पेज

श्रीगणेशपुराणे क्रीडाखण्डे तृतीयोऽध्यायः

श्रीगणेशपुराणे क्रीडाखण्डे तृतीयोऽध्यायः
देवलोकविजयं

॥ ब्रह्मोवाच ॥

ततः प्रातः समुत्थाय गुरून्ध्यात्वा सभाज्य च ।
स्मृत्वा नत्वाऽखिलान्देवान् जग्मतुर्नैऋतीं दिशम् ॥ १ ॥
कृत्वा मुत्रपुरीषे तु दन्तजिह्वा विशोध्य च ।
स्नात्वा सन्ध्यामुपास्यैताविष्टान् देवान् पुपूजतुः ॥ २ ॥


सम्पूज्य बाह्मणान् भक्त्या ददतुर्धनवाससी ।
आज्यमालोक्य कांस्यस्थं ददतुर्ब्राह्मणाय तत् ॥ ३ ॥
सदक्षिणं समालोक्य दर्पणं निर्मलं तथा ।
परिधाय च वासांसि विचारं चक्रतुस्तु तौ ॥ ४ ॥
॥ ज्येष्ठ उवाच ॥
अहं विजेष्ये स्वर्लोकान् वरदानान्महेशितुः ।
मृत्युलोकं च पातालं जय त्वं तत्प्रसादतः ॥ ५ ॥
॥ ब्रह्मोवाच ॥
एवं तौ निश्चयं कृत्वा विलोक्य शुभवासरम् ।
एको ययौ स्वर्गलोकं वायुवेगसमो जवे ॥ ६ ॥
यातोऽमरावतीं तत्र बभञ्जाराममण्डलम् ।
बद्ध्वा परिकरं तस्थौ शक्रस्य पुरतो बली ॥ ७ ॥
कोलाहलो महानासीद् देवानां धावतां भृशम् ।
कोऽयं कोऽयं कथं यातोऽकस्मादिन्द्रसमीपतः ॥ ८ ॥
घ्नन्तु बध्नन्तु सुदृढं दूरीकुर्वन्त्वमुं नरम् ।
इति ते धावमानास्ते सर्वे तेन निराकृताः ॥ ९ ॥
उड्डीयोड्डीय सहसा निपत्य च पुनः पुनः ।
तदुड्डानान्निपतिताः स्त्रीगर्भाश्च महाद्रुमाः ॥ १० ॥
कम्पिता पृथिवी सर्वा सपर्वतवनाकरा ।
तदङ्गदीप्त्या श्यामास्ते जाता विबुधसत्तमाः ॥ ११ ॥
यथाऽऽमयजितो मर्त्यो याति सद्यो विवर्णताम् ।
तद्वत् तद्दर्शनात्सर्वे विवर्णत्वं गताः सुराः ॥ १२ ॥
इन्द्रोऽपि विह्वलो जातो विवर्णश्च तदा मुने ।
केचिद् दश दिशो याताः सन्नद्धा केऽपि चाभवन् ॥ १३ ॥
केचित् तं शरणं याता अत्यधीराः सुराधमाः ।
तत इन्द्रश्चतुर्दन्तं वज्रहस्तः समारुहत् ॥ १४ ॥
जगर्ज सुमहाभीमं चकम्पे भुवनत्रयम् ।
किं पश्यतेत्युवाचैनान् सन्नद्धान् सुरसत्तमान् ॥ १५ ॥
पौरुषं क्व गतं तावद् यवदत्रागतोऽसुरः ।
ततस्ते पुरतो जग्मुः सङ्ग्रामाय कृतोद्यमाः ॥ १६ ॥
सद्योत्सुकान् सुरान्प्रेक्ष्य प्रोचे देवान्तको हरिम् ।
किमर्थं श्रमसे शक्र विचारय वरान्मम ॥ १७ ॥
अन्तको भयसन्त्रस्तः पलायनपरो गतः ।
तृणप्रायं तु ते वज्रं मन्येऽहं शङ्कराज्ञया ॥ १८ ॥
मच्छ्वासात्सर्वतो यान्ति देवास्त्वद्दृष्टिवर्तिनः ।
श्रूयतां मद्वचः शक्र साम्नैव दीयतां मम ॥ १९ ॥
पदानि स्वानि सर्वाणि स्थीयतां यत्र कुत्रचित् ।
अन्यथा सकलं हित्वा वृथा मृत्युं प्रयास्यसि ॥ २० ॥
देवान्तकेति मन्नाम न जानासि कथं सुर ।
॥ ब्रह्मोवाच ॥
इति तद्वचनं श्रुत्वा बिभिदे हृदयं हरेः ॥ २१ ॥
शक्रस्य च मुखादग्निः प्रबलो निर्गतो बहिः ।
अतितप्ते यथा तैले जलपाताद् यथा भवेत् ॥ २२ ॥
तत ऊचे महेन्द्रस्तं क्रोधावेशसमन्वितः ।
त्वादृशाः कति कति न निहता दानवा मया ॥ २३ ॥
त्वमिदानीं वराद् गर्वादागतोऽस्यसुराधम ।
वज्रपाताद्धतो नूनं धरण्यां निपतिष्यसि ॥ २४ ॥
अन्यपदप्रधानो हि समासो नाम्नि ते बली ।
ततः शक्रोऽहनत् तं तु वज्रेण दृढमुष्टिना ॥ २५ ॥
वज्रं तच्छतधा भिन्नमामभाण्डं च्युतं यथा ।
देवान्तकोऽच्छिन्नरोमाऽऽतिष्ठदाजौ निराकुलः ॥ २६ ॥
ततोऽसौ मुष्टिना पृष्ठे जघान सुरसत्तमम् ।
तेनासौ पतितो भूमौ वाताहत इव द्रुमः ॥ २७ ॥
पौरुषं तस्य बुद्ध्यैव पपाल बलसूदनः ।
अधावद्वेगतः पृष्ठे सिंहो मृगगणानिव ॥ २८ ॥
व्यादाय भीषणं वक्त्रं पलयन्तमुवाच सः ।
पलायसे किमधुना वल्गना क्व गता तव ॥ २९ ॥
सम्मुखो भव शक्र ! त्वं सर्वदेवगणैः सह ।
असम्मुखं पलायन्तं न हन्ति वीरसत्तमः ॥ ३० ॥
स्वयं तत्पुरतो भूत्वा मारयामास तान् सुरान् ।
मुखे चपेटिकां दत्त्वा गतासूंस्तानपातयत् ॥ ३१ ॥
भ्रामयित्वा ततश्चैकं पोथयामास भूतले ।
लत्तया मुष्टिना कांश्चित् कूर्पराघाततोऽपरान् ॥ ३२ ॥
कण्ठेगृहीत्प्राणघातं चकर्ष चापरान् सुरान् ।
केषाञ्चिज्जानुनी भित्त्वा केषाञ्च्चिच्च भुजावपि ।
उरुयुग्मं च केषाञ्च्चिक्षेप दूरतोऽपि तान् ॥ ३३ ॥
उत्तानाः पतिताः केचित्केचिन् न्युब्जास्तथा सुराः ।
केचिन्मुखप्रहारं च चक्रर्गन्तुमनीश्वराः ॥ ३४ ॥
केचित्तु तर्कयामासुर्मनसा दुःखितेन च ।
अकस्मात्प्रलयं किं नु प्रारभज्जगदीश्वरः ॥ ३५ ॥
सुविशीर्णाः सुराः सर्वे गजाः सिंहार्दिता यथा ।
ततः स्वयं जगर्जाशु जयशाली सुरान्तकः ॥ ३६ ॥
यथा मेघेषु गर्जत्सु गर्जते बर्हिमण्डली ।
भास्करीं भास्करस्त्यक्त्वा यातो दूरतरं ततः ॥ ३७ ॥
सर्वेऽपि पपलुर्देवास्त्यक्त्वा स्वस्वपदानि च ।
ततः स्वयं शक्रपदे तस्थौ निर्भयचेतसा ॥ ३८ ॥
सर्वे सुरा गता हेमगिरिगह्वरमुत्तमम् ।
कन्दमूलफलान्यादन्निन्युर्दुःखेन वासरान् ॥ ३९ ॥
ततोऽगुर्भूतलाद् दिग्भ्योऽसङ्ख्येया दैत्यदानवाः ।
चक्रुर्नानाविधैर्द्रव्यैर्नानातीर्थाहृतैर्जलैः ॥ ४० ॥
नानर्षिमन्त्रनिचयैरभिषेकं सुरान्तके ।
शङ्खभेरिमृदङ्गादिदुन्दुभीनां च निस्वनैः ॥ ४१ ॥
उचुस्तं स्वामिनं दैत्यास्त्वादृग्दैत्यकुले न च ।
जातो वा भविता वापि भवानाज्ञां करोतु नः ॥ ४२ ॥
॥ ब्रह्मोवाच ॥
एवमेकाकिना तेन जिताः शक्र पुरोगमाः ।
राज्यं चकार देवानामरक्षच्चामरावतीम् ॥ ४३ ॥
ततोऽयात् सत्यलोकं स दैत्यकोटिसमन्वितः ।
ब्रह्माऽपि प्रययौ तत्र यत्र देवाः पुरा गताः ॥ ४४ ॥
तत्रैकं नायकं स्थाप्य वैकुण्ठमगमच्च सः ।
ब्रह्मणो यानमारुह्य कदाचिच्छाक्रमेव च ॥ ४५ ॥
लक्ष्म्या सह ततः पूर्वं क्षीराब्धिमगमद्धरिः ।
अत्याप्तं परमं दैत्यं तत्र स्थाप्य व्यचारयत् ॥ ४६ ॥
किं मया न जितं दैत्या ब्रुवन्तु यामि तत्र वै ।
तेऽब्रुवन्नैव शेषोऽस्ति देवानां विषयःक्वचित् ॥ ४७ ॥
लोकपालपदे स्थाप्य नानादैत्यान् जनस्य च ।
निरातङ्को निरुद्योगः संरक्षस्वामरावतीम् ॥ ४८ ॥
इत्यमात्यवचः श्रुत्वामुदा परमया युतः ।
देवान्तकश्चकाराऽसौ तद्वाक्यं सम्यगीरितम् ॥ ४९ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे देवलोकविजयोनाम तृतीयोऽध्यायः ॥ ३ ॥

 इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-उपासना-खण्ड-अध्याय-03

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें