पेज

श्रीगणेशपुराणे क्रीडाखण्डे षष्ठोऽध्यायः

श्रीगणेशपुराणे क्रीडाखण्डे षष्ठोऽध्यायः
विनायकार्भावः

॥ भृगुरुवाच ॥

अथ सा मेदिनी दुष्टदैत्यभारप्रपीडिता ।
वेषान्तरं समस्थाय जगाम कमलासनम् ॥ १ ॥
दीना हस्ताञ्जलिं बद्धवा जगाद पद्मसम्भवम् ।
॥ भूमिरुवाच ॥


जाताऽहं मलिना दीना हीना यज्ञव्रतादिभिः ॥ २ ॥
स्थानभ्रष्टास्तथा देवाः सेन्द्राः सर्षिगणा विधे ।
अतिभाराऽतिसन्तप्ता कं त्वाऽहं शरणं गता ॥ ३ ॥
येनोपायेन दुष्टानां नाशः स्यात् तद्विधीयताम् ।
नो चेद् रसातलं यास्ये सपर्वतजनाकुला ॥ ४ ॥
॥ भृगुरुवाच ॥
इति वाक्यं धरित्र्याः स श्रुत्वा कस्तामथाऽब्रवीत् ।
अहं सर्वे लोकपाला इन्द्राद्या देवतागणाः ॥ ५ ॥
ऋषयोऽपि स्वधास्वाहारहिता दुःखिताभृशम् ।
भ्रष्टस्थाना भ्रष्टमन्त्रा भ्रष्टाचारा यथालये ॥ ६ ॥
सर्वे वयं प्रार्थयामो देवदेवं विनायकम् ।
ब्रह्मरूपं निराकारं जगत्कारणकारणम् ॥ ७ ॥
यदा साकारतां यायाल्लोकानां दैवयोगतः ।
तदा शं सर्वलोकानां स्यात् तवापि वसुन्धरे ॥ ८ ॥
॥ भृगुरुवाच ॥
इत्युक्त्वा तुष्टुवुर्देवं ब्रह्माद्यर्षिगणा मुदा ।
निराकारं च साकारं बद्धाञ्जलिपुटास्तदा ॥ ९ ॥
नमो नमस्तेऽखिल लोकनाथ नमो नमस्तेऽखिल लोकधामन् ।
नमो नमस्तेऽखिललोककारिन् नमो नमस्तेऽखिललोकहारिन् ॥ १० ॥
नमो नमस्ते सुरशत्रुनाश नमो नमस्ते हृतभक्तपोष ।
नमो नमस्ते निजभक्तिपोष नमो नमस्ते लघुभक्तितोष ॥ ११ ॥
निराकृते नित्यनिरस्तमाय परात्परब्रह्ममयस्वरूप ।
क्षराक्षरातीत गुणैर्विहीन दीनानुकम्पिन् भगवन् नमस्ते ॥ १२ ॥
निरामयायाखिलकामपूर । निरञ्जनायाखिलदैत्यदारिन् ।
नित्याय सत्याय परोपकारिन् समाय सर्वत्र नमो नमस्ते ॥ १३ ॥
एवं स्तुत्वा पुनः प्रोचुर्देवदेवं विनायकम् ।
ते सर्वे मुनयो देवा विह्वला भृशदुःखिताः ॥ १४ ॥
हाहाभूतं जगत् सर्वं स्वधास्वाहाविवर्जितम् ।
वयं मेरुगुहां याता आरण्याः पशवो यथा ॥ १५ ॥
अतोऽमुं त्वं महादैत्यं जहि विश्वम्भराऽधुना ।
एवं स्तुवत्स्तु सर्वेषु प्राहं वाणी नभोगता ॥ १६ ॥
कश्यपस्य गृहे देवोऽवतिरिष्यति साम्प्रतम ।
करिष्यत्यद्भुतं कर्म पदानि वः प्रदास्यति ॥ १७ ॥
दुष्टानां निधनं चैव साधूनां पालनं तथा ।
॥ भृगुरुवाच ॥
एवमाकर्ण्य तां वाचं ब्रह्मा प्रोवाच मेदिनीम् ॥ १८ ॥
॥ ब्रह्मोवाच ॥
स्वस्था भव धरे देवि नभोवाणीविनिश्चयात् ।
देवाः सर्वे मृत्युलोकेऽवतरिष्यन्ति त्वत्कृते ॥ १९ ॥
हरिष्यति महाभारमवतीर्णो विनायकः ।
॥ भृगुरुवाच ॥
इत्युक्त्वा सा तदा तेन ब्रह्मणा हृष्टमानसा ॥ २० ॥
स्वस्थानमगमत् साऽथ स्वस्थचित्ता धरा तदा ।
ततो बहुतिथे कालेऽदितिः सा गर्भमादधे ॥ २१ ॥
तेजोऽतिववृधे तस्या दिने दिने यथा शशी ।
सम्पूर्णे नवमे मासे सुषुवे पुत्रमुत्तमम् ॥ २२ ॥
ब्रह्मवाक्यादभूत्ख्यातो नाम्ना कश्यपनन्दनः ।
दशभुजो बहुबलः कर्णकुण्डलमण्डितः ॥ २३ ॥
कस्तुरी विलसद्भालो मुकुटभ्राजिमस्तकः ।
सिद्धिबुद्धियुतः कण्ठे रत्नमालाविभूषितः ॥ २४ ॥
चिन्तामणिलसद्वक्षा जपापुष्पारुणाधरः ।
उन्नसो भृकुटीचारूललाटो दन्तदीप्तिमान् ॥ २५ ॥
देहकान्त्या हततमा दिव्याम्बरयुतः शुभः ।
एतादृशं निरीक्ष्यैनं बालं तत्पितरौ तदा ॥ २६ ॥
तत्तेजसा हतदृशौ किञ्चिद् द्रष्टुं न शेकतुः ।
बलादुन्मील्य नयने दृष्ट्वा तद्रूपमुत्तमम् ॥ २७ ॥
ननन्दतुरुभौ पश्चाद् बालस्ताविदमब्रवीत् ।
॥ बाल उवाच ॥
मातस्त्वया यतः पूर्वं सहस्रपरिवत्सरम् ॥ २८ ॥
येन रूपेण सन्ध्यातस्तनयत्वेन याचितः ।
तदा नानावरान् दत्वा पुत्रत्वं ते गतोऽधुना ॥ २९ ॥
सोऽहं भूभारहरणं विधास्ये सेवनं द्वयोः ।
ब्रह्मादीनां पदप्राप्तिर्दुष्टदैत्यविनाशनम् ॥ ३० ॥
॥ भृगुरुवाच ॥
इत्थमाकर्ण्य तद्वाक्यं सानन्दाश्रू बभूवतुः ।
चक्रवाकौ यथा वीक्ष्य नभसीव दिवाकरम् ॥ ३१ ॥
ऊचतुस्तं तदा पुण्यमद्भुतं नौ समुद्यतम् ।
येन नौ पुत्रतां यातः परमात्मा विनायकः ॥ ३२ ॥
धन्यं कुलं नौ पितरौ जनुषी ज्ञानमेव च ।
यतश्चराचरगुरुः सर्वसाक्षी निराकृतिः ॥ ३३ ॥
नित्यानन्दमयः सत्यः पुत्रत्वमगमच्छुभम् ।
यस्मिंश्चराचरं प्रोतं सूत्रे मणिगणा इव ॥ ३४ ॥
यः सर्वगः सर्ववेत्ता स एव त्वं न संशयः ।
इदं रूपं परं दिव्यमुपसंहर साम्प्रतम् ॥ ३५ ॥
प्राकृतं रूपमास्थाय क्रीडस्व कुहको यथा ।
यदा यद्रूपकृत्यं ते तदा तत्त्वं विधास्यसि ॥ ३६ ॥
इत्थमाकर्ण्य तद्वाक्यं पिदधे रूपमात्मनः ।
द्विभुजः प्राकृतो बालो रुरोद धरणीतले ॥ ३७ ॥
रसातलं च गगनं नादयन्विदिशो दिशः ।
तच्छब्द श्रवणाद् बन्ध्या जाता गर्भवती द्रुमाः ॥ ३८ ॥
नीरसा सरसाः शक्रो जहृषे देवतागणैः ।
भयं बभूव दैत्यान्ना ववृधे धरणी तदा ॥ ३९ ॥
चकार जातकर्माऽस्य कश्यपो ब्राह्मणैः सह ।
प्राशयित्वा मधु घृतं पस्पर्श मन्त्रतश्च तम् ॥ ४० ॥
अपाययत् स्तनौ बालं मन्त्रपाठपुरःसरम् ।
छित्वा नालं तु सङ्क्षाल्य बालं प्रास्वापयच्च सा ॥ ४१ ॥
ददौ दानान्यनेकानि ब्राह्मणेभ्यो मुनिस्तदा ।
अदापयत् प्रतिगृहं सप्तमे दिवसेऽदितिः ॥ ४२ ॥
इक्षुसारं पञ्चमे तु वायनानि महामुदा ।
महोत्कटेति नामास्य चक्र एकादशे पिता ॥ ४३ ॥
बालोऽपि ववृधे शीघ्रं शुक्लपक्षे यथा शशी ।
सर्वेभ्य उत्कटो यस्मान् महोत्कट इति स्मृतः ॥ ४४ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे विनायकाविर्भावोनाम षष्ठोऽध्यायः ॥ ६ ॥

 इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-उपासना-खण्ड-अध्याय-06

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें