सन्दर्शनं जातं सर्वज्ञस्य सतस्तव ॥ २ ॥
वयं धन्यतमा लोके जीवितं नः सुजीवितम् ।
पितरो वेदशास्त्राणि तपांस्याश्रम एव च ॥ ३ ॥
अष्टादशपुराणानि विस्तराच्छ्रावितानि नः ।
अन्यान्यपि हिनः श्रोतुमिच्छास्ति द्विजसत्तम ॥ ४ ॥
शौनकेये महासत्रे सक्ता द्वादशवार्षिके ।
त्वत्कथामृतपानान्नो नान्यद्विश्रामकारणम् ॥ ५ ॥
![]() |
॥ सूत उवाच ॥
साधु पृष्टं महाभागा भवद्भिः पुण्यकर्मभिः ।
साधूनां समचित्तानां मतिर्लोकोपकारिणी ॥ ६ ॥
ममापि परितोषोऽस्ति कथानां कथने द्विजाः ।
अतोऽहं साधुवृत्तेभ्यः कथयिष्ये विशेषतः ॥ ७ ॥
अन्यान्युपपुराणानि वर्ततेऽष्टादशैव च ।
गाणेशं नारदीयं च नृसिंहादिन्यथापि च ॥ ८ ॥
गणेशस्य पुराणं यत्तत्रादौ कथयाम्यहम् ।
दुर्लभं श्रवणं यस्य मर्त्यलोके विशेषतः ॥ ९ ॥
यस्य स्मरणमात्रेण कृतकृत्यो भवेन्नरः ।
प्रभावमस्य गदितुं नेशः शेषश्चतुर्मुखः ॥ १० ॥
सङ्क्षेपतो ब्रवीम्येतत्तथापि भवदाज्ञया ।
बहुजन्मार्जितैः पुण्यैरस्य तु श्रवणं भवेत् ॥ ११ ॥
पाखण्डिनां नास्तिकानां न भवेत् पापकर्मिणाम् ।
नित्यत्त्वान्निर्गुणत्वाच्च अनादित्वाच्च तत्त्वतः ॥ १२ ॥
गणेशस्य स्वरूपं न वक्तुं केनापि शक्यते ।
तथाप्युपासनासक्तैर्निर्गुणं तन्निरूप्यते ॥ १३ ॥
ॐ काररूपी भगवान् यो वेदादौ प्रतिष्ठितः ।
यं सदा मुनयो देवाः स्मरन्तीद्रादयो हृदि ॥ १४ ॥
यं पूजयन्ति सततं ब्रह्मेशानेन्द्रविष्णवः ।
यो हेतुः सर्वजगतां सर्वकारणकारणम् ॥ १५ ॥
यदाज्ञया कः सृजतेऽथ विष्णुर्यदाज्ञया पालनमातनोति ।
यदाज्ञया संहरते हरोऽपि यदाज्ञया सञ्चरते दिनेशः ॥ १६ ॥
यदाज्ञया वाति समीरणोऽपि यदाज्ञयापः प्रवहन्ति दिक्षु ।
यदाज्ञया भानि पतन्ति भूमौ यदाज्ञयाऽग्निर्ज्वलति त्रिलोके ॥ १७ ॥
तस्य यच्चरितं गुप्तं कस्यापि न निवेदितम् ।
तदहं वः प्रवक्ष्यामि सादरं श्रूयतां द्विजाः ॥ १८ ॥
ब्रह्मणा कथितं पूर्वं व्यासायामिततेजसे ।
भृगवे कथितं तेन सोमकान्ताय तेन च ॥ १९ ॥
व्रतैर्यज्ञैस्तपोभिश्च दानैस्तीर्थैश्च कोटयः ।
भवन्ति येषां पुण्यानां तेषां बुद्धिः प्रजायते ॥ २० ॥
गणेशाख्यपुराणस्य श्रवणे द्विजसत्तमाः ।
माया येषां न संसारे न दारापत्यभूमिषु ॥ २१ ॥
मयूरेशकथायां ते सादरा मुनिसत्तमाः ।
श्रूयतामस्य महिमा सोमकान्तप्रसङ्गतः ॥ २२ ॥
सौराष्ट्र देवनगरे सोमकान्तोऽभवन्नृपः ।
वेदशास्त्रार्थतत्त्वज्ञो धर्मशास्त्रार्थतत्परः ॥ २३ ॥
दशनागसहस्राणि हयानां द्विगुणानि च ।
रथिनां षट्सहस्राणि प्रयान्तमनुयान्ति च ॥ २४ ॥
पदातयोऽप्यसङ्ख्याता अग्निशस्त्रधरास्तथा ।
कोदण्डधारिणश्चान्ये निषङ्गद्वयधारिणः ॥ २५ ॥
बुद्ध्या बृहस्पतिं जिग्ये सम्पदा धनदञ्च यः ।
क्षमया पृथिवीं जिग्ये गाम्भीर्येण महोदधिम् ॥ २६ ॥
सूर्याचन्द्रमसौ जिग्ये भासा कान्त्याच यो नृपः ।
प्रतापेनाऽनलं जिग्ये सौन्दर्येण मनोभवम् ॥ २७ ॥
यस्यामात्याः प्रबलिनः पञ्चासन् दृढविक्रमाः ।
नीतिशास्त्रार्थतत्त्वज्ञाः परराष्ट्रविमर्दिनः ॥ २८ ॥
रूपवान्प्रथमस्तत्र विद्याधीशस्तथाऽपरः ।
क्षेमङ्करो ज्ञानगम्यः सुबलः पञ्चमः स्मृतः ॥ २९ ॥
एतैर्नानाविधा देशा आक्रान्ताः स्वपराक्रमात् ।
एतेऽति सुन्दरा नाना भूषावस्त्रैरलङ्कृताः ॥ ३० ॥
राजकार्य करानित्यं राज्ञः प्रियतमाभृशम् ।
तस्य राज्ञोऽभवद्भार्या सुधर्मा गुणशालिनी ॥ ३१ ॥
तद्रूपमवलोक्यैव रतिरम्भातिलोत्तमाः ।
लज्जिता न सुखं क्वापि लेभिरे न च मेनिरे ॥ ३२ ॥
अनेकरत्नरचिते ताटङ्के काञ्चने शुभे ।
बिभ्रतीकर्णयोः कण्ठे निष्कं मुक्ताफलानि च ॥ ३३ ॥
कटौरत्नमयींकाञ्ची तादृशे नूपूरेंऽङ्घ्रिगे ।
अङ्गुलीयान्युत्तमानि च करपादाङ्गुलीषु च ॥ ३४ ॥
वासांस्यनेकवर्णानि महार्हाणि सहस्रशः ।
भगवद्भजने दाने सक्ताचातिथि पूजने ॥ ३५ ॥
सेवनेऽहर्निशं भर्तुर्वचने च रता सदा ।
हेमकण्ठ इति ख्यातः पुत्रोऽभूदनयोः शुभः ॥ ३६ ॥
गजायुतबलो धीमान् विक्रमी शत्रुतापनः ।
एवमासीत्सोमकान्तः पृथिव्यां राजसत्तमः ॥ ३७ ॥
सर्वान् राज्ञो वशे कृत्वा चक्रे राज्यं धरातले ।
नित्यं धर्मरतो यज्वा दातात्यागी द्विजोत्तमाः ॥ ३८ ॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे सोमकान्तवर्णनं नाम प्रथमोऽध्यायः ॥ १ ॥
इस अध्याय का हिन्दी भावार्थ देखने के लिये — श्रीगणेशपुराण-उपासना-खण्ड-अध्याय-01

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें