पेज

श्रीगणेशपुराणे क्रीडाखण्डे पञ्चमोऽध्यायः

श्रीगणेशपुराणे क्रीडाखण्डे पञ्चमोऽध्यायः
अदितिवरप्राप्तिवर्णनं

॥ ब्रह्मोवाच ॥

ममैव मानसः पुत्रः कश्यपो बुद्धिमत्तरः ।
पुण्यवान् धर्मशीलश्च तपस्वी विजितेन्द्रियः ॥ १ ॥
अतिकारुणिको लोके दुःखशोकावमर्दनः ।
वर्तमानं भूतभावि जानाति मीलितेक्षणः ॥ २ ॥


मनसा सृष्टिसंहारकर्ता वेदान्तपारगः ।
सर्वशास्त्रार्थतत्त्वज्ञ समलोष्ठाश्मकाञ्चनः ॥ ३ ॥
अदितिर्यस्य ज्येष्ठाऽऽसीत्पत्नी नाम्नाऽतिवल्लभा ।
सर्वलक्षण सम्पूर्णाऽनुपमा सा त्रिविष्टपे ॥ ४ ॥
त्रिलोकीं भस्मसात् कर्तुं पातिव्रत्येन तेजसा ।
शेषो यस्या गुणान् वक्तुं नेशो वक्त्रसहस्रकैः ॥ ५ ॥
सेवन्ते यां सदा चाष्टनायिका गुणलब्धये ।
शक्रादि सुरवृन्दानि जनयामास याऽनघा ॥ ६ ॥
मूलप्रकृतिरूपा सा तादृग् रूपं समाश्रिता ।
सा कदाचित् स्वकं कान्तं मुदितं मुदिताऽब्रवीत् ॥ ७ ॥
स्वामिन् विज्ञप्तुमिच्छामि कृपां कृत्वा वदस्व तत् ।
पतिं विना न चान्याऽस्ति गतिः सद्योषितां प्रभो ॥ ८ ॥
॥ कश्यप उवाच ॥
सम्यगुक्तं त्वया भद्रे मम प्रीतिकरेऽनघे ।
तद् ब्रवीमी समापृच्छ यत्ते मनसि वर्त्तते ॥ ९ ॥
॥ अदितिरुवाच ॥
इन्द्रादयो देवगणाः स्वस्य पुत्रत्वमागताः ।
परमात्मा चिदानन्द ईश्वरो यः परात्परः ॥ १० ॥
यदा स्वपुत्रतामेष्येत् तदा मे स्यात्स्थिरं मनः ।
तस्य सेवां कर्तुमीहे उपायं तत्र मे वद ॥ ११ ॥
येन स पुत्रतामेष्येत् कृतकृत्यं मनो भवेत् ।
॥ मुनिरुवाच ॥
साधु प्रोक्तं महाभागे वचनं परितोषकम् ॥ १२ ॥
यथा जलं तृषार्तस्य क्षुधितस्य च भोजनम् ।
तथा मे वचनं जातं तव देवि सुतोषकृत् ॥ १३ ॥
विना पुण्यं कथं यायात् परमात्मा स्वपुत्रताम् ।
तत्रोपायं वदे तं च हृदि कुरु स्थिरं प्रिये ॥ १४ ॥
योऽगोचरः श्रुतीनां च ब्रह्मादीनामगोचरः ।
निर्गुणो निरहङ्कारो निरीहो निर्विकल्पकः ॥ १५ ॥
योऽमायाविषयो मायानर्तको मायिमोहनः ।
मायातीतोऽपि मायाया आधारः कारणातिगः ॥ १६ ॥
मायाविस्तारकारी च कार्यकारणकारणम् ।
कथं साकारतां गच्छेदनुष्ठानं विना प्रिये ॥ १७ ॥
॥ अदितिरुवाच ॥
कस्य ध्यानं कथं कार्यमनुष्ठानं मयाऽधुना ।
केन मन्त्रेण वा कुर्वे तद् वदस्व महामुने ॥ १८ ॥
॥ ब्रह्मोवाच ॥
एवं पृष्टो मुनिस्तस्यै नाममन्त्रं समादिशत् ।
पञ्चाक्षरं चतुर्थ्यन्तमोङ्कारपल्लवान्वितम् ॥ १९ ॥
नमोऽन्तं ध्यानसहितं न्यासदैवतसंयुतम् ।
पुरश्चरणमार्गं च सर्वं तस्यै न्यवेदयत् ॥ २० ॥
ततः सा मुदिता ब्रह्मन् प्रणिपातपुरःसरम् ।
कश्यपं निजभर्तारं पूजयामास सादरम् ॥ २१ ॥
तदनुज्ञां समादाय जगाम तपसे वनम् ।
स्नाता पवित्रवसना ध्यायन्ति स्थिरचेतसा ॥ २२ ॥
विनायकं देवदेवं न्यासं कृत्वा यथाविधि ।
स्थाने द्रुमलताकीर्णे निर्वाते निरुपद्रवे ॥ २३ ॥
अदिती रुद्धकरणा शुभासनपरिग्रहा ।
जजाप परमं मन्त्रं स्मरन्ती सा विनायकम् ॥ २४ ॥
अनन्यवृत्ति मनसा साक्षात्कारमभीप्सती ।
निराहारा वायुभक्ष्या जपध्यानपरायणा ॥ २५ ॥
तस्यास्तपः प्रभावेन निर्वैराः प्राणिनोऽभवन् ।
धर्षिता देवताः सर्वाः किमियं साधयिष्यति ॥ २६ ॥
एवं वर्षशतं तेपेऽदितिः सा परमं तपः ।
क्लेशान् बहुविधांस्तस्या दृष्ट्वा देवो विनायकः ॥ २७ ॥
स्त्रीभावे च तथा धैर्यमाविरासीद् विनायकः ।
तेजोराशिः पुरस्तस्याः सूर्यकोटिसमप्रभः ॥ २८ ॥
गजाननो दशभुजो कुण्डलाभ्यां विराजितः ।
कामातिसुन्दरतनुः सिद्धिबुद्धिसमायुतः ॥ २९ ॥
मुक्तामालां च परशुं बिभद् यो मेघपुष्पजम् ।
काञ्चनं कटिसूत्रं च तिलकं मृगनाभिजम् ॥ ३० ॥
उरगं नाभिदेशे तु दिव्याम्बरविराजितम् ।
महोराशिं पुरो दृष्ट्वा च कम्पे त्वदितिर्भृशम् ॥ ३१ ॥
निमील्य नयने मूर्च्छामियाय न्यपतद्भुवि ।
जपं ध्यानं विसस्मार चिन्तयामास चेतसा ॥ ३२ ॥
किमागतं मम पुरो भाव्यं किमिदमद्भुतम् ।
विस्मृताऽहं जपं ध्यानं किं वाऽयं परमेश्वरः ॥ ३३ ॥
वरं दातुं समायातो महसा भासयन्दिशः ।
एवं सा विह्वला यावत् तावद् देवो जगाद ताम् ॥ ३४ ॥
॥ विनायक उवाच ॥
सोऽहं देवि दिवारात्रौ यं ध्यायसि च चेतसा ।
दृष्टवा निष्ठां तपो घोरं वरं दातुमुपस्थितः ॥ ३५ ॥
वरयस्व वरान् मत्तो यान् यान् कामयसे हृदा ।
ताँस्तान् दास्यामि सन्तुष्टस्तपसाऽनेन सुव्रते ॥ ३६ ॥
॥ ब्रह्मोवाच ॥
तदीयं वाक्यमाकर्ण्य स्वस्था जाताऽदितिस्तदा ।
बद्धाञ्जलि पुटा दीना प्रणनाम विनायकम् ॥ ३७ ॥
अवदच्च तदा देवमतर्क्यं मनसा सदा ।
॥ अदितिरुवाच ॥
त्वमेव सृजसे विश्वं प्रासि हंस्यखिलेश्वरः ॥ ३८ ॥
नित्यो निरञ्जनो देवो निर्गुणो निरहङ्कृतिः ।
नानारूपधरो नित्यो योगगम्योऽखिलार्थकृत् ॥ ३९ ॥
इदानीं सौम्यरूपेण वरं देहि विनायक ।
यदि तुष्टोऽसि देवेश यदि देयो वरो मम ॥ ४० ॥
तदा मे पुत्रतां याहि ततो मे कृतकृत्यता ।
ततस्ते सेवनं यास्ये साधूनां पालनं भवेत् ॥ ४१ ॥
दुष्टानां निधनं देव लोकानां कृतकृत्यता ।
॥ विनायक उवाच ॥
अहं ते पुत्रतां यास्ये पास्ये साधूंश्च कण्टकान् ॥ ४२ ॥
हनिष्ये सकलां वाञ्छां पूरयिष्ये तवापि च ।
॥ ब्रह्मोवाच ॥
एवमुक्त्वाऽन्तर्दधेऽसौ देवदेवो विनायकः ॥ ४३ ॥
साऽदितिः कश्यपं गत्वा सर्व वृतान्तमब्रवीत् ।
॥ अदिति उवाच ॥
तवाज्ञया गताऽरण्यं तपस्तप्तं महत्तरम् ॥ ४४ ॥
वरं दातुं महोरूप आगतोऽसौ गजाननः ।
दृष्ट्वा स्वरूपं भीताऽस्मि ततो प्रार्थि विनायकः ॥ ४५ ॥
तेन नानाविधा दत्ता वरा मे मुनिसत्तम ।
यास्ये पुत्रत्वमित्युक्त्वाऽन्तर्दधेऽसौ विनायकः ॥ ४६ ॥
सिद्धकार्या तव बलादागता स्वाश्रमं मुने ।
॥ ब्रह्मोवाच ॥
इति तस्या वचः श्रुत्वा वरदानं सुधोपमम् ॥ ४७ ॥
जहर्ष मुनिमुख्योऽसौ तया सह मुनीश्वर ।
रेमाते परयप्रीत्या ह्यमृतादिव निर्वृतौ ॥ ४८ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे अदितिवरप्राप्तिवर्णनं नाम पञ्चमोऽध्यायः ॥ ५ ॥

 इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-उपासना-खण्ड-अध्याय-05

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें