श्रीगणेशपुराणे क्रीडाखण्डे द्वितीयोऽध्यायः
॥ व्यास उवाच ॥
अनुष्ठानं कथं ब्रह्मन् कुत्र वा तौ प्रचक्रतुः ।
तत्सर्वं विस्तराद्ब्रूहि सादरं मम पृच्छतः ॥ १ ॥
॥ ब्रह्मोवाच ॥
साधु पृष्टं त्वया व्यास सर्वं ते कथयेऽधुना ।
चक्रतुस्तावनुष्ठानं देवान्तकनरान्तकौ ॥ २ ॥
पित्रौराज्ञां गृहीत्वैव जग्मतुर्गहनं वनम् ।
न सञ्चारो यत्र वायोर्नानाद्रुमलताकुलम् ॥ ३ ॥
वापीकासारसहितं पुष्पपल्लव शोभितम् ।
विशालगह्वरगिरिनानाप्रस्तरशालि च ॥ ४ ॥
तत्र स्थितावुभावेतौ प्रारभेतां महत्तपः ।
एकाङ्गुष्ठे स्थितौ चौभौ तत्र तौ स्थिरचेतसा ॥ ५ ॥
जपन्तौ नारदप्रोक्तां विद्यां पञ्चाक्षरीं शुभाम् ।
ध्यायन्तौ शङ्करं देवं सहस्रपरिवत्सरान् ॥ ६ ॥
निराहारौ वायुभक्षौ शरदां द्विसहस्रकम् ।
सहस्रवर्षं पत्राणि पक्वानि जक्षतुश्च तौ ॥ ७ ॥
एवं दशसहस्राणि वर्षाणि जपतोर्ययुः ।
विवृद्धे भूरितपसि ततश्च तेजसा तयोः ॥ ८ ॥
सूर्योऽभून्मन्दकिरणो भस्मोद्धूलित देहयोः ।
व्याघ्राजिने चाक्षमाले बिभ्रतोगजचर्मणी ॥ ९ ॥
पुपूजतुरुषःकाले शम्भुं कुसुमपल्लवैः ।
तस्मिंस्तपोवने तात तयोरद्भुततेजसा ॥ १० ॥
जातिवैराः सुनिर्वैरा आसन् सिंहगजादयः ।
एवं तत्तपसा तुष्ट पञ्चवक्त्रस्त्रिलोचनः ॥ ११ ॥
दशबाहूरपणाङ्गो व्याघ्रेभचर्मशूलवान् ।
बिभ्रच्छिरसि गङ्गां च डमरुं दक्षिणे करे ॥ १२ ॥
फणिहारसमायुक्तो रुण्डमालालसद्गलः ।
वृषारुढो नीलकण्ठः प्रभया भासिताम्बरः ॥ १३ ॥
नानालङ्कारसंयुक्तः श्वेताङ्गश्चन्द्रशेखरः ।
दृष्ट्वा तौ तादृशं देवं हर्षमापतुरुत्तमम् ॥ १४ ॥
ननर्ततुरुभौ पश्चात् साष्टाङ्गं प्रणिपेततुः ।
बद्धाञ्जलिपुटौ तौ तं देवदेवं समूचतुः ॥ १५ ॥
धन्यौ नौ पितरौ देवजनुषी नयने तपः ।
धन्यं कुलं च देहौ च यतो दृष्टो महेश्वरः ॥ १६ ॥
वेदान्ताऽगोचरोऽगम्यो वाचो यस्मादुपावृत्ताः ।
आगमः कुण्ठितो यत्र षट्शास्त्राण्यथ मानसम् ॥ १७ ॥
सहस्रवदनः स्तोतुं न क्षमः सनकादयः ।
न शक्ताः सर्वजगतः कर्ता पाताऽपहारकः ॥ १८ ॥
रङ्कं करोति राजानं राजानं रङ्कमेव च ।
सर्पं करोति वलयं वलयं सर्पमेव च ।
मृतं करोति जीवन्तं मृतमेवच ॥ १९ ॥
अधनं यो धनाढ्यं च धनाढ्यमधनं तथा ।
श्रुत्वैवं स तयोर्वाणीं प्रोवाच च उमापतिः ॥ २० ॥
साधु साधु श्रुतं वाक्यामृतं वां समुदा मया ।
तपसा परितुष्टो वां वृषारूढः सहोमया ॥ २१ ॥
आगतो ध्याननिष्ठाभ्यां याचेतां वाञ्छितान् वरान् ।
॥ ब्रह्मोवाच ॥
अन्धकारेरिदं वाक्यं श्रुत्वा तौ प्रोचतुस्तदा ॥ २२ ॥
हर्षगद्गदया वाचा देवान्तकनरान्तकौ ।
यदि तुष्टोऽसि देवेश सर्वेश जगदीश्वरः ॥ २३ ॥
यदि त्वया वरा देया यद्यनुग्राह्यता च नौ ।
तदा देवमनुष्येन्द्रयक्षरक्षः पिशाचतः ॥ २४ ॥
मानवोरगगन्धर्वाप्सरः किन्नरतोऽपि च ।
सर्वशस्त्रास्त्रयोर्ववन्यग्राम्यपश्वादितोऽपि च ॥ २५ ॥
ग्रहनक्षत्र भूतेभ्यो दानवासुरतोऽपि च ।
न दिवा न च रात्रौ वा कृमिकीटादितोऽपि वा ॥ २६ ॥
मृत्युः कदापि नौ स्यात्ते प्रसादाज्जगदीश्वर ।
त्रैलोक्यराज्यं नौ यच्छ भक्तिं ते चरणेऽपि च ॥ २७ ॥
॥ ब्रह्मोवाच ॥
तौ जगाद ततः शूली प्रसन्नस्तपसा तयोः ।
समाकर्ण्य वरान् सर्वान् भक्तयोर्वृषभध्वजः (निजभक्तामराङ्घ्रिपः) ॥ २८ ॥
॥ शिव उवाच ॥
यद्यद्वांवाञ्छितं सर्वतत्तथा न तदन्यथा ।
अभयं सर्वतोऽमृत्युस्त्रैलोक्ये राज्यमेव च ॥ २९ ॥
लप्स्यथो लप्स्यते चापि भवद्भ्यामन्तको भयम् ।
तयोः शीर्ष्णोरधाच्छम्भुरभयं करपङ्कजम् ॥ ३० ॥
एवं प्राप्येप्सितान् कामानन्तर्धानं ययौ शिवः ।
तावनुज्ञां ततो गृह्य तस्मिन्नन्तर्हिते गृहम् ॥ ३१ ॥
ईयतुस्तं परिक्रम्य प्रणम्य च प्रपूज्य च ।
हर्षेण पितरौ दृष्ट्वा नेमतुर्भृशहर्षितौ ॥ ३२ ॥
आलिङ्ग्य पितरौ तौ तु निजवृत्तान्तमूचतुः ।
आघ्राय मस्तकं प्राह पिता तौ तनयौ मुदा ॥ ३३ ॥
युवयोः सुवरप्राप्त्या दर्शनाच्छङ्करस्य च ।
पावितं जन्म च कुलमर्जितं सुमहद्यशः ॥ ३४ ॥
श्रुत्वोदन्तं शीतलानि जातान्यङ्गानि मे सुतौ ।
जाता चामृतपानस्य परा तृप्तिर्न संशयः ॥ ३५ ॥
मात्राभ्यक्तौ बुभुजतुस्ततोऽन्नं विविधं शुभम् ।
पित्रासमं ब्राह्मणैश्च वेदशास्त्रविशारदैः ॥ ३६ ॥
ततः सा पूजयामास नानालङ्कारभूषणैः ।
तौ पुत्रौ ब्राह्मणांश्चैव तेभ्यो गृह्यशिषो बहु ।
विससर्ज प्रणम्यैतान् व्यतीयतुरुभौ निशाम् ॥ ३७ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे देवान्तकनरान्तकवरप्राप्तिवर्णनं नाम
द्वितीयोऽध्यायः ॥ २ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें