श्रीगणेशपुराणे उपासनाखण्डे एकादशोऽध्यायः

 

श्रीगणेशपुराणे उपासनाखण्डे एकादशोऽध्यायः

मन्त्रकथनं
॥ भृगुरूवाच ॥
जगादभूयश्चतुराननस्तमेवं कृतप्रश्नविवक्षयाऽथ ।
क्रमेण सर्वं कथयामि तेऽहं गणेशमन्त्रान् बहुधा विचार्य ॥ १ ॥
॥ ब्रह्मोवाच ॥
अनन्ता हि मुने मन्त्रा गणेशस्य महात्मनः ।
उपासनं वदिष्यामि शीघ्रं सिद्धिकरस्य ते ॥ २ ॥
सप्तकोटिमहामन्त्रा गणेशस्यागमे स्थिताः ।
तद्रहस्यं शिवो वेद किञ्चित् किञ्चिदहं मुने ॥ ३ ॥
षडक्षरैकाक्षरयोः श्रेष्ठत्वं तेषु विद्यते ।
ययोः स्मरणमात्रेण सर्वसिद्धिः करे भवेत् ॥ ४ ॥
जीवनमुक्ता भवन्त्येव यदुपासनया मुने ।
त एव धन्यास्ते पूज्यास्ते नमस्याः सुरैरपि ॥ ५ ॥

श्रीगणेशपुराणे उपासनाखण्डे दशमोऽध्यायः

 

श्रीगणेशपुराणे उपासनाखण्डे दशमोऽध्यायः

व्यास प्रश्न वर्णनं
॥ भृगुरूवाच ॥
नारायणांशसम्भूतः पाराशर्यो महामुनिः ।
अतीतानागतज्ञानी वेदशास्त्रार्थतत्त्ववित् ॥ १ ॥
कृत्वा वेदं चतुर्भागं तदर्थज्ञानसिद्धये ।
स विद्यामदगर्वेण पुराणं कर्तुमारभत् ॥ २ ॥
समाप्तिसाधनं नैव कृतवान्मङ्गलं पुरा ।
गणेशस्य नतिं वापि स्तुतिं वा तस्य वा क्वचित् ॥ ३ ॥
ततो विघ्नाभिभूतः सन्नर्थं कञ्चन नास्मरत् ।
भ्रान्तिरेवाभवत्तस्य लौकिकेऽलौकिके पथि ॥ ४ ॥
नित्ये नैमित्तिके काम्ये श्रौते स्मार्ते च कर्मणि ।
व्याख्यातुर्वेदशास्त्राणां सर्वज्ञस्य सतोऽपि हि ॥ ५ ॥

श्रीगणेशपुराणे उपासनाखण्डे नवमोऽध्यायः

 

श्रीगणेशपुराणे उपासनाखण्डे नवमोऽध्यायः

राजोपदेशज्ञानोपदेशकथनं
॥ सूत उवाच ॥
ततो भृगुः क्षणं ध्यात्वां पुनस्तं प्राह भूपतिम् ।
अत्यन्त विह्वलो दुःखं वीक्ष्य तत्पूर्वकर्मजम् ॥ १ ॥
॥ भृगुरूवाच ॥
क्व पापनिकरास्ते तु क्वोपायाः कथिता मया ।
तथाऽप्येकं ब्रवीमि त्वामुपायमघनाशनम् ॥ २ ॥
गणेशस्य पुराणं त्वं श्रोष्यसे यदि सत्वरम् ।
तदैव मोक्ष्यसे दुःखसागरान् नात्र संशयः ॥ ३ ॥
इत्युक्त्वां तं गणेशस्य नामाष्टशतमुत्तम् ।
जप्त्वा जलं मन्त्रयित्वा सिषेच नृपतिं तदा ॥ ४ ॥
सिक्तमात्रे जले तेन तन्नासारन्ध्रतो लघुः ।
कृष्णास्यः प्राप तद्भूमौ ववृधे तत्क्षणादसौ ॥ ५ ॥

श्रीगणेशपुराणे उपासनाखण्डे अष्टमौऽध्यायः

 

श्रीगणेशपुराणे उपासनाखण्डे अष्टमौऽध्यायः
नाना पक्षिनिवारणं

॥ भृगुरूवाच ॥

इति तेनोदितं वाक्यं मुहुर्ग्लानिं प्रकुर्वतः ।
करुणायुतमाकर्ण्य नोद्भिन्नं हृदयं तव ॥ १ ॥
वज्रात् सारतरं किन्नु ब्रह्मणा त्वयि निर्मितम् ।
हिंसनाद् बहुजन्तूनां मनुष्याणां सहस्रशः ॥ २ ॥
अतिनिष्ठुरतां प्राप्तं कृतघ्नस्येव मानसम् ।
अवोचस्त्वं ततस्तन्तु कृतान्त इव निष्ठुरः ॥ ३ ॥

123

------------------------------
------------------------------ Related Posts Plugin for WordPress, Blogger...