श्रीगणेशपुराणे क्रीडाखण्डे
सप्तदशोऽध्यायः
बालचरिते
॥ ब्रह्मोवाच ॥
आगतं राजशार्दूलं पुनः पप्रच्छ सादरम् ।
मेघगम्भीरया वाचा सर्वज्ञोऽपि विनायकः ॥ १ ॥
त्वया किमुक्तं तत्राथ तेन वा भाषितं नु किम् ।
वद मे नृप तत्सर्वं श्रुत्वा वक्ष्यामि ते मतिम् ॥ २ ॥
॥ नृप उवाच ॥
तस्मै ते कथितं वाक्यं मयाऽपि प्रार्थितं बहु ।
स उवाच मुनिः कस्त्वं कोऽसावपि विनायकः ॥ ३ ॥
उपास्यरूपं बिभृयात् तदायास्ये तमीक्षितुम् ।
एवं निराकृतस्तेन मार्गचिन्तापरः स माम् ॥ ४ ॥
प्रेषयामास स्वगृहं दत्त्वा मूर्ध्निं करं मम ।
निमीलितदृशं चक्रे क्षणादुन्मील्य लोचने ॥ ५ ॥
तावद् ददर्श पुरतः स्थितं त्वां स्वगृहे सुर ।
स्मृत्वाऽऽश्रमपदं तस्य हर्षश्चेतसि जायते ॥ ६ ॥
अहसीदिति श्रुत्वैव वाक्यं तस्य विनायकः ।
॥ विनायक उवाच ॥
श्रान्तोऽसि नृपशार्दूल पुनर्गच्छ तमाश्रमम् ॥ ७ ॥
गजाननेति मन्नाम श्रुत्वायास्यत्यसौ मुनिः ।
एवं वदति तस्मिंस्तु सर्वरूपे विनायके ॥ ८ ॥
तावद् ददर्श भ्रूशुण्डेरात्मानमाश्रमे स्थितम् ।
पुनर्दृष्ट्वा स नृपतिं हृदि तर्कानथाकरोत् ॥ ९ ॥
किमर्थं पुनरायातो राजा किं वा वदिष्यति ।
तत ऊचे नमस्कृत्य राजा तं मुनिपुङ्गवम् ॥ १० ॥
आकारयति त्वां विप्र स्वामी तव गजाननः ।
नाममात्रे श्रुते तस्य जहर्ष च मुमूर्छ च ॥ ११ ॥
रोमाञ्चितशरीरोऽसौ आनन्दाश्रु मुमोच ह ।
यदि पक्षौ भवेतां मे तदोड्डीय गतोऽभवम् ॥ १२ ॥
इत्युत्कण्ठतया विप्रः प्रतस्थे भूभुजा सह ।
भ्रूशुण्डौ चलिते पृथ्वी कदाऽप्यचलिते मुनौ ॥ १३ ॥
चचाल सम्मुखी भूत्वा कम्पन्ती तमथाब्रवीत् ।
रक्ष मां मुनि शार्दूल न भीर्मत्तो धरे तव ॥ १४ ॥
गजाननं निजं नाथं द्रष्टुं यामि त्वरान्वितः ।
इत्युक्त्वा तां पुरो यातुं चलितोऽसौ द्विजोत्तमः ॥ १५ ॥
पदे दत्ते तृतीये तु दर्शयामास तां पुरीम् ।
दृष्ट्वा पुरीं नृपो हर्षादुवाच मुनिपुङ्गवम् ॥ १६ ॥
त्वत्प्रसादादिदं प्राप्तं पत्तनं वेगवत्तया ।
तपतां जपतां दुर्ज्ञो महिमाभवतां मुने ॥ १७ ॥
इत्युक्त्वा शीघ्रमनयत् स्वगृहं तं नृपोत्तमः ।
उपवेश्य भ्रूशुण्डिं तं आसने काञ्चनोत्तरे ॥ १८ ॥
अपूजयन् महाभक्त्या पाद्यार्घविष्टरादिभिः ।
॥ ऋषिरुवाच ॥
प्रतारितोऽहं नृपते नेक्षे तावद् गजाननम् ॥ १९ ॥
तं प्रदर्शय नो चेत्त्वां शप्त्वा यास्ये निजाश्रमम् ।
॥ नृप उवाच ॥
क्रीडते बालभावेन बालमध्ये गजाननः ॥ २० ॥
वीरो यथा धूलिलिप्तस्तथैवाऽयं विराजते ।
ददर्श च मुनिस्तं तु शुण्डादण्डविराजितम् ।
कोटिसूर्यप्रतीकाशं द्विभुजं द्विरदाननम् ॥ २१ ॥
उवाच नृपतिं क्रोधात् कथमेनं नमाम्यहम् ।
धिक् तं महान्तं यो राजन् नमतेऽसौ लघीयसे ॥ २२ ॥
तृणमत्ति कथं सिंहो गजगण्डविदारणः ॥ २३ ॥
॥ ब्रह्मोवाच ॥
श्रुतं तेन मुनेर्वाक्यं तमुवाच ततोऽर्भकः ।
कौतुकाविष्टचित्तोऽसौ लीलाविग्रहवान् विभुः ॥ २४ ॥
॥ विनायक उवाच ॥
कीदृक् ते स भवेत् स्वामी भ्रूशुण्डे वद साम्प्रतम् ।
॥ मुनिरुवाच ॥
दिव्याम्बरो दशभुजो मुक्तामालाविभूषितः ॥ २५ ॥
सिद्धिबुद्धियुतः कर्णकुण्डलाभ्यां विराजितः ।
शुण्डादण्डमुखो लम्बकर्णः सिन्दूरमण्डितः ॥ २६ ॥
अहिशोभिमहानाभिः क्वणच्चरणनूपुरः ।
महामुकुटशोभाढ्यो दशायुधलसत्करः ॥ २७ ॥
एकदन्तो भालचन्द्रः क्षुद्रघण्टा विराजितः ।
मयूरवाहनो देववृन्दवन्दितपादुकः ॥ २८ ॥
॥ ब्रह्मोवाच ॥
इति तद्वचनं श्रुत्वा पद्मासनगतः स्वयम् ।
तादृग्रूपोऽभवद्बालः सृष्टिरक्षापहारकृत् ॥ २९ ॥
भ्रूशुण्डीस्तं निरीक्ष्यैव स्वयोपास्यं गजाननम् ।
लुलुण्ठ भूमौ प्रेम्णा स प्रतिपत्तिपराङ्मुखः ॥ ३० ॥
ननर्त परमानन्दो रोमाञ्चितशरीरवान् ।
देहभावं प्रपद्याथ प्रणनाम यथाविधि ॥ ३१ ॥
पूजयामास विधिवदुपचारैः पृथक्पृथक् ।
आलिङ्ग्य दशदोर्दण्डैः परमात्मा जहर्ष ह ॥ ३२ ॥
सगद्गदौ निरीक्षैसौ तौ साश्रू राजा ततोप्यभूत् ।
ऊचे राजा महापुण्यं फलितं पूर्वजन्मजम् ॥ ३३ ॥
देवभक्तभवं सौख्यं दृष्टमद्य मयाऽद्भुतम् ।
उभाभ्यां प्रणिपत्याऽथ पुपूज च यथाविधि ॥ ३४ ॥
महासनगतौ तौ तु परस्परमथोचतुः ।
॥ गजानन उवाच ॥
तव निष्ठामयाऽज्ञायि राज्ञा चापि निवेदिता ॥ ३५ ॥
अत एव धृतो वेषो दशदोर्दण्डमण्डितः ।
यथा यथा जनोऽन्योऽपि ध्यात्वा मां भजते मुने ॥ ३६ ॥
तथा तथाऽहं रूपाणि करोमि च ददामि च ।
वाञ्छितं तस्य लोकस्य विश्वासे न भजत्यसौ ॥ ३७ ॥
दुष्टभारभयाक्रान्ता धरित्री सत्यलोकगा ।
ब्रह्माणं शरणं याता तेनाऽहं प्रतिबोधितः ॥ ३८ ॥
आदित्याश्च वरेणाऽहं जातः कश्यपनन्दनः ।
भुवो भारं हरिष्यामि शक्रादींश्च निजे पदे ॥ ३९ ॥
स्थापयिष्यामि दैत्यानां नाशं कृत्वाऽप्यनेकधा ।
तवोत्कटमनुष्ठानं दृष्ट्वाऽहमीदृशोऽभवम् ॥ ४० ॥
देवान्तकं सह भ्रात्रा हत्वा यामि निजं पदम् ।
॥ ऋषिरुवाच ॥
दृष्ट्वा तवाङ्घ्रियुगलं सर्वलोकसुखावहम् ॥ ४१ ॥
सर्वक्लेशहरं देववन्द्यं काङ्क्षितदं प्रभो ।
कृतकृत्यः पवित्रश्च जातोऽह तव दर्शनात् ॥ ४२ ॥
वरं मे देहि विश्वात्मँस्तेन तृप्तो भवाम्यहम् ।
यदा यदाऽहं ध्यायामि रूपेणानेन विघ्नप ॥ ४३ ॥
तदा तदा मे प्रत्यक्षो भवेथाः करुणानिधे ।
आशापूरक इत्येवं नाम तें ख्यातिमेतु च ॥ ४४ ॥
॥ गजानन उवाच ॥
यदा यदा वाञ्छसे त्वं तदा यास्यामि तेऽन्तिकम् ।
भक्तिभावादिदं नाम त्वयोक्तं ख्यातिमेष्यति ॥ ४५ ॥
॥ ब्रह्मोवाच ॥
एवं वरौ समाकर्ण्य प्रणनाम मुदा मुनिः ।
प्रणते तु मुनौ तस्मिन् पुनः प्रोचे गजाननः ॥ ४६ ॥
निधाय मस्तके हस्तं शनैस्तस्य द्विजस्य सः ।
यद् यत् ते वाञ्छितं ब्रह्मन् तत्सर्वं सिद्धिमेष्यति ॥ ४७ ॥
अविस्मृतिश्च भविता मम नित्यं मुने तव ।
॥ ब्रह्मोवाच ॥
एवमुक्त्वा बालरूपश्चिक्रीड स विनायकः ॥ ४८ ॥
सोऽपि पद्मासनगतो ध्यानमेवान्वपद्यत ।
आश्चर्यं परमं चक्रुः सर्वलोकास्तदाऽद्भुतम् ॥ ४९ ॥
निरीक्ष्य बालरूपस्य चरितं परमात्मनः ।
काशिराजोऽवदत्तत्र धन्योऽहं जगतीतले ॥ ५० ॥
दर्शनं प्राप्तवानस्य ब्रह्मादीनांसुदुर्लभम् ।
तं च बालं करे धृत्वा निनायान्तगृहं मुदा ॥ ५१ ॥
भोजयामास स्वाद्वन्नं शाययामास पूर्ववत् ।
आज्ञां गृहीत्वा सुष्वाप स्वयं च पूर्ववन्मुने ॥ ५२ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते
भ्रुशुण्डिगजाननमेलनं सप्तदशोऽध्यायः ॥ १७ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें