पेज

श्रीगणेशपुराणे क्रीडाखण्डे विंशतितमोऽध्यायः

श्रीगणेशपुराणे क्रीडाखण्डे विंशतितमोऽध्यायः
बालचरिते दैत्यत्रयवध

॥ व्यास उवाच ॥

काशिराजगृहे ब्रह्मन् विवाहः स कदाऽभवत् ।
तन्ममाचक्ष्व भगवन् विस्तराच्चतुरानन ॥ १ ॥
॥ ब्रह्मोवाच ॥
एकैकं नश्यतेऽरिष्टमपरं याति वै पुनः ।
अस्मिन्नष्टे करिष्यामीत्येवं यावद् विचार्यते ॥ २ ॥


कूपे च कन्दरे नष्टे त्रयोऽप्यन्ये उदीरिताः ।
अन्धकोऽम्भासुरस्तुङ्गो राक्षसाः क्रूरदर्शनाः ॥ ३ ॥
जिघांसया गता बालं ततो युद्धमवर्तत ।
श्रुत्वा येषां तु सङ्ग्रामं ब्रह्माद्याः प्रापलन् भयात् ॥ ४ ॥
दिग्गजा मर्दिता यैस्तु विबुधानां तु का कथा ।
कदा यं कश्यपसुतो भविता दृष्टिगोचरः ॥ ५ ॥
नाशयामोऽनेकधा तमिति व्यवसिता भृशम् ।
यावन्तः प्रेषिता वीरास्तावन्तो निधनं गताः ॥ ६ ॥
वयमेनं हनिष्यामोऽजित्वा यामो न वै गृहान् ।
वह्निरूपं समास्थाय दाहयामो मुनेः सुतम् ॥ ७ ॥
अन्धकस्त्वब्रवीत् तत्र तमसा व्याप्य खं दिशः ।
अन्धकारं करिष्यामि धरायामथ सर्वतः ॥ ८ ॥
ततः परस्परदृर्शिर्न स्यात्तेषां कदाचन ।
अम्भासुरोऽब्रवीत्तत्र महीं सर्वां जलेन ह ॥ ९ ॥
आपुरं प्लावयिष्यामि समन्तान् न गतिर्भवेत् ।
तुङ्गोऽब्रवीदहं तुङ्गो गिरिर्भूत्वा पुरीं तु ताम् ॥ १० ॥
आलोड्य चूर्णयिष्यामि सपक्ष इव पर्वतः ।
अन्धकारे जले वह्नौ पर्वते सर्वतः स्थिते ॥ ११ ॥
कोऽपि गन्तुं न शक्नोति कथं बालो गमिष्यति ।
एवं निश्चितसङ्कल्पा जगर्जुस्ते त्रयो भृशम् ॥ १२ ॥
तेषां गर्जितशब्देन कम्पितं भुवनत्रयम् ।
तत्यजुर्निजवेलान्ते सागराः क्षुभितोदकाः ॥ १३ ॥
ततो रविं समाच्छाद्य तस्थौ तत्रान्धकासुरः ।
अन्धकारेमहाघोरे न प्राज्ञायत किञ्चन ॥ १४ ॥
अकस्माद् रजनी प्राप्ता व्यवसाय परैर्जनैः ।
स्नानासक्तैर्जपासक्तैर्होमासक्तैर्नृभिस्तदा ॥ १५ ॥
तपःसु वेदघोषेषु विवाहोपनयादिषु ।
कीर्तनेषु पुराणेषु द्विजदेवार्चनादिषु ॥ १६ ॥
सक्तैर्नानाविधैर्लोकैर्निशा प्राप्ता व्रतादिषु ।
जजल्पुः किमु विन्ध्योऽयं रुणद्धि सूर्यमण्डलम् ॥ १७ ॥
अथवा प्रलयो भावी वोपरागः समागतः ।
सभायामूचुरासीनं राजानमिति पण्डिताः ॥ १८ ॥
तर्कयन्ति यावदेव गावोऽगुः स्वगृहान्तरम् ।
असम्भावितवेलासु चक्रुर्दीपान् गृहे गृहे ॥ १९ ॥
कथमस्तमितिर्जाता न पाको न च भोजनम् ।
व्यस्मयन्त तदा नार्यो दुदुहुर्गाश्च काश्चन ॥ २० ॥
दीपिकाभिः काष्ठदीपैर्व्यवहारं जनास्तदा ।
चक्रुर्दुःखेन कार्याणि वाणिजो ब्राह्मणादयः ॥ २१ ॥
सेवकानां महानन्दः कामिनां चाभवत् तदा ।
सालसानां प्रसुप्तानां निद्रालूनां तथैव च ॥ २२ ॥
एवं कृते चान्धकेन नाम्ना चाम्भासुरस्तदा ।
मेघरूपेण ववृषे धारा हस्तिकरोपमाः ॥ २३ ॥
शम्पाप्रकाशतो लोकाः क्षणमीक्षां प्रचक्रिरे ।
जलधारा भयात्सर्वे गृहमध्ये स्थिरास्तदा ॥ २४ ॥
प्रासादान्यपतत् केचिद्गृहाणां भित्तिका अपि ।
अन्तः केचिद्बहिः केचिन्मृता जनचयास्तदा ॥ २५ ॥
झञ्झावात हता वृक्षाः पतिता धरणीतले ।
सौदामिनीभिर्निर्दग्धा द्रुमा गृहचया बहु ॥ २६ ॥
उत्तीराभिर्नदीभिः सा समुद्रैरिव संप्लुता ।
नगरी सर्वलोकाढ्या सर्वसत्त्वसमाकुला ॥ २७ ॥
॥ ब्रह्मोवाच ॥
प्रलयं दैत्यमायां च ज्ञात्वा स करुणाकरः ।
विनायकोऽकरोन्मायां बलेन वटमुच्चकैः ॥ २८ ॥
निर्ममे तत्क्षणादेकं लतागुल्मैः सुशोभितम् ।
शतयोजनविस्तीर्णं जटाशाखासमन्वितम् ॥ २९ ॥
पक्षिरूपेण तत्रासौ स्थितो गगनलेहिनी ।
पक्षौ भूमौ प्रतिष्ठाप्य स्पृशंश्च शिरसा नभः ॥ ३० ॥
प्रकाशयामास पुरीं पीत्वा चञ्च्वा जलं महत् ।
करेणाशोषयद् वन्यकरीव पल्वलोदकम् ॥ ३१ ॥
जना हर्षाद् हि जगदुर्गतो विघ्नो गतं जलम् ।
गतेऽन्धकारे ददृशुर्वटं सान्द्रतरं च तम् ॥ ३२ ॥
पक्षिणं चाद्भुताकारं न दृष्टं न च वै श्रुतम् ।
सर्वे जना ययुस्तत्र न्यग्रोधे स्थातुमुत्सुकाः ॥ ३३ ॥
अश्वर्गजैरथैरुष्ट्रैः शिबिकाभिर्नृभिस्तु तैः ।
स्त्रीभिर्दासैः काशिराजो वटस्याधः समाययौ ॥ ३४ ॥
पशवः सारमेयाश्च बिडाला वनगोचराः ।
विनायकप्रभावेण न वृष्टिस्तत्र नो तमः ॥ ३५ ॥
चक्रुः सर्वे पूर्ववत् ते वर्णाः कर्म यथाविधि ।
पौराः सद्व्यवसायेषु समसज्जन्त पूर्ववत् ॥ ३६ ॥
सर्वेषां रक्षणं कर्तुं पक्षिरूपमधारयत् ।
जगदीशो गणेशो नु न जानीमोऽत्र किञ्चन ॥ ३७ ॥
विस्तार्य पक्षान् वृष्टिं यो न्यषेधीद् दैत्यकारिताम् ।
वृष्टिं सोल्कां सकरकां स्वयं सेहे सुखेन सः ॥ ३८ ॥
इति लोकास्तर्कयित्वा स्थिता निर्व्याकुलास्तदा ।
एकादश गता घस्रा एवं तत्र स्थितस्य च ॥ ३९ ॥
नाज्ञासीत् कोऽपि चरितं विनायककृतं द्विज ।
दृष्ट्वा विनायकं बालं क्रीडन्तं बालयूथगम् ॥ ४० ॥
ततो दैत्यो क्षीणशक्ती निश्चेष्टौ समपद्यताम् ।
तुङ्गो जगर्ज बहुधा नादयन् प्रदिशो दिशः ॥ ४१ ॥
गिरिरूपं समास्थाय हनिष्ये पक्षिणं क्षणात् ।
ब्रुवन्नेवं क्षणेनासौ पर्वतोऽभूदे भयङ्करः ॥ ४२ ॥
सरोनदीसमायुक्तः पञ्चयोजनविस्तृतः ।
दिव्यौषधीभिर्दीप्ताभिर्भासयन् गगनं दिशः ॥ ४३ ॥
नानापक्षिसमायुक्तो वाडवाश्रममण्डितः ।
सपक्षं पर्वतं दृष्ट्वा पतमानं स पक्षिराट् ॥ ४४ ॥
उड्डीय परिबभ्राम वारयामास तज्जलम् ।
घूर्णयन् पक्षवातेन जङ्गमाजङ्गमम् जगत् ॥ ४५ ॥
प्रस्था निपतिता भूमौ पर्वतानामितस्ततः ।
चञ्च्वा दध्रे स तुङ्गाद्रिं काश्यपिः फणिनं यथा ॥ ४६ ॥
सह तेनाभ्रमन् खेऽसौ लक्षयन् दानवावुभौ ।
अन्धकं चरणैकेन परेणाम्भासुरं च सः ॥ ४७ ॥
अतिक्रम्य भुवर्लोकमियाय स महाखगः ।
अतिभ्रमणखिन्नास्ते तप्ताश्च सूर्यरश्मिभिः ॥ ४८ ॥
निपेतुर्व्यसवो भूमौ त्रयः पर्वतसन्निभाः ।
पतन्तश्चूर्णयामासुर्वनान्युपवनानि च ॥ ४९ ॥
द्रष्टुं दैत्यशरीराणि स्त्रीबालसहिता जनाः ।
ययुस्ते नगराभ्याशे वीक्ष्याश्चर्यं परं ययुः ॥ ५० ॥
खण्डानि तच्छरीराणां खण्डशैला इवाबभुः ।
निरस्य मायां दैत्यानां ततो लोका विसिस्मिरे ॥ ५१ ॥ (मायायां सन्निरस्तायां लोकास्तत्र विसिस्मिरे)
वटं तं देवरूपेण ददृशुर्न च वै पुनः ।
अन्तर्हिते वटे पक्षिरूपं तत्याज सोऽर्भकः ॥ ५२ ॥
ततो विनायकं बालं काशिराजो लिलिङ्ग ह ।
पृष्ट्वा कुशलसम्प्रश्नं नागराश्च नृपश्च तम् ॥ ५३ ॥
पुपूजः परमप्रीत्या विघ्ननाशं विनायकम् ।
प्रशशंसुर्मुदा देवं कश्यपस्य सुतं जनाः ॥ ५४ ॥
न जानीमो वयं देवं मायां दैत्यकृतां पराम् ।
सामर्थ्यं ते गुणांश्चापि यत्र वेदा विकुण्ठिताः ॥ ५५ ॥
लीलया रक्षिताः सर्वे मोचिता बहुसङ्कटात् ।
वाता गता विनाशं च उत्पाताश्चैव वृष्टयः ॥ ५६ ॥
भाति बिम्बं रवेः सम्यगन्धकारे गते लयम् ।
मनांसि सर्वलोकानां प्रसन्नानि मुदा तदा ॥ ५७ ॥
नद्यः प्रसन्नसलिलाः सर्वमासीद् यथा पुरा ।
ववर्षुः पुष्पवर्षाणि देवदेवे विनायके ॥ ५८ ॥
नानावाद्यनिनादैस्तेऽलङ्कृतं पुरमाविशन् ।
ददुर्दानानि विप्रेभ्यो देवो नः प्रीयतामिती ॥ ५९ ॥
शान्तिहोमं विधायाऽसौ नृपोऽदाद् गोधनं बहु ।
विसृज्य सर्वान् बुभुजे विनायकयुतो नृपः ॥ ६० ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते दैत्यत्रयवधोनाम विंशतितमोऽध्यायः ॥ २० ॥

  इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-क्रीडाखण्डे-खण्ड-अध्याय-20

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें