श्रीगणेशपुराणे उपासनाखण्डे द्विनवतितमोऽध्यायः
॥ ब्रह्मोवाच ॥
एवं नत्वा च स्तुत्वा च सर्वे ते तु गजाननम् ।
पुनरुचुर्गणाध्यक्षमद्य धन्यतमा वयम् ॥ १ ॥
धन्यं तपो नो दानं च ज्ञानं यज्ञश्च पूर्वजाः ।
अद्य नो दृष्टयो धन्या याभिर्दृष्टो गजाननः ॥ २ ॥
एवं वाक्यामृतैस्तेषां स्तुतिभिः परितोषितः ।
उवाच शृण्वतां तेषां गाम्भीर्याद् द्विरदाननः ॥ ३ ॥
नैतादृशं मयाऽदर्शि ब्रह्मविष्णुशिवादिषु ।
यत् साक्षाद् दृश्यते सर्वै रूपं मे निर्गुणस्य यत् ॥ ४ ॥
अतितुष्टोऽनया स्तुत्या वरान् दातुमिहागतः ।
यद् यद् वो वाञ्छितं तत् तद् वृणुध्वमखिलं तु यत् ॥ ५ ॥
एवमुक्तास्तदा तेन विकटेन मुनीश्वर ।
यस्य यद् वाञ्छितं तत् तद् वब्रुस्तस्माद् गजाननात् ॥ ६ ॥
असङ्ख्यत्वात् तद्वराणां नास्ति शक्तिश्चतुर्मुखैः ।
गदितुं सर्वथा तस्मादुक्तं सङ्क्षेपतो मया ॥ ७ ॥
ताँस्तान् ददौ वरान् यान् यान् सर्वे वव्रुर्गजाननात् ।
पुनरप्यवदत् सर्वानिदं स्तोत्रं मम प्रियम् ।
त्रिसन्ध्यं यः पठेदेतद् विद्यावान् पुत्रवान् भवेत् ॥ ८ ॥
आयुरारोग्यमैश्वर्यं यशो वृद्धिं जयोदयम् ।
प्राप्नुयाद् वाञ्छितानर्थानन्ते च परमं पदम् ॥ ९ ॥
पुनरूचे गणाधीशः स्तोत्र मेतज्जपेन्नरः ।
त्रिसन्ध्यं त्रिनिदं तस्य सर्व कार्यं भविष्यति ॥ १० ॥
यो जपेदष्टदिवसं श्लोकाष्टकमिदं शुभम् ।
अष्टवारं चतुर्थ्यां तु सोऽष्टसिद्धिरवाप्नुयात् ॥ ११ ॥
यः पठेन्मासमत्रं तु दशवारं दिने दिने ।
स मोचयेद् बन्धनात् तं राजबद्धं न संशयः ॥ १२ ॥
विद्याकामो लभेत् विद्यां पुत्रार्थी पुत्रमाप्नुयात् ।
वाञ्छितं लभते सर्वमेकविंशतिवारतः ॥ १३ ॥
यो जपेत् परया भक्त्या गजाननपरो नरः ।
एवमुक्त्वा ततो देवः सर्वेषामेव पश्यताम् ॥ १४ ॥
अन्तर्दधेऽखिलाधारः सुमुखोऽसौ गजाननः ।
ते च चक्रुस्तदा मूर्तिं गणेशस्य शुभाननाम् ॥ १५ ॥
प्रतिष्ठाप्य च तां स्थूले प्रासादे रत्ननिर्मिते ।
सुमुखेति च तस्यास्ते नाम चक्रुः सुविश्रुतम् ॥ १६ ॥
सम्पूज्य च नमस्कृत्वा स्वं स्वं स्थानं ययुः सुराः ।
सर्वे ते मुनयो लोकाः सर्वकार्यरतास्तदा ॥ १७ ॥
केचित्तस्या नाम चक्रुरेकदन्त इति स्फुटम् ।
गन्धर्वैः किन्नरैरन्या स्थापिता मूर्तिरुत्तमा ॥ १८ ॥
प्रासादे काञ्चने श्रेष्ठेऽनेकधा परिपूज्य च ।
कपिलेति च नामास्याः स्थापयामासुरुत्तमम् ॥ १९ ॥
गुह्यकाश्चारणाः सिद्धा मूर्तिमन्यां प्रचक्रिरे ।
महालये प्रतिष्ठाप्य नेमुश्च पुपुजुश्च ताम् ॥ २० ॥
गजकर्णेति नामास्याश्चक्रुस्ते तु स्फुटार्थकम् ।
तत् प्रभावाद्विमानस्थाः सर्वे ते दिवमाक्रमन् ॥ २१ ॥
लम्बोदरेति नाम्ना च स्थापिता सर्व मानवैः ।
श्वापदैरखिलैरन्या स्थापिता मूर्तिरुत्तमा ॥ २२ ॥
विकटेति च नाम्ना तां पुपूजुस्ते ययुर्वनम् ।
गिरयश्च द्रुमाश्चान्यां मूर्तिं स्थाप्य प्रपूज्य च ॥ २३ ॥
विघ्ननाशन इत्येवं नाम कृत्वा स्थितास्तु कौ ।
तत्प्रसादच्च ते ख्याताः पर्वताश्च द्रुमास्तथा ॥ २४ ॥
सर्वैः पक्षिगणैर्मूर्तिः स्थापिता रत्नकाञ्चनी ।
गणाधिपेति नाम्ना तैः पूजिता च नमस्कृता ॥ २५ ॥
सर्वैर्विषधरैरेका स्थापिता गणनायकी ।
यस्या हूतिः कृता तैस्तु धूमकेतुरिति स्फुटा ॥ २६ ॥
सर्वैर्जलाशयैरेका प्रतिमा स्थापिता शुभा ।
गणाध्यक्षेति नाम्ना सा पूजिता परमोत्सवैः ॥ २७ ॥
कृमिकीटादिनिचयैर्वनस्पत्योषधीगणैः ।
स्थापिता परमा मूर्तिर्भालचन्द्रेति विश्रुता ॥ २८ ॥
अन्यैः सचेतनैरन्या रत्नप्रासादमध्यगा ।
वैनायकी महामूर्तिः पूजिता भक्तिभावतः ॥ २९ ॥
गजाननाख्यया ख्याता सर्वेषां सर्वकामदा ।
ते ते जगत्त्रये ख्यातास्तत्तज्जात्या बभूविरे ॥ ३० ॥
सुखिनः स्वस्वकार्येषु दक्षा देव प्रसादतः ।
प्रत्येकनामकथनेन शक्तिर्मम वर्त्तते ॥ ३१ ॥
सारं सारं प्रगृह्यैव कृतं नाम्ना सहस्रकम् ।
ततोऽपि सारभूतानि प्रोक्तानि द्वादशैव तु ॥ ३२ ॥
समुद्रमथनाद् यद्वद् रत्नानी व चतुर्दश ।
एवं सङ्क्षेपतो ब्रह्मन् महिमा तेऽभिवर्णितः ॥ ३३ ॥
विस्तराद् गदितुं शेषो नेशो नेशोऽप्यहं हरिः ।
इन्द्रादिमशकानां च जीवानां यक्षरक्षसाम् ॥ ३४ ॥
तत्र का गणना कार्या मया सत्यवतीसुत ।
तस्मात् सर्वेषु कार्येषु पूजनीयो गजाननः ॥ ३५ ॥
यो न पूजयते देवदेवं विघ्नविनाशनम् ।
स दुरात्मा परित्याज्यश्चाण्डाल इव दूरतः ॥ ३६ ॥
॥ मुनिरुवाच ॥
अनुक्रमेण कथय नामानि द्वादशैव मे ।
श्रवणात् पठनादेषां सर्वं निर्विघ्नतामियात् ॥ ३७ ॥
॥ ब्रह्मोवाच ॥
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः ।
लम्बोदरश्च विकटो विघ्ननाशो गणाधिपः ॥ ३८ ॥
धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः ।
द्वादशैतानि नामानि यः पठेच्छृणुयादपि ॥ ३९ ॥
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा ।
सङ्ग्रामे सङ्कटे चैव विघ्नस्तस्य न जायते ॥ ४० ॥
शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ ४१ ॥
कोटिकन्याप्रदानानि कोटियज्ञं व्रतानि च ।
तपांसि यानि सर्वाणि तीर्थान्यायतनानि च ॥ ४२ ॥
स्वर्णभारसहस्राणि कोटिदानानि यान्यपि ।
कृच्छ्राणि तप्तकृच्छ्राणि पराकेन्दुव्रतानि च ॥ ४३ ॥
शतांशमेषां पुण्यस्य तानि नाम्नां न यान्ति च ।
इमानि प्रातरुत्थाय शुचिर्भूत्वा समाहितः ॥ ४४ ॥
यः पठेन्मानवो भक्त्या विघ्ना नो यान्ति तं नरम् ।
सिद्धयन्ति सर्वकार्याणि मोक्षमन्ते व्रजत्यसौ ॥ ४५ ॥
तस्य दर्शनतो लोका देवाः पूता भवन्ति च ।
अत एव मुने सौराः शाक्ताः शैवाश्च वैष्णवाः ॥ ४६ ॥
उक्त्वा द्वादश नामानि सर्वकार्याणि कुर्वते ।
गाणेशा अपि कुर्वन्ति किमत्रापि च कौतुकम् ॥ ४७ ॥
न सिद्धन्ति हि कार्याणि द्वादशान्यतमस्य ह ।
उच्चारणं विना ब्रह्मँस्तस्मादेकं समुच्चरेत् ॥ ४८ ॥
दुष्टानां नास्तिकानां च कार्यं यद् यद्धिसिद्ध्यति ।
तेऽपि बीजं समुच्चार्यमज्ञानादपि कुर्वते ॥ ४९ ॥
एवं ते महिमा सर्वः कथितो लेशतो मुने ।
उपासनाफलं नाना यथामति निरूपितम् ॥ ५० ॥
विष्णुनां कथितं यावत् तावत् तव निरूपितम् ।
सोऽपि नान्तं जगामास्य गणेशोपासनस्य ह ॥ ५१ ॥
गणेशनाम महिमा पूर्णो ज्ञातो न तेन च ।
॥ भृगुरुवाच ॥
एवं ते कथितां राजन्नद्भुतो महिमा मया ॥ ५२ ॥
ब्रह्मणा सुप्रसन्नेन यो व्यासाय निरूपितः ।
उपासनाखण्डमिदं वर्णितं नृपते मया ॥ ५३ ॥
यदि ते श्रवणे श्रद्धा तदान्यदपि वर्णने ।
चरितं गणनाथस्य सोमकान्ताघनाशनम् ॥ ५४ ॥
॥ सूत उवाच ॥
इति वः कथितं नानाकथान्तरसमन्वितम् ।
उपासनं गणेशस्य शौनकाद्या महर्षयः ॥ ५५ ॥
वेदव्यासाय मुनये ब्रह्मणा यत् समीरितम् ।
भृगुणा सोमकान्ताय वर्णितं पापनाशनम् ॥ ५६ ॥
शृणुयाद् यो गणेशस्य पुराणमिदमुत्तमम् ।
स सर्वामापदं हित्वा भुक्त्वा भोगाननेकशः ॥ ५७ ॥
पुत्रपौत्रसमायुक्तो ज्ञानविज्ञानसंयुतः ।
लभते परमां मुक्तिं गणेशस्य प्रसादतः ॥ ५८ ॥
न तस्य पुनरावृत्तिः कल्पकोटिशतैरपि ।
यः श्रावयेन् महाभक्त्या यथोक्तफलभाग्भवेत् ॥ ५९ ॥
यथाप्तं सोमकान्तेन शृण्वतापरमादरात् ॥ ६० ॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे
ब्रह्मव्यासभृगुसोमकान्तसंवादे गजानननामनिरूपणं नाम द्विनवतितमोऽध्यायः ॥ ९२ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें