पेज

श्रीगणेशपुराणे क्रीडाखण्डे एकोनविंशतितमोऽध्यायः

श्रीगणेशपुराणे क्रीडाखण्डे एकोनविंशतितमोऽध्यायः
कूपकन्दरवध

॥ ब्रह्मोवाच ॥

बालकेन हतं श्रुत्वा ब्राह्मणं वेषधारिणम् ।
नरान्तको महादैत्यो कूपकं कन्दरासुरम् ॥ १ ॥
प्रेषयामास बलिनं ब्रह्मलब्धवरं तदा ।
दत्वा बहूनि वस्त्राणि रत्नानि विविधानि च ॥ २ ॥


॥ दैत्य उवाच ॥
गच्छ तं सुमुहूर्तेन हन्तुं बालं तमाशु च ।
नानोपायैर्मारितानां कुरूतं निष्कृतिं बलात् ॥ ३ ॥
॥ ब्रह्मोवाच ॥
एवं तेन समाज्ञप्तावसुरौ कूपकन्दरौ ।
सेनया चतुरङ्गिण्या गव्यूतिं सम्प्रतस्थतुः ॥ ४ ॥
निर्वर्त्य सेनां च तत ईयतुर्भृशहर्षितौ ।
विचारं चक्रतुर्मार्गे कूपोऽहं कूपतामियाम् ॥ ५ ॥
बालो भव क्रीडमानं मयि तं क्षिप यत्नतः ।
मण्डूकरूपः कूपस्थो भक्षयिष्यामितत्क्षणात् ॥ ६ ॥
अन्तर्धानं करिष्यावः कृत्वा कार्यं महत्तरम् ।
एवं तौ निश्चितमती काशिराजपुरं महत् ॥ ७ ॥
प्रापतुरभवत् कूपो महान्नृप नृपाजिरे ।
कन्दरो बालरूपोऽभूद् रन्तुं तेषु मनो दधे ॥ ८ ॥
राजाऽथ ददृशे कूपं सुजलं तं जहर्ष च ।
यावत् पश्यति मध्येऽसौ मण्डूकं तं ददर्श ह ॥ ९ ॥
नदन्तं मञ्जुलां वाणीं पीतवर्णं भयानकम् ।
कन्दरो बालमध्यस्थो जगाद तं विनायकम् ॥ १० ॥
बहिर्याहि महाबाहो पश्य कूपं मनोहरम् ।
ददर्श कूपं बालैः स बहिरागत्य तत्क्षणात् ॥ ११ ॥
अत्यन्तं सुन्दरं दृष्ट्वा तं कूपं बालकैः सह ।
चिक्रीडे विविधैर्भावैर्नानानिलयनैरपि ॥ १२ ॥
मध्याह्ने जलमध्यस्थाः सिषिचुस्ते परस्परम् ।
मज्जनोन्मज्जनं चक्रुः कारयन्तः परस्परम् ॥ १३ ॥
उड्डानं जलमध्ये ते दूरादागत्य चक्रिरे ।
एवं रमित्वा ते तत्र गृहान् गन्तुं समुद्यताः ॥ १४ ॥
तावद् विनायकोऽपश्यज्जलमध्ये निजं वपुः ।
जानंन् तर्तुं जले सर्वान् पश्यन्नासीद् बहिः पुरा ॥ १५ ॥
तावन्नुनोद तं दुष्टो जलमध्ये स कन्दरः ।
अगाधं तज्जलं ज्ञात्वा लोडयामास लीलया ॥ १६ ॥
स्वेच्छया रमणो लक्ष्म्या क्षीराब्धिमिव वाडवः ।
अधो याति मुहूर्तं स उपरिष्टात्तथैव च ॥ १७ ॥
मायामास्थाय स गणो मज्जितुं समजायत ।
चरणौ हस्तकमले चिक्षेप बहुधा शिशुः ॥ १८ ॥
लुलुपुः सर्वशो बालास्तावत्तेन धृतो बलात् ।
चरणे कन्दरो नीतस्ततत्कूपतलमादरात् ॥ १९ ॥
अमज्जयद् बलात् तं च मुञ्च मुञ्चेति सोऽब्रवीत् ।
विनायकोऽपि तं प्रोचे मुञ्च मुञ्चेति मामपि ॥ २० ॥
उभौ समबलौ तौ तु मज्जनोन्मज्जने रतौ ।
हिरण्यकशिपुर्लक्ष्मीनृसिंहाविव दुर्धरौ ॥ २१ ॥
अधस्थाद् बहुकालं तौ गतौ ज्ञात्वाऽखिलार्भकाः ।
चक्रुरार्तस्वरं दुष्टं मृतो बाल इतिस्फुटम् ॥ २२ ॥
अपशब्दं तथा श्रुत्वा ययुःस्त्रीवृद्धबालकाः ।
काशिराजोऽपि चुक्रोश किं कार्यमिति चाब्रवीत् ॥ २३ ॥
अगाधनीरे कूपेऽस्मिन् कथं जीवेत् स बालकः ।
कोऽप्यूचे चापरः प्राह शीघ्रं निःसारितो यदि ॥ २४ ॥
उपायो भविता कश्चिज्जीवनायास्य निश्चितम् ।
येन यत्प्रार्थ्यते दास्ये तदस्मै जीवितं स्वकम् ॥ २५ ॥
निष्काश्यतां बहिर्बालो वेगेन च बलेन च ।
इति राजवचः श्रुत्वा कूपमध्ये गतास्त्रयः ॥ २६ ॥
मग्नास्ते दैत्यकृतया मायया नापरो जनः ।
अवतर्तुं मनश्चक्रे ततो राजा शुशोच तम् ॥ २७ ॥
॥ राजोवाच ॥
किं मयाऽकारि दुरितं येन मे दुःखमीदृशम् ।
कथं बालो मया नीतः सुखार्थं दुःखदोऽभवत् ॥ २८ ॥
दर्शयिष्ये कथं तस्य पितृभ्यां मुखमेव च ।
जनाय वा कथमिदं कथमस्य मृतिर्भवेत् ॥ २९ ॥
निरस्तान्यत् अरिष्टानि महान्ति बालकेन ह ।
कथमस्म वशं यातो न जाने देवचेष्टितम् ॥ ३० ॥
एवं सर्वेषु शोचत्सु स्त्रीवृद्धबालकेषु च ।
मण्डूकरूपी कूपस्थो व्यादाय मुखमास्थितः ॥ ३१ ॥
तावदेवागतो बालो नोदितःकन्दरेण सः ।
तेनापि नोदितो दैत्यो दैत्यास्ये न्यपतत् खलः ॥ ३२ ॥
भक्षयामास कूपस्तं मत्स्यो मत्स्यमिवालघुः ।
गिलितो बाल इति स निजरूपं समास्थितः ॥ ३३ ॥
कूपोऽपि गगनस्पर्धां चक्रे श्लाघ्यां यथोर्जिताम् ।
सर्वेषामेव दैत्यानामानृण्यं गतवानहम् ॥ ३४ ॥
इत्युज्जहर्ष मनसा मत्वा देवमविक्रमम् ।
कन्दरस्तु रूषाविष्टो विदार्यास्य महोदरम् ॥ ३५ ॥
निर्गम्य वेगमास्थाय स बालोऽन्तर्हितः क्षणात् ।
विदारितं मे जठरमिति कूपोऽपि कन्दरम् ॥ ३६ ॥
अदशत् कण्ठदेशे स जीवग्राहं रूषा तदा ।
एवं परस्पर वधात् पतितौ विह्वलौ भृशम् ॥ ३७ ॥
पादहस्तावमर्दैन चूर्णितं नगरं कियत् ।
यथा सुन्दोपसुन्दौ तु परस्परवधान्मृतौ ॥ ३८ ॥
परस्परवधात् तद्वन्मृतौ तौ कूपकन्दरौ ।
राजभृत्यैरपाकृष्य त्यक्तौ तौ नगराद् बहिः ॥ ३९ ॥
तत्क्षणादजिरे कूपो पिदधे स विनायकः ।
ददृशे पूर्ववत् क्रीडन् सर्वबालयुतो जनैः ॥ ४० ॥
आश्चर्यं मेनिरे तत्र बाला राजा जना अपि ।
ऊचुः परस्परं केचित् कापट्यं येन युज्यते ॥ ४१ ॥
आमूलान्नश्यते सोऽथ स्वयमेव न संशयः ।
पतङ्गो दीपनाशार्थमायाति नश्यते यथा ॥ ४२ ॥
अस्य चालयितुं शक्तो न स्यात् कालोऽपि रोम च ।
दृष्टं बहुविधं चास्य सामर्थ्यमवतारिणः ॥ ४३ ॥
जेतुमीशं गतः कामः स्वयं भस्मत्वमागतः ।
काशिराजस्तु तत् श्रुत्वा सत्यं सत्यमिति ब्रुवन् ॥ ४४ ॥
ददौ दानानि विप्रेभ्यो विससर्ज प्रपूज्य तान् ।
विनायकं नमस्कृत्य गता लोका निजान् गृहान् ॥ ४५ ॥
केचिदालिङ्ग्य तं बालं ययू राज्ञा प्रपूजितम् ।
देवाश्च पुष्पवर्षाणि मुमुचुस्तुष्टुवुर्जनाः ॥ ४६ ॥
॥ ब्रह्मोवाच ॥
एवं न ज्ञायते ब्रह्मन् कार्याकार्यं मरुद्बलम् ।
मायास्वरूपं पुंभाग्यं राक्षसाचरणं मुने ।
अवतारगुणा वापि न ज्ञेया परमात्मनः ॥ ४७ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे कूपकन्दरवधोनामैकोनविंशतितमोऽध्यायः ॥ १९ ॥

  इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-क्रीडाखण्डे-खण्ड-अध्याय-19

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें