श्रीगणेशपुराणे क्रीडाखण्डे चतुर्थोऽध्यायः
भूतलरसातलविजय
॥ व्यास उवाच ॥
देवान्तकस्य चरितं श्रुतं भक्त्या तवाननात् ।
इदानीं वद मे ब्रह्मन् नरान्तकविचेष्टितम् ॥ १ ॥
॥ ब्रह्मोवाच ॥
शृणुष्वावहितो ब्रह्मन् सम्यक् सत्यवतीसुत ।
कथयिष्येऽधुना तत् तु दृष्ट्वा ते परमादरम् ॥ २ ॥
नरान्तको महीं गत्वा नानादैत्यगणान्वितः ।
चकार कदनं राज्ञां मारयामास काँश्चन ॥ ३ ॥
सर्वे तं शरणं याता दृष्ट्वा राज्ञो हतान् बहून् ।
यद्यत्सैन्यं पश्यति स्म तत् तद् याति दिशो दश ॥ ४ ॥
यथा ज्ञानेन चाज्ञानं यथा सूर्योदये तमः ।
एवं भूमण्डलं सर्वं वशे चक्रे नरान्तकः ॥ ५ ॥
ये तु तं शरणं यातास्तदीयत्वात्पदे स्थिताः ।
ये हतास्तत्सुतास्तेन स्थापिताः करदाः कृताः ॥ ६ ॥
ये तु यद्धोद्यता भूपास्तेऽपि सेवाकृतोऽभवन् ।
तेषां पदेषु दैत्यान् सोऽस्थापयत् स्वस्य सम्मतान् ॥ ७ ॥
पालयामास पृथिवीं समुद्रवलयाङ्किताम् ।
आतङ्कभारसन्तप्ता देवदानवकिन्नराः ॥ ८ ॥
मुनयोऽयुर्गिरिगुहां यज्ञ स्वाध्यायवर्जिताः ।
वेदत्यागस्य दोषेण मनसा चाभ्यसन् श्रुतीः ॥ ९ ॥
आतङ्काक्रान्तमनसो न तपस्यां च चक्रिरे ।
ततो नरान्तको दैत्यान् नागलोकजिगीषया ॥ १० ॥
प्रास्थापयत् सुबलिनो नानामायाविशारदान् ।
ते तार्क्ष्यरूपाः संयाता बभक्षुरुरगोत्तमान् ॥ ११ ॥
असङ्ख्याता भक्षितास्तैस्ततः शेषो ययौ पुरः ।
मुक्ताफलानि रत्नानि सहनागाङ्गनायुतः ॥ १२ ॥
अनेकदिव्यवस्त्राणि प्रगृह्य रुचिराणि सः ।
तानि सर्वाणि दत्त्वैव साम चक्रेऽसुरैः सह ॥ १३ ॥
शासनं परिजग्राह नरान्तकसमीरितम् ।
करभारं वार्षिकं स स्वीचक्रेऽनन्तशीर्षकः ॥ १४ ॥
तथापि दैत्यस्तत्राप्यस्थापयद् दैत्यपुङ्गवम् ।
अनेक दैत्यसहितं सर्वाध्यक्षं रसातले ॥ १५ ॥
आज्ञापयामास च तं तत्रस्थं स नरान्तकः ।
यदैव विकृतिं पश्येरुरगाणां तदैव नः ॥ १६ ॥
दूतमुखात् सूचयस्व हनिष्यामोऽखिलानहीन् ।
इत्थं शिक्षाप्य तं ते तु दैत्याः सर्वे नरान्तकम् ॥ १७ ॥
मृत्युलोके स्थितं याता वृत्तान्तं सर्वमब्रुवन् ।
नरान्तकः सदाऽप्रेषीन् मृत्युपाताललोकजम् ॥ १८ ॥
देवान्तकाय वृत्तान्तं सर्वस्य यमनुष्ठितम् ।
उपायनानि सर्वाणि स्वर्लोके दुर्लभानि च ॥ १९ ॥
देवान्तकोऽथाऽप्रैषीत्तं दुर्लभं यच्च भूतले ।
एवं त्रैलोक्यराज्यं तौ चक्राते परया मुदा ॥ २० ॥
॥ सोमकान्त उवाच ॥
कथमेतौ हतौ केन रूपेण तद् वदस्व मे ।
केनास्त्रेण च शस्त्रेण ह्यवतारेण केन च ॥ २१ ॥
॥ भृगुरुवाच ॥
एवमेव कृतप्रश्नो व्यासमूचे चतुर्मुखः ।
या कथां परया प्रीत्या तामेव त्वां ब्रवीम्यहम् ॥ २२ ॥
॥ ब्रह्मोवाच ॥
दुर्जयौ वरगर्वौ तौ येन रूपेण घातितौ ।
येनावतारेण मुनें येन शस्त्रेण चास्त्रतः ॥ २३ ॥
सम्प्राप्ता ब्रह्मणा लोका देवाश्च स्वपदे स्थिताः ।
तत्सर्वं कथयिष्यामि सादरं श्रूयतां मुने ॥ २४ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे भूतलरसातलविजयोनाम चतुर्थोऽध्यायः ॥ ४ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें