श्रीगणेशपुराणे क्रीडाखण्डे
अष्टादशोऽध्यायः
बालचरिते कपटि दैत्यवध
॥ व्यास उवाच ॥
अपरेऽहनि सम्प्राप्ते का कथा समपद्यत ।
तां मे कथय लोकेश शृण्वन् तृप्यामि न क्वचित् ॥ १ ॥
॥ ब्रह्मोवाच ॥
शृणुष्वावहितो ब्रह्मन् कथयामि समासतः ।
विनायककृतां दिव्यां कथां पापापनोदिनीम् ॥ २ ॥
उदिते तु दिवानाथे नित्यकर्म समाप्य तौ ।
क्रीडार्थमगमद् बालो राजा भद्रासनं तथा ॥ ३ ॥
दैत्योऽथ ब्राह्मणो भूत्वा ज्योतिःशास्त्रविशारदः ।
तालीयं पुस्तकं वामे मालां दक्षे करे दधत् ॥ ४ ॥
पाटलं परिधानं च शिरोवस्त्रं महत्तरम् ।
गोपीचन्दन सम्भूतांस्तिलकान् द्वादशापि च ॥ ५ ॥
अतिदीर्घतमश्श्मश्रुराजगाम नृपान्तिकम् ।
समीपमागतं यावत् तावद् राजा ननाम तम् ॥ ६ ॥
उत्थाय तं समीपे स स्वासने सन्यवेशयत् ।
प्रपच्छ कुशलं तस्मै कार्यं चागमनं कुतः ॥ ७ ॥
किं च ते नाम विप्रेन्द्र किं ज्ञानं किं च ते तपः ।
वद सत्यं मुने कृत्वा कृपां मयि कृपानिधे ॥ ८ ॥
॥ ब्रह्मोवाच ॥
एवं पृष्टः स तेनाशु दत्त्वाशीर्वचनं पुरा ।
अनुक्रमेण सकलं निजगाद महामुने ॥ ९ ॥
हेमज्ज्योतिर्विदित्येवं नाम मे नृपनन्दन ।
गन्धर्वलोकादायातो वस्तुं तव समाश्रये ॥ १० ॥
भूतं भवद् भविष्यं च शान्तिकानि च वेद्म्यहम् ।
प्रश्नांश्च कथयिष्यामि यान् यान् त्वं पृच्छसेऽनघ ॥ ११ ॥
अरिष्टान्यत्र जातानि ज्ञातानि तानि मे नृप ।
भावि ते दुष्टचिह्नं च विज्ञायाऽहं समागतः ॥ १२ ॥
त्वदाश्रयेण वस्तुं मे वाञ्च्छाऽस्ति नृपसत्तम ।
॥ नृप उवाच ॥
किं निमित्तमरिष्टानि जायन्तेऽत्र महामुने ॥ १३ ॥
अग्रेऽपि कानि भावीनि सत्यमेव वदस्व मे ।
तव प्रतीतौ जातायां स्थापयिष्ये निजे गृहे ॥ १४ ॥
वृत्तिं च कल्पयिष्यामि योगक्षेमकरीं तव ।
॥ गणक उवाच ॥
यावद्विनायकस्तेऽस्ति गृहे कश्यपनन्दनः ॥ १५ ॥
तावद् विघ्नानि जायन्ते यतो विघ्नाधिपस्तु सः ।
असञ्चारे वनै चैनं त्यक्त्वा याहि नृपात्मज ॥ १६ ॥
न भविष्यति विघ्नं ते नगरे वा गृहेऽपि च ।
अस्मिन् स्थिते जलं सर्व नगरं प्लावयिष्यति ॥ १७ ॥
तस्मिन्कथञ्चिन्नष्टे तु पर्वता वायुनोदिताः ।
चूर्णयिष्यन्ति नगरं नृप नास्त्यत्र संशयः ॥ १८ ॥
एतत्कथं न जानीषे पूर्वं नासन्नुपद्रवाः ।
राज्ञा विश्वसितव्यं नो कपटे लुब्धकेऽशुचौ ॥ १९ ॥
अतिशूरे स्वोत्कटे च स्वात्मपातं प्रपश्यता ।
एते घ्नन्ति च राजानं राज्यकामा महाशयाः ॥ २० ॥
एतत् कथयितुं यातो ज्ञात्वा राज्यच्युतिं तव ।
हिताहितमवश्यं हि वक्तव्यं जानता नृपे ॥ २१ ॥
विविच्य नृप मे वाक्यं यथेच्छसि तथा कुरू ।
॥ ब्रह्मोवाच ॥
एवमाकर्ण्य तद्वाक्यं राजा तं पर्यभाषत ॥ २२ ॥
॥ राजोवाच ॥
अतीतानागतज्ञानादुक्तं सर्वं त्वया मुने ।
मिथ्यैव भासते मह्यं तत्त्वज्ञाने प्रपञ्चवत् ॥ २३ ॥
त्वदुक्तप्रत्यये जाते दास्यामि वेतनं तव ।
न ज्ञातो बालकश्चायं त्वया गणकसत्तम ॥ २४ ॥
ब्रह्माणं कमलाकान्तम् अपरं शूलिनं हरम् ।
जनयिष्यति वाञ्छा चेद्ब्रह्माण्डानि बहूनि सः ॥ २५ ॥
यदि ते निश्चयो वाक्ये स्वकीये ब्राह्मणोत्तम ।
नयैनं गहनं घोरं त्यक्त्वैनं पुनरेहि च ॥ २६ ॥
लोकद्वेषकृतोऽनेन निहता बलवत्तराः ।
स्वद्वेष्टारं कथमयं न जाने स्थापयिष्यति ॥ २७ ॥
अनिष्टमस्य मनसि न वयं चिन्तितुं क्षमाः ।
अनेन नगरीराज्यं त्रातमुत्पाततो बहुः ॥ २८ ॥
करोतीन्द्रमनिन्द्रं वाऽशक्तं शक्तं लघुं गुरुम् ।
उच्चं नीचं तथा नीचमुच्चमीशमनीश्वरम् ॥ २९ ॥
संश्रुत्य वाणीं नृपतेर्गणकोऽभूद् रुषाऽरुणः ।
राजानं पुनरारेभे वक्तुं किञ्चिदवाङ्मुखः ॥ ३० ॥
मया तवहितं प्रोक्तमनिष्टं तव भासते ।
न जातु लङ्घयेत् कोऽपि भाविसृष्टु तथेतरत् ॥ ३१ ॥
नृपते दर्शयैनं मे बालकं लक्षणानि ते ।
कथयिष्ये ततो बालान् सर्वानाकारयन्नृपः ॥ ३२ ॥
अग्रे विनायकः प्राप्तो धावमानास्ततोऽखिलाः ।
गणकं स नमस्कृत्य पप्रच्छ कुत आगतः ॥ ३३ ॥
सामुद्रलक्षणज्ञोऽसि ज्योतिःशास्त्रविशारदः ।
भूतभाविभविष्यज्ञ वद मे भाग्यजं फलम् ॥ ३४ ॥
॥ ब्रह्मोवाच ॥
सधैर्यं बालवाक्यं तदाकर्ण्य कपटी द्विजः ।
तर्कयामास मनसि कथं स्वस्तिगतिर्भवेत् ॥ ३५ ॥
अनेन निहता दुष्टा बलिनोऽनेकरूपिणः ।
शिशोर्हस्तं गृहित्वा स वदति स्म शुभाशुभम् ॥ ३६ ॥
चतुरर्षु दिवसेषु त्वं कूपमध्ये पतिष्यसि ।
चेन्निर्गतः कथञ्चित् त्वं सिन्धौ मज्जनमेष्यसि ॥ ३७ ॥
ततोऽपि जीवितश्चेत् तु ध्वान्तमग्नो भविष्यसि ।
ततोऽपिजीविते शैलस्त्वयि कोऽपि पतिष्यति ॥ ३८ ॥
महान्तौ कालपुरुषौ जीवन्तं भक्षयिष्यतः ।
एतान्यरिष्टानि तव भविष्यन्ति न संशयः ॥ ३९ ॥
प्रतीकारं बवीम्यत्र निर्भयार्थं कुरूष्व तम् ।
ततोऽन्यत्र मया सार्द्धं याहि दिनचतुष्टयम् ॥ ४० ॥
पुनरत्रानयिष्यामि शपथो मे तथाङ्घ्रिजः ।
निशम्य वाचं बालोऽसौ जगामान्तर्गृहं शनैः ॥ ४१ ॥
राज्ञो हस्तात् प्रगृहयाशु मुद्रिकां रत्ननिर्मिताम् ।
कृत्वा तां स्वकरे बालो वदति स्म द्विजं प्रति ॥ ४२ ॥
गणकाशु वद त्वन्नो गतं वस्तु महत्तरम् ।
केन नीतं कदा प्राप्तं भूयात् ते प्रत्ययो भवेत् ॥ ४३ ॥
इत्युक्तः स तु बालेन विचार्य जनसंसदि ।
बभाण हास्यवदनो मुद्रिका यदि लभ्यते ॥ ४४ ॥
ममैव यदि देया सा तदेदानीं ब्रवीम्यहम् ।
तथेति बालकेनोक्ते तवैव करगेति सा ॥ ४५ ॥
इत्थमुक्तो जिह्मवेषधारिणा वाडवेन सः ।
तया मन्त्रितया बालो न्यवधीत्तं हृदि क्षणात् ॥ ४६ ॥
स तया भिन्नहृदयो वज्राहत इवाचलः ।
निपपात धरापृष्ठे चालयन् वसुधां भृशम् ॥ ४७ ॥
पतता तस्य देहेन चूर्णितं नगरं कियत् ।
काशिराजो जनाः सर्वे आश्चर्यं मेनिरे तदा ॥ ४८ ॥
जहर्षुर्देवता सर्वाः पुष्पवृष्टिं सुचक्रिरे ।
स्वर्गभूवाद्यघोषैर्द्यौर्व्याप्ताऽभूद् भूतलं तदा ॥ ४९ ॥
॥ जना ऊचुः ॥
कथं ज्ञातोऽनेन दुष्टो ब्राह्मणो ब्रह्मवेषभृत् ।
राज्ञाऽपि न कृतं दैवाद् वाक्यं तस्य दुरात्मनः ॥ ५० ॥
अयं बालो न मन्तव्यो भूभारहरणेऽमरः ।
अवतीर्णः कश्यपस्य गृहेऽसौ करूणानिधिः ॥ ५१ ॥
मुद्रिकाघातमात्रेण कथं प्राणान् जहौ बलि ।
इत्युक्त्वा पुपूजुः सर्वे नेमुस्तं तुष्टुवुर्जगुः ॥ ५२ ॥
ददौ दानानि विप्रेभ्यो राजा राजीवलोचनः ।
द्विजचारणबन्दिभ्यो दीनेभ्यश्चाप्यनेकशः ॥ ५३ ॥
नागरान् मानयित्वा तान् विससर्ज ततः सभाम् ।
बालोऽपि बालकं रन्तुं ययौ पूर्ववदज्ञवत् ॥ ५४ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते कपटिदैत्यवधो
नामाष्टादशोऽध्यायः ॥ १८ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें