श्रीगणेशपुराणे उपासनाखण्डे त्रिंशतितमोऽध्यायः

 

श्रीगणेशपुराणे उपासनाखण्डे त्रिंशतितमोऽध्यायः
अहल्याधर्षणं

॥ नारद उवाच ॥

कदाचिदमरावत्यां शक्रं दृष्टुं गतोऽस्म्यहम् ।
स मां सम्पूज्य विधिवदुवाचावनतो भृशम् ॥ १ ॥
॥ इन्द्र उवाच ॥
किञ्चिदाश्चर्यभूतं मे सन्तोषाय मुने वद ।
भ्रमसे सर्वलोकांस्त्वं विदितं सर्वमस्ति ते ॥ २ ॥

श्रीगणेशपुराणे उपासनाखण्डे एकोनत्रिंशोऽध्यायः

 

श्रीगणेशपुराणे उपासनाखण्डे एकोनत्रिंशोऽध्यायः
नारदागमनं

॥ मुनिरुवाच ॥

तस्मिन्वटे समासीनः कस्मिंश्चिद्दिवसे नृपः ।
दूराद्ददर्श देवर्षिं नारदं मुनिपुङ्गवम् ॥ १ ॥
ननाम प्रार्थयामास क्षणं विश्राम्यतामिति ।
उत्ततार नभोमार्गान्नारदः करूणानिधिः ॥ २ ॥

श्रीगणेशपुराणे उपासनाखण्डे अष्टाविंशतितमोऽध्यायः

 

श्रीगणेशपुराणे उपासनाखण्डे अष्टाविंशतितमोऽध्यायः
प्रायोपवेशनं

॥ ब्रह्मोवाच ॥

ततो रूक्माङ्गदोऽपश्यदृषिं वाचक्नविं शुभम् ।
मुकुन्दां तस्य पत्नीं च स्निग्धमञ्जुलभाषिणीम् ॥ १ ॥
अतिश्रान्तो नरपतिर्नमश्चक्र उभावपि ।
तस्मिन्मुनौ गते स्नातुं ययाचे नृपसत्तमः ॥ २ ॥

श्रीगणेशपुराणे उपासनाखण्डे सप्तविंशोऽध्यायः

 

श्रीगणेशपुराणे उपासनाखण्डे सप्तविंशोऽध्यायः
रूक्माङ्गदाभिषेक वर्णनं

॥ व्यास उवाच ॥

क उपायस्तु मुनिना विश्वामित्रेण धीमता ।
कृपावता तु भीमाय कथितस्तं वदस्व मे ॥ १ ॥
मन्मनोमोहपटलं मृत्योरिव विनिःसृतम् ।
तत्कथामृतपानेन पितामह मृता यथा ॥ २ ॥

श्रीगणेशपुराणे उपासनाखण्डे षड्विंशोऽध्यायः

 

श्रीगणेशपुराणे उपासनाखण्डे षड्विंशोऽध्यायः
परम्परावर्णनं

॥ विश्वामित्र उवाच ॥

एकस्मिन्दिवसे शुभग्रहयुतेलग्ने शुभे वासरे ।
योगे चारुफले जने च नगरे नानाविधे मेलिते ।
मालां रत्नमयीं ददौ नरपते राज्ञी करेणोः करे ।
सम्प्रार्थ्य द्विरदं कुरुष्व नृपतिं लोकेषु यस्ते मतः ॥ १ ॥
तामाज्ञां प्रतिगृह्य वारणपतिः संरञ्जितो धातुभि-
र्बभ्राम द्विजबन्दिचारणगणैराशासितः सर्वतः ।
नानावाद्यकरैर्वृतौ नृपभटै राज्यार्थिभिः पूरूषै-
र्जिघ्रन् सर्वजनं सभापरिगतं यातो बहिः पत्तनात् ॥ २ ॥

श्रीगणेशपुराणे उपासनाखण्डे पञ्चविशोऽध्यायः

 

श्रीगणेशपुराणे उपासनाखण्डे पञ्चविशोऽध्यायः
संस्कार वर्णनं

॥ विश्वामित्र उवाच ॥

शृणु राजन् महाश्चर्यं दैवकालकृतं शुभम् ।
कौण्डिन्ये नगरे राजा चन्द्रसेनो महामतिः ॥ १ ॥
स्वकर्मपरिपाकेन निधनं कालयोगतः ।
अगमद् दिव्ययानेन धर्मबाहुल्यतो दिवम् ॥ २ ॥
तच्च नागरिकाः श्रुत्वा हाहाकारं प्रचक्रिरे ।
धावमाना ययुस्तत्र त्यक्त्वा कार्याण्यनेकशः ॥ ३ ॥

श्रीगणेशपुराणे उपासनाखण्डे चतुर्विंशोऽध्यायः

 श्रीगणेशपुराणे उपासनाखण्डे चतुर्विंशोऽध्यायः

 स्वप्नकथनं
 ॥ भीम उवाच ॥
 दक्षेण मुनिशार्दूल राजपुत्रेण धीमता ।
 अनुष्ठानं कृतं कुत्र कथं वा कस्य वा मुने ॥ १ ॥
 एतद्विस्तार्य ब्रूहि त्वं श‍ृण्वंस्तृप्याम्यहं न च ।

श्रीगणेशपुराणे उपासनाखण्डे त्रयोविंशोऽध्यायः

 श्रीगणेशपुराणे उपासनाखण्डे त्रयोविंशोऽध्यायः

 भविष्यकथनं
 ॥ भृगुरुवाच ॥
 विश्वामित्रवचः श्रुत्वा भीमः पप्रच्छ तं पुनः ।
 वैश्याचरितवार्तायाः श्रवणे परमोत्सुकः ॥ १ ॥
 सोमकान्त नृपश्रेष्ठ कथयामि श‍ृणुष्व तत् ।
 ॥ भीम उवाच ॥
 श्रुतं दक्षस्य चरितं विश्रान्तं मम मानसम् ॥ २ ॥
 कथं कल्याणवैश्यस्य गतिरासीद् वदस्व ताम् ।

श्रीगणेशपुराणे उपासनाखण्डे द्वाविंशोऽध्यायः

 

श्रीगणेशपुराणे उपासनाखण्डे द्वाविंशोऽध्यायः
बल्लालविनायक कथनं
॥ राजोवाच ॥
आश्चर्यभूतं कथितं दक्षपुत्रस्य चेष्टितम् ।
विस्मयो मे महाँस्तत्र सञ्जातो मुनिसत्तम ॥ १ ॥
अन्धः कुब्जः स्रवद्रक्तः पूतिगन्धसमन्वितः ।

श्रीगणेशपुराणे उपासनाखण्डे एकविंशतितमोऽध्यायः

 श्रीगणेशपुराणे उपासनाखण्डे एकविंशतितमोऽध्यायः

मन्त्रोपदेश वर्णनं

॥ विश्वामित्र उवाच ॥
इतस्ततो भ्रमन् धावन् वल्लभस्यात्मजस्तदा ।
न विवेद गतं वस्त्रं भूषणं चातिविह्वल ॥ १ ॥
पप्रच्छ ब्राह्मणान्मार्गे वृक्षाँश्चैव विनायकम् ।
विनायको गतः कुत्र क्वचिद् दृष्टो गदन्तु मे ॥ २ ॥
स एवं भ्रान्त हृदयोऽभ्रमच्चक्षुः नृपोत्तम ।
निपपात धरापृष्ठे क्षणं विगतचेतनः ॥ ३ ॥

123

------------------------------
------------------------------ Related Posts Plugin for WordPress, Blogger...