पेज

श्रीगणेशपुराणे क्रीडाखण्डे दशमोऽध्यायः

श्रीगणेशपुराणे क्रीडाखण्डे दशमोऽध्यायः
नानानामनिरूपणं

॥ ब्रह्मोवाच ॥

ततस्तु पञ्चमे वर्षे सचौलं व्रतबन्धनम् ।
चकार कश्यपो धीमान् सूत्रोक्तविधिना शुभम् ॥ १ ॥
शुभे मुहूर्ते लग्ने च ब्राह्मणैर्वेदपारगैः ।
आकारिताः शिष्यगणैर्देवदानवराक्षसाः ॥ २ ॥


मुनयो यक्षनागाश्च तथा राजर्षयोऽपि च ।
वैश्याः शूद्रास्तथा याता नानोपायनपाणयः ॥ ३ ॥
ववदुर्बहुवाद्यानि नृदेवैराहतानि च ।
गणेशपूजनं चक्रे स्वस्तिवाचनमेव च ॥ ४ ॥
मण्डपस्थापनं चक्रे मातृकापूजनं तथा ।
चकाराभ्युदयश्राद्धं ब्राह्मणानां तथाऽर्चनम् ॥ ५ ॥
सुहृदां वस्त्रदानं च चकार स यथार्हतः ।
अन्येषां च तथा तेऽपि वस्त्राणि निदधुः पुरः ॥ ६ ॥
होमान्ते पुनरानर्च ब्राह्मणान् कश्यपस्ततः ।
अन्तःपटं वेदिकायां धारयित्वा स सत्वरम् ॥ ७ ॥
कृत्वाऽग्निस्थापनं पूर्वमुपनिन्युश्च बालकम् ।
सुवासिन्यो ब्राह्मणास्तमक्षताभिरवाकिरन् ॥ ८ ॥
तन्मध्ये राक्षसाः पञ्च सुदुष्टा ब्रह्मलिङ्गिनः ।
अस्त्रैस्तमाकिरन् दुष्टास्तत्प्राणहरणेच्छया ॥ ९ ॥
विघातश्चैव पिङ्गाक्षो विशालः पिङ्गलस्तथा ।
चपलश्च महापुण्ड्रा अक्षमालाविभूषिताः ॥ १० ॥
जलपात्रभृतोऽनर्घ्य वस्त्राम्बरधराः शुभाः ।
विशीर्णोऽजायत देहः कुमारस्य तदस्रतः ॥ ११ ॥
ज्ञात्वा कुमारस्तान् दुष्टान् मत्रयामास तण्डुलान् ।
महोत्कटः प्रचिक्षेप तण्डुलान् पञ्च पञ्चसु ॥ १२ ॥
तदैव निर्गतप्राणा निजरूपं समाश्रिताः ।
करालाः पतिता भूमौ विशीर्णा दशयोजनम् ॥ १३ ॥
वज्राघातात् यथा पेतुर्गिरयस्तु बिडौजसः ।
कोलाहलो महानासीद् रजसाऽऽच्छादिता दिशः ॥ १४ ॥
कथं व्यापादिताः पञ्च राक्षसाः कूटरूपिणः ।
क्षणेनानेन बालेन न जानीमोऽखिला अमुम् ॥ १५ ॥
अवतीर्णो भुवो भारं हर्तुं किं परमेश्वरः ।
एवं ततो गरिष्ठे ते ब्रह्माद्या देवतागणाः ॥ १६ ॥
ववर्षुः पुष्पवर्षाणि विमानवरमाश्रिताः ।
नीतेषु तेषु प्रेतेषु ब्राह्मणाः कश्यपोऽपि च ॥ १७ ॥
उपनीते तत्र शिशौ वासश्च मेखलामपि ।
उपवीताजिने दण्डं ददुस्तस्मै स्वमन्त्रतः ॥ १८ ॥
ततोंऽजलिं पूरयित्वा प्रोद्वीक्ष्य मण्डलं रवेः ।
होमं सर्वं समाप्यैनं सावित्रीं कश्यपोऽब्रवीत् ॥ १९ ॥
पादमर्धं ततः सर्वां भिक्षां माता पुरा ददौ ।
असङ्ख्यातास्ततो भिक्षा दुदुस्ते सर्व आगताः ॥ २० ॥
उपदिश्य ततश्चैनं शौचाचाराननेकशः ।
पुनश्च ब्राह्मणान्पूज्य वासांसि काञ्चनं च गाः ॥ २१ ॥
महत्यरिष्टेऽतीतेऽस्मिंस्तेभ्यो भक्त्या ददौ मुनिः ।
वसिष्ठस्तं सभामध्ये निनाय ब्रह्मणोऽन्तिकम् ॥ २२ ॥
सोऽपि कमण्डलुजलैरस्य तीर्थं गृहीतवान् ।
सर्वदा विकसत्पद्मं ददावस्मै करस्थितम् ॥ २३ ॥
ब्रह्मणस्पतिरित्येवं नाम चक्रे तदाऽस्य सः ।
सम्पूज्य नाम चक्रेऽस्य भारभूतिर्बृहस्पतिः ॥ २४ ॥
रत्नमालां ददौ चास्मै कुबेरोऽपि गलस्थिताम् ।
सुरानन्देति नामाऽस्य सम्पूज्य च चकार ह ॥ २५ ॥
सर्वप्रियेति नामाऽस्य दत्त्वा पाशमपां पतिः ।
शृण्वत्सु सुरसङ्घेषु चकार शङ्करोऽपि च ॥ २६ ॥
त्रिशूलं डमरुं दत्त्वा विरूपाक्षेति चाभ्यधात् ।
दत्त्वा चन्द्रकलां नाम भालचन्द्रेति चाकरोत् ॥ २७ ॥
रामस्य जननी चास्मै सखी बालाय चार्पयत् ।
परशुं परशुहस्तेति नाम चक्रे स्फुटं मुदा ॥ २८ ॥
पुनः सम्पूज्य सिंहं सा ददौ वाहनमुत्तमम् ।
सिंहवाहन इत्येवं चक्रे नामाऽतिसुन्दरम् ॥ २९ ॥
उपादिशद् दुष्टनाशं कुरु शीघ्रं विनायक ।
सागरो द्विजरूपेण मुक्तमालां ददावथ ॥ ३० ॥
मालाधरेति नामाऽस्य कृतवान् परिपूज्य च ।
आसनार्थं ततस्तस्मै शेषः स्वात्मानमर्थयत् ॥ ३१ ॥
फणिराजासनेत्येवं नाम चक्रे स्वयं मुदा ।
दाहशक्तिं ददौ वह्निर्धनञ्जयेति नाम च ॥ ३२ ॥
प्रभञ्जनेति नामास्मै वायुश्च बलमुच्चकैः ।
एवं सर्वे यथाशक्त्या दत्त्वा नामानि चक्रिरे ॥ ३३ ॥
तेषां निर्वचने शक्तिर्न कस्यापि भवेन्मुने ।
अपुपूजन्न चैनं स शक्रो मदविमोहितः ॥ ३४ ॥
न वा किञ्चिद् ददौ चैनमुपायनवरं शुभम् ।
अहं त्रिलोकीनमितः सुरेशो वृद्धोऽमृताशी लघुमर्भकन्तम् ॥ ३५ ॥
गजेन्द्रगामी हरिशूलपाणिप्रपूजितः कश्यपजं नमस्ये ।
सिंहो यथा नात्तितृणं समुद्रः पल्वलोदकम् ।
न याचति तथाऽन्यं वा कल्पवृक्षोऽखिलं ददत् ॥ ३६ ॥
एवं तस्याशयं बुद्धवा कश्यपः प्रणिधानवान् ।
उवाच धर्मसंयुक्तं वचस्तद्धितकाम्यया ॥ ३७ ॥
यत्राऽद्भुतानि कर्माणि यत्र स्युश्च गुणाकराः ।
स नमस्यश्च पूज्यश्च ब्राह्मणोऽपि च निर्गुणः ॥ ३८ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते नानानामनिरूपणं नाम दशमोऽध्यायः ॥ १० ॥

 इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-क्रीडाखण्डे-खण्ड-अध्याय-10

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें