श्रीगणेशपुराणे उपासनाखण्डे एकनवतितमोऽध्यायः
॥ व्यास उवाच ॥
अन्यत् कथय मे देव गणेशस्य कथान्तरम् ।
शृण्वतो मे मनोऽत्यन्तमुत्सुकुं भवति प्रभो ॥ १ ॥
॥ ब्रह्मोवाच ॥
एकदा प्रलये वृत्तेऽज्ञापयन्मां गजाननः ।
सृष्टिं नानाविधां ब्रह्मन कुरू त्वं हि ममाज्ञया ॥ २ ॥
अहं प्रकल्पयामास पुत्रान् सप्त हृदा तदा ।
तेषां नामानि ते वच्मि कश्यपो गौतमोऽपि च ॥ ३ ॥
जमदग्निर्वसिष्ठश्च भरद्वाजोऽत्रिरेव च ।
विश्वामित्रश्च सप्तैते सर्वविद्याविशारदाः ॥ ४ ॥
सर्वे मामब्रुवन ब्रह्मन्नाज्ञापय सुरेश्वर ।
मया तु कश्यपोऽज्ञापि बुद्धिमाँस्तेषु चाधिकः ॥ ५ ॥
मत्कार्यं विविधां सृष्टिं कुर्वित्याज्ञापितस्तदा ।
असावोमिति मामुक्त्वा जगाम तपसे वनम् ॥ ६ ॥
जजापैकाक्षरं मन्त्रं दिव्यवर्षसहस्रकम् ।
ततः प्रसन्नो भगवान् द्विरदानन ईश्वरः ॥ ७ ॥
चतुर्भुजोऽरविन्दाक्षो महामुकटमण्डितः ।
पाशाङ्कुशधरो मालादन्तहस्तः शुभाङ्गदः ॥ ८ ॥
सुवर्णमणिरत्नाढ्यो मुक्तामालालसद्गलः ।
सर्पोदरः कोटिसूर्य विलसद्दीप्तिमण्डलः ॥ ९ ॥
विकसन्नेत्रविभ्राजच्चारूशुण्डालसन्मुखः ।
आविरासीत् कश्यपस्य पुर एवं गजाननः ॥ १० ॥
क्षुद्रघण्टानूपुराणां रवान् मुखरिताङ्घ्रियुक् ।
दृष्ट्वा ननर्त तं देवं कश्यपो हर्षनिर्भरः ॥ ११ ॥
नत्वा सम्पूजयामास नानामङ्गलवस्तुभिः ।
बद्धाञ्जलिरूवाचेदं सुप्रसन्नो गजाननम् ॥ १२ ॥
॥ मुनिरुवाच ॥
धन्यो मे जनको माता तपोज्ञानं वपुश्च दृक् ।
धन्येयं धरणी तात वीरूद्वृक्षफलानि च ॥ १३ ॥
धन्य एकाक्षरो मन्त्रो येन दृष्टोऽखिलेश्वरः ।
गजाननः प्रसन्नात्मा परमात्मा परात्परः ॥ १४ ॥
यत्र कुण्ठाश्चतुर्वेदा वेदान्ता मूकतां गताः ।
अगोचरो मनस्तर्कैः सोऽयं देवोमयेक्षितः ॥ १५ ॥
यस्मादाविर्भवन्तीमे हरेशाग्निमुखाः सुराः ।
पातालानि च सप्तैव भुवनानि चतुर्दश ॥ १६ ॥
यत्रैतानि लयं यान्ति सोऽयं देवो मयेक्षितः ।
यो निर्गुणो निराधीशो गुरूगम्यो निराकृतिः ॥ १७ ॥
ब्रह्मेति यं विदुः केचित् सोयं देवो मयेक्षितः ।
॥ ब्रह्मोवाच ॥
एवं वाक्यामृतरसैः परितुष्टो गजाननः ॥ १८ ॥
उवाच कश्यपं नम्रं स्तुवन्तं विविधैः स्तवैः ।
॥ गणेश उवाच ॥
भक्तेःस्तवादनुष्ठानात् प्रीतस्तेऽहं मुनेऽधुना ॥ १९ ॥
वरं वरय मत्तस्त्वं यं यं स मनसेच्छसि ।
॥ कश्यप उवाच ॥
सृष्टिं नानाविधां कर्तुं सामर्थ्यं देहि मे प्रभो ॥ २० ॥
त्वदङ्घ्रिकमले भक्तिमविस्मरणमेव च ।
यायाः प्रत्यक्षतां तत्र स्मरे त्त्वां यत्र चाप्यहम् ॥ २१ ॥
तादृशं देहि मे पुत्रं नाम्ना कश्यपनन्दनम् ।
॥ गणेश उवाच ॥
सर्वं ते वाञ्छितं मत्तो भविताऽऽशु महामुने ॥ २२ ॥
भक्तिर्मेऽविस्मृति स्यात् ते सङ्कटे चान्तिकं व्रजे ।
करिष्यसि विचित्रां त्वं सृष्टिं मम प्रसादतः ॥ २३ ॥
॥ ब्रह्मोवाच ॥
एवमुक्त्वा मुनिर्देवस्तत्रैवान्तरधीयत ।
कश्यपोऽपि मुदा युक्तो निजस्थानं तदा ययौ ॥ २४ ॥
कदाचित् कश्यपोऽकस्मादशरीरप्रपीडितः ।
न चालभत् क्वापि शर्म गृहमध्यं ततोऽगमत् ॥ २५ ॥
नित्यं नैमित्तिकं काम्यं कर्म ध्यानं च नास्मरत् ।
तं तथा विह्वलं दृष्ट्वा योषितोऽस्य चतुर्दश ॥ २६ ॥
दित्यदितिर्दनुकद्रुर्विनताद्याः पुरः स्थिताः ।
बुभुजे क्रमशस्तास्तु नानागारेषु कश्यपः ॥ २७ ॥
काले यथोक्ते सुषुवे दितिर्दैत्याननेकशः ।
अदितिर्देवगन्धर्वान् दनुश्च दानवानथ ॥ २८ ॥
क्रमेण किन्नरा यक्षाः सिद्धचारणगुह्यकाः ।
पशवश्च तथारण्या ग्राम्याश्चासन्ननेकशः ॥ २९ ॥
पृथिवी पर्वता वृक्षाः समुद्राः सरितो लता ।
धान्यानि धातवो रत्नमुक्ताकृमिपिपीलिकाः ॥ ३० ॥
सर्पाः पक्षिगणास्ताभ्यः सर्वमासीच्चराचरम् ।
एवं दृष्ट्वा स सन्तानं जातं नानाविधं तदा ॥ ३१ ॥
जहर्ष कश्यपो धीमान् नानामन्त्रान् समादिशत् ।
शोधायित्वा ऋणधनं सिद्धारिचक्रमीक्ष्य च ॥ ३२ ॥
षोडशार्णं च कस्मैचित् तथाऽष्टादशवर्णकम् ।
एकाक्षरं च कस्मैचिदन्यस्मै च षडक्षरम् ॥ ३३ ॥
पञ्चार्णमष्टाक्षरं च द्वादशाक्षरमेव च ।
कस्मैचिच्च महामन्त्रं ददौ स मुनिपुङ्गवः ॥ ३४ ॥
कुर्वन् त्वनुष्ठितं तावद् यावद्देवो निरीक्ष्यते ।
गजाननोऽखिलाधारः सर्वसिद्धिप्रदायकः ॥ ३५ ॥
एवमाज्ञापयत् ताँश्च ते च जग्मुस्तदैव हि ।
तपसे बहुशो देशान् जेपुः स्वं स्वं मनुं तदा ॥ ३६ ॥
आसने भोजने देवं निद्रायां जागरेऽपि च ।
अनन्यभक्त्या देवेशं संस्मरुस्ते गजाननम् ॥ ३७ ॥
दिव्यवर्षसहस्रान्ते परितुष्टो गजाननः ।
आविरासिदनेकात्मा तत्पुरः करूणानिधिः ॥ ३८ ॥
यो यथा ध्यातवान्देवं तादृशस्तत्पुरोऽभवत् ।
कस्यचित् पुरतश्चासीन् मेघाभोऽष्टमहाभुजः ॥ ३९ ॥
कस्यचित् पुरतस्त्वासीच्छशिवर्णश्चतुर्भुजः ।
अग्रे कस्यचिदारक्तः षड्भुजोऽसौ गणेश्वरः ॥ ४० ॥
सहस्रनयनस्तावद्भुजोऽसावपि कस्यचित् ।
भाति बालस्वरूपोऽपि युवा वृद्धोऽपि भासते ॥ ४१ ॥
दशद्वादशदोर्दण्डो धूम्रवर्णो महन्महः ।
अष्टादशभुजोप्यासीत् कोटिसूर्यसमप्रभः ॥ ४२ ॥
तेजोरूपो महाकाय आखुवाहनपृष्ठगः ।
सिंहगो बर्हिगो वापि गजास्योऽनेकवक्त्रवान् ॥ ४३ ॥
दृष्ट्वा देवं तु ते सर्वेऽनेकधा तुष्टुवुर्मुदा ।
बद्धाञ्जलिपुटा नम्रा भक्त्या देवं गजाननम् ॥ ४४ ॥
॥ सर्वे ऊचुः ॥
यतोऽनन्तशक्तेरनन्ताश्चजीवा यतो निर्गुणादप्रमेयाद्गुणास्ते ।
यतो भाति सर्वं त्रिधा भेदभिन्नं सदा तं गणेशं नमामो भजामः ॥ ४५ ॥
यतश्चाविरासीज्जगत् सर्ववेत्तुस्तथाऽब्जासनो विश्वगो विश्व गोप्ता ।
तथेन्द्रादयो दैत्यसङ्घा मनुष्याः सदा तं गणेशं नमामो भजामः ॥ ४६ ॥
यतो वह्निभानू भवो भूर्जलं च यतः सागराश्चन्द्रमा व्योम वायुः ।
यतः स्थावरा जङ्गमा वृक्षसङ्घाः सदा तं गणेशं नमामो भजामः ॥ ४७ ॥
यतो दानवाः किन्नरा यक्षसङ्घा यतश्चारणा वारणाः श्वापदाश्च ।
यतः पक्षिकीटा यतो वीरुघश्च सदा तं गणेशं नमामो भजमः ॥ ४८ ॥
यतो बुद्धिरज्ञाननाशो मुमुक्षोयतः सम्पदो भक्तसन्तोषिकाः स्युः ।
यतो विघ्ननाशो यतः कार्यसिद्धिः सदा तं गणेशं नमामो भजामः ॥ ४९ ॥
यतः पुत्रसम्पद् यतो वाञ्छितार्थो यतो भक्तिविद्यास्तथाऽनेकरूपाः ।
यतः शोकमोहौ यतः काम एव सदा तं गणेशं नमामो भजामः ॥ ५० ॥
यतोऽनन्त शक्तिः स शेषो बभूव धराधारणेऽनेकरूपे च शक्तः ।
यतोऽनेकधा स्वर्गलोका हि नाना सदा तं गणेशं नमामो भजामः ॥ ५१ ॥
यतो वेदवाचो विकुण्ठा मनोभिः सदा नेति नेतीति ता यं गृह्णन्ति ।
परब्रह्मरूपं चिदानन्दभूतं सदा तं गणेशं नमामो भजामः ॥ ५२ ॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे कश्यपसृष्टिवर्णनं
नामैकनवतितमोऽध्यायः ॥ ९१ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें